सामग्री पर जाएँ

अचलानन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वामी
अचलानन्दः
विवेकानन्दस्य शिष्यः अचलानन्दः
Native name केदारनाथमौलिकः
जन्म सूरज रावः
१८७६ Edit this on Wikidata
वाराणसी
मृत्युः १९४७ Edit this on Wikidata
वाराणसी
देशीयता भारतम्
अन्यानि नामानि केदारनाथमौलिकः, केदारबाबा
नागरिकता भारतम्
वृत्तिः संन्यासी
कृते प्रसिद्धः अध्यात्मकार्यम्

अचलानन्दः (जन्म नाम केदारनाथमौलिकः यस्य जननम् - १८७६, मरणम् - १९४७) केदारबाबा नाम्नि प्रसिद्धः। एषः स्वामिनः विवेकानन्दस्य शिष्यः आसीत्। एतेनैव काश्यां रामकृष्णसेवागृहं स्थापितम्। एषः पूर्वाश्रमे आरक्षकः आसीत्। अनन्तरं विवेकानन्देन प्रेरितः जातः।[]

पूर्वाश्रमदिनानि

[सम्पादयतु]

केदारनाथमौलिकः १८७६ तमे वर्षे जन्म प्रप्तवान् परन्तु कस्मिन् दिनाङ्के इति न ज्ञायते। तस्य जन्म विद्याभ्यासः च काश्यां (वाराणसी/बनारसी) जातौ। तस्य पितुः नाम शम्भुचन्द्रमौलिकः।तस्य पूर्वजानां गृहं सोनापुरे अवर्तत। बाल्ये एव​ तस्य मातुः मरणं जातम्। पितामहः रामचन्द्रमौलिकः तं पोषितवान्। यद्यपि वङ्गराज्यतः आसित् तथापि वङ्गलिप्या लेखितुं न शक्नोति स्म​​।परन्तु वङ्गभाषायाः अवगमने सम्भाषणे च परिणतिः आसीत्। पर्शियन् भाषाम् अपि जानाति स्म​।[]:274

केदारनाथस्य गृहे बृहत् ग्रन्थालयः आसीत्। तेन भिन्नेषु विषयेषु पत्रिकायाः ग्राहकता प्राप्ता। विद्याभ्यासानन्तरम् आरक्षकः अभवत्। तस्मिन् समये तस्य विवेकानन्देन प्रभावितस्य यूनां गणस्य सम्पर्कः जातः। तस्मिन् गणे चारुचन्द्रदासः रामकृष्णादेशः इति सङ्घटनं प्रविश्य विवेकानन्दस्य साक्षात् शिष्यः भूत्वा शुभानन्दः इति प्रसिद्धः जातः। सः गणः धर्मस्य विषये आध्यात्मस्य विषये च पठति स्म। अपि च गिरीशचन्द्रघोषस्य लेखाः प्रसिद्धाः आसन्।[]:274

चारुचन्द्रस्य मित्रेण उद्बोधनं नाम वङगभाषायाः पत्रिकायाः ग्राहकता प्राप्ता। उद्बोधनस्य पथमसञ्चिकायां विवेकानन्दस्य वचनानि दृष्ट्वा केदारनाथः प्रभावितः जातः।[]:275

