सामविधानब्राह्मणम्
सामविधानब्राह्मणम् इदं सामवेदस्याऽस्ति। एतस्मिन् ब्राह्मणे सांरारिवस्तूनां प्राप्त्यै अपि विधानि दत्तानि इति महत्त्वमस्य। अत्र शत्रूणां नाशनाय, ऐश्वर्यप्राप्त्यै च अपि विधानानि सन्ति।
विषयवस्तु
[सम्पादयतु]अस्य विषयः ब्राह्मणान्तरेषु उपलब्धेभ्यो विषयेभ्यः नितान्तं भिन्नमस्ति । ब्राह्मणेऽस्मिन् अभिचाराय, ग्रामान्निष्कासनाय, शत्रूणां विनाशाय, धनार्जनाय, नानाविधोपद्रवाणां शमनाय च सामगानेन सह कतिपयस्य विशिष्टानुष्ठानस्य विधानमस्ति । अस्य ब्राह्मणस्य वर्णनशैली न पुनरुक्तिप्रधानाऽस्ति न चाप्यत्यन्तसंक्षिप्ताऽस्ति । सप्तमशतकीयेन कुमारिलभट्टमहोदयेन सामवेदस्य अष्टानां ब्राह्मणानां नामनिर्देशोऽपि कृतः, येषु अन्यतमेदं ब्राह्मणमस्ति ।
स्वरूपम्
[सम्पादयतु]ब्राह्मणेऽस्मिन् प्रकरणत्रयमस्ति । प्रथमप्रकरणे कृच्छ्रः, अतिकृच्छ्रादयः स्मृतिषु बहुशः वर्णितव्रतानां वर्णनं समुपलब्धो भवति । पुराणेषु वर्णितव्रतानां मूलमपि ब्राह्मणेऽस्मिन् समुपलब्धं भवति । यथा जले स्थित्वा कस्यापि विशिष्टमन्त्रस्य जपेन विशिष्टफलस्य प्राप्तिर्भवति । अस्मिन् ब्राह्मणे काम्यप्रयोगाणां तथा विविधप्रायश्चित्तानां विधानमपि वृद्धिं प्राप । एतेषां विषयाणामेव ग्रहणं धर्मसूत्रेषु तथा कालान्तरे धर्मशास्त्रेषु विशेषरूपेण उपलब्धं भवति । सामविधानमस्य एव वैशिष्ट्यस्य परिचायकमस्ति ।
सामविधाने कमपि शत्रुं ग्रामान्निष्कासनस्य, चतुष्पथि चिताभस्मानयनाय तथा शत्रुगृहेऽथवा शय्योपकरणे तत्प्रक्षेपणस्य वर्णनमस्ति ।[१] अनेन प्रकारेण सुवर्णप्राप्तिनिमित्ताय मांसबलिना तथा सामगायनेन सह मणिभद्रयक्षविशेषस्य पूजाविधानमस्ति।[२] पुराणेषु प्रसिद्धः रुद्रानुचराणां शान्तये अप्यत्र सामविधानं कौतूहलवर्द्धकमस्ति । विनायकस्य, स्कन्दस्य च शान्तये सामद्वयेन, तथा रुद्रस्य विष्णोश्च शान्तये सामद्वयान्येन विधानं विहितमस्ति।[३] शत्रोः मारणविधानस्य अप्यत्रोल्लेखो लभते।[४] राजयक्ष्मा प्राणहन्ता व्याधिरासीद्, तदुपशमनस्यापि विधेर्वर्णनमुपलब्धं भवति।[५]
तृतीयपरिच्छेदे ऐश्वर्याय, अभिनवगृहे प्रवेशाय, आयुष्यवर्धनाय च बहुविधानामनुष्ठानानां वर्णनं विभिन्नसामगायनेन सह कृतमस्ति । भूत-प्रेत-गन्धर्व-अप्सरा-देवतादिभ्यः साम्नां प्रयोगोऽपि अस्ति।[६] यो हि पुरुषः कमपि मन्त्रं सकृदैव श्रुत्वा तस्य पाठं कर्तुं शक्नोति, सः ‘श्रुतिनिगादी' भवति । एतस्यै सिद्ध्यै अपि सामगानस्य विधानमस्ति । ब्राह्मणग्रन्थोऽयं धर्मसूत्राणां पूर्वपीठिकाऽस्ति । धर्मसूत्रेषु सविस्तरेण वर्णिताः दोषापराधप्रायश्चित्तादिविषयाः ब्राह्मणेऽस्मिन् मुख्यतया प्रतिपादिताः । तदा समाजोऽयं चतुर्षु वर्गेषु विभक्त अासीत् । शूद्रया सह विवाहः सर्वथा निषिद्ध अासीत् । येभ्यः पापाचरणेभ्यः प्रायश्चित्तस्य विधानमत्रास्ति तान् दृष्ट्वा तात्कालिकसमाजस्य स्थितेः परिचयः प्राप्तुं शक्यते ।