रामकृष्णस्य शिष्यः नीरजानन्दः आध्यात्मसाधनां काश्यां करोति स्म​। तेषां अध्ययनगणं प्रति सः आहूतः। केदारनाथः नीरजानन्दस्य मेलनावसरे रामकृष्णस्य चित्रं प्रथमवारं दृष्ट्वा प्रभावितः सन् तत् चित्रं स्वस्य ग्रन्थालये संस्थापितवान्।[]:276 नीरजानन्दः यावत्पर्यन्तं काश्यामासीत् तावत्पर्यन्तं युवानं निस्स्वार्थसेवायै त्यागाय च प्रेरयति स्म​। तस्य मार्गदर्शनेन केदारनाथः आध्यात्मजीवनम् अकरोत्।सः कार्यक्षेत्रात् निवृत्तिं स्वीकृत्य तस्य जीवनं ध्यानाय मौनव्रताय च समर्पितवान्। []:277 यूनां गणः नीरजानन्देन सह रामकृष्णस्य जन्मदिनम् आचरति स्म यत्र नीरजानन्दः रामकृष्णस्य जीवनं सन्देशं च उपन्यसति स्म। []:277 अध्ययनगणस्य सदस्याः विवेकानन्दस्य सन्देशानपि पठन्ति स्म। विवेकानन्दस्य शिष्यः कल्याणानन्दः यः जीवनं मानवसेवायै समर्पितवान् सः काशीमागतवान्। तेन केदारनाथः मानवसेवया भगवतः सेवा इति रामकृष्णविवेकानन्दयोः सन्देशान् अधीतवान्।[] तेषां सेवाकार्यं पाद​प​थे मरणशय्यायां स्थितायाः निर्धनायाः वृद्धायाः चिकित्साद्वारा आरब्धम्। तैः भिक्षां कृत्वा धनं प्राप्तम्।[] अनन्तरं केदारनाथः हरिद्वारं गत्वा कठोरजीवनम् आचरितवता नीरजानन्देन सह स्थितवान्। नीरजानन्दः कोलकातानगरं प्रत्यागतवान्।केदारनाथः हरिद्वारे स्थित्वा तस्य अध्यात्माचरणम् अनुवर्तितवान्।[] सः अन्नभिक्षां याच्य निर्जनप्रदेशे सार्धद्विमासपर्यन्तं निवसति स्म​।[] अनन्तरं केदारनाथः नीरजानन्दस्य शुश्रूषार्थं कोलकातानगरं गतवान्। तत्र रामकृष्णस्य अपरशिष्यस्य बेलूरुमठस्य प्रथमाध्यक्षस्य ब्रह्मानन्दस्य परिचयः जातः।ब्रह्मानन्देनोक्तमासित् यत् स्वल्पेन अध्यात्माचरणेनैव फलं प्राप्यते इति।[] सः रामकृष्णमहाप्रभुः इति बृहतः ग्रन्थस्य लेखकं रामकृष्णस्य शिष्यं शारदानन्दं बलरामबोसस्य गृहे अमिलत्।अपि च रामकृष्णचरितामृतम् इति ग्रन्थस्य लेखकं महेन्द्रनाथगुप्तमपि अमिलत्।

केदारनाथः काशीतः प्रत्यागत्य नीरजानन्दस्य मार्गदर्शनेन शारदादेवीं मेलितुं जयरम्बतिनगरं गत्वा मासद्वयं तत्रैव स्थितवान्। अपि च रामकृष्णस्य जन्मस्थलं कमरपुकुरुं गतवान्।[] शारदादेवी उक्तवती आसीत् यत् सः संन्यासी भविष्यतीति।[] १९०० तमे वर्षे जून् मसस्य १२ दिनाङ्के सः काशीमागतवान्।तस्य अनुपस्थितौ तस्य मित्राभ्यां विवेकानन्दस्य शिष्याभ्यां चारुचन्द्रदासजैमिनिरञ्जनमजुन्दराभ्यां रामकृष्णसेवागृहम् आरब्धम्।[] पादपथे म्रियमाणानां रुग्णानां यात्रिकाणां शुश्रूषा ताभ्यां कृता।[] निस्स्वार्थसेवया भगवतः सेवा संस्थायाः ध्येयमासीत् यत् विवेकानन्दस्य वेदान्तं प्रतिपादयति।[] प्रारम्भे एतस्याः संस्थायाः नाम निर्धनाश्रयसङ्घटनम् इति आसीत्। अनन्तरं विवेकानन्दस्य प्रार्थनेन​ रामकृष्णसेवागृहम् इति परिवर्तितम्। १९०२ तमे वर्षे विवेकानन्दः काशीमागतवानासीत् यत्र सः युवानं सेवायै प्रेरितवान्।[] १९०० तमे वर्षे सेप्टेम्बर् मासे १३ दिनाङ्के गृहमेकं पञ्चरूप्यकैः भाटकार्थं स्वीकृत्य सेवाकार्यं तस्मिन् गृहे प्रारब्धमासीत्। यूनां गणेन सर्वं कार्यं कृतं यत्र केदारनाथः अपि आसीत्। विवेकानन्दस्य हितैषिणा परमदासमित्रेण अध्यक्षत्वेन एका समितिः रचिता यत्र केदारनाथः सदस्यः आसीत्।

एतस्मिन् समये सेवाकार्येण केदारनाथः पित्रा बन्धुभिः च​ त्यक्तः जातः।[१०] एतस्य कारणेन तेन संन्यासजीवनं स्वीकृतम्। केदारनाथः दुर्भिक्षसमये स्वामिने कल्याणानन्दाय साहाय्यं दातुं किशनगढं गतवान् परन्तु तत्र श्रान्तिकारणतः तस्य आरोग्यं क्षीणं जातम्।[१०] यदा दुर्भिक्षापशमनकार्यं समाप्तं तदा केदारनाथः जयपुरं वृन्दावनं प्रयागराजं च​ दृष्ट्वा काशीं प्रति प्रत्यागतवान्।[११] एतस्मिन् समये विवेकानन्दः भारतं प्रत्यागतवानासीत्। अक्टोबर् मासे १९०० तमे वर्षे केदारनाथः तं मेलितुं बेलूरुमठं गतवान्।स्वामी ब्रह्मानन्दः परिचयं कारितवान्।[१२] अपि च प्रथमवारं दुर्गापूजामपि बेलूरुमठे दृष्टवान्।सः विवेकानन्देन सह बेलूरुमठे ९ मासपर्यन्तम् स्थितवान्।[१३] "भवता अध्यात्मसाधना विशेषतया करणीया नास्ति। गच्छता कालेन भवता अध्यात्मविद्या स्वयमेव प्राप्यते" इति विवेकानन्दः केदारनाथं प्रति उक्तवानासीत्।[१३] विवेकानन्दः तं स्नेहेन केदारबाबा इति सम्बोधयति स्म​।[१४] विवेकानन्दः बुद्धस्य जन्मदिने केदारनाथाय दीक्षां दत्तवान्। तेनैव अचलानन्दः इति नाम प्रदत्तम्। सः विवेकानन्दस्य अन्तिमः संन्यासिशिष्यः आसीत्।[१५]

दीक्षितजीवनम्

[सम्पादयतु]

स्वामिना विवेकानन्देन वेदान्तप्रसाराय भिङ्गमहाराजात् ५०० रूप्यकाणि स्वीकृतानि आसन्। जून् मासे १९०२ तमे वर्षे सः तत् धनं शिवानन्दाय अचलानन्दाय च वाराणस्याम् आश्रमनिर्माणार्थं दत्तवानासीत्।१९०२ तमे वर्षे जुलै मासे चतुर्थे दिनाङ्के काश्यां श्रीरामकृष्णाद्वैताश्रमं संस्थापितम्। तस्मिन् एव दिने कल्कत्तायां विवेकानन्दः दिवङ्गतः।[१६] १९०४ तमे वर्षे स्वामी अचलानन्दः स्वामीरामकृष्णानन्देन सह कार्यं कर्तुं मड्रासराज्ये स्थितं रामकृष्णमठं प्रेषितः। सः तत्र ११ मासपर्यन्तं कार्यं कृत्वा काशीं प्रत्यागतवान्। १९०८ तमे वर्षे लुक्सायां नूतनः सेवाश्रमरुग्णालयः प्रारब्धः। अचलानन्देन रुग्णालयनिर्माणकार्यम् अभिचष्टम्। १९१० तमे वर्षे स्वामिना बह्मानन्देन तस्य भवनस्य प्राणप्रतिष्ठापनं कृतम्। अनन्तरं स्वामिना बह्मानन्देन अचलानन्दः अध्यात्मसाधनां निर्विघ्नतया कर्तुं केदारनाथः कार्यभारात् विमोचितः।[१७] अचलानन्दः श्रीशारदादेव्या सह कोतार् क्षेत्रे अपि आसीत्। स्वामिना बह्मानन्देन सह पुरीनगर्यां स्थितवान्। अपि च १९१२ तमे वर्षे कङ्खल् नगर्याः रामकृष्णसेवाश्रमं गतवान्। यदा शारदादेवी रामकृष्णसेवागृहं द्रष्टुमागतवती आसीत् तदा अचलानन्दः एव रुग्णालयं दर्शितवान्। १९१० तमे वर्षे आगस्ट् मासस्य २४ तमे दिनाङ्के अचलानन्दः रामकृष्णमठस्य विश्वस्तरूपेण चितः। १९१४ तमे वर्षे सक्रियजीवनात् निवृत्तः जातः। अवशिष्टं जीवनं रामकृष्णविवेकानन्दयोः सन्देशाणां प्रसाराय तेन यापितम्। १९१६ तमे वर्षे सः स्वामिना विशुद्धानन्देन सह शारदादेवीं मेलितुं गतवान्। कठोरेण आचरणेन तस्य आरोग्यं क्षीणं जातम्।

नवम्बर् मासे १९३८ तमे वर्षे स्वामी अचलानन्दः रामकृष्णमठस्य उपाध्यक्षः अभूत्। तथापि सः सरलजीवनं निर्वहति स्म​। भक्ताः सन्यासिनः च तं महान् साधकः इति मन्यन्ते स्म​। विवेकानन्दस्य गुणान् आश्रयितुं सः यूनः प्रेरयति स्म​। १९४६ तमे वर्षे बेलूरुमठे जाते संन्यासिसम्मेलने सर्वानुद्दिश्य कार्ये प्रीतिः भवतु यतः रामकृष्णमठस्य सा एव प्रमुखा आधारस्तम्भा इति प्रेरयति स्म​। यद्यपि उपाध्यक्षः आसीत् तथापि सः सर्वान् भ्रातः इति सम्बोधयति स्म​। श्रीरामकृष्णदेवालयस्य निर्माणार्थं स्वीकृतं धन-ऋणं प्रत्यर्पयितुं सः भक्तैः स्वस्य कृते दत्तं धनमपि ददाति स्म​।

तस्य अवसानकाले कतिचन वर्षाणि रोगाग्रस्तः जातः।१९४७ तमे वर्षे मार्च​ मासे ११ दिनाङ्के सः दिवङ्गतः।[citation needed]

विशेषपठनम्

[सम्पादयतु]
  • Abjajananda Swami, Monastic Disciples of Swami Vivekananda, Advaita Ashrama, Mayavati, 2003, फलकम्:ISBN

ग्रन्थर्णम्

[सम्पादयतु]
  1. Abjajananda, Swami. Monastic Disciples of Swami Vivekananda. Mayavati: Advaita Ashrama. p. 273. ISBN 9788175052468. 
  2. २.० २.१ २.२ २.३ २.४ २.५ Abjajananda, Swami. Monastic Disciples of Swami Vivekananda. Mayavati: Advaita Ashrama. ISBN 9788175052468. 
  3. Abjajananda, Swami. Monastic Disciples of Swami Vivekananda. Mayavati: Advaita Ashrama. p. 278. ISBN 9788175052468. 
  4. Abjajananda, Swami. Monastic Disciples of Swami Vivekananda. Mayavati: Advaita Ashrama. p. 278. ISBN 9788175052468. 
  5. ५.० ५.१ Abjajananda, Swami. Monastic Disciples of Swami Vivekananda. Mayavati: Advaita Ashrama. p. 279. ISBN 9788175052468. 
  6. Abjajananda, Swami. Monastic Disciples of Swami Vivekananda. Mayavati: Advaita Ashrama. p. 280. ISBN 9788175052468. 
  7. ७.० ७.१ ७.२ Abjajananda, Swami. Monastic Disciples of Swami Vivekananda. Mayavati: Advaita Ashrama. p. 280. ISBN 9788175052468. 
  8. ८.० ८.१ Abjajananda, Swami. Monastic Disciples of Swami Vivekananda. Mayavati: Advaita Ashrama. p. 281. ISBN 9788175052468. 
  9. Mukherjee, Manishankar (Shankar). Abiswasya Vivekananda. Kolkata: Sahityam. p. 324. ISBN 8172670486. 
  10. १०.० १०.१ Abjajananda, Swami. Monastic Disciples of Swami Vivekananda. Mayavati: Advaita Ashrama. p. 282. ISBN 9788175052468. 
  11. Abjajananda, Swami. Monastic Disciples of Swami Vivekananda. Mayavati: Advaita Ashrama. p. 283. ISBN 9788175052468. 
  12. Abjajananda, Swami. Monastic Disciples of Swami Vivekananda. Mayavati: Advaita Ashrama. p. 284. ISBN 9788175052468. 
  13. १३.० १३.१ Abjajananda, Swami. Monastic Disciples of Swami Vivekananda. Mayavati: Advaita Ashrama. p. 285. ISBN 9788175052468. 
  14. Abjajananda, Swami. Monastic Disciples of Swami Vivekananda. Mayavati: Advaita Ashrama. p. 286. ISBN 9788175052468. 
  15. Abjajananda, Swami. Monastic Disciples of Swami Vivekananda. Mayavati: Advaita Ashrama. p. 288. ISBN 9788175052468. 
  16. Abjajananda, Swami. Monastic Disciples of Swami Vivekananda. Mayavati: Advaita Ashrama. p. 290. ISBN 9788175052468. 
  17. Abjajananda, Swami. Monastic Disciples of Swami Vivekananda. Mayavati: Advaita Ashrama. p. 291. ISBN 9788175052468. 

फलकम्:Swami Vivekananda

"https://sa.wikipedia.org/w/index.php?title=अचलानन्दः&oldid=463854" इत्यस्माद् प्रतिप्राप्तम्