थामस् हण्ट् मार्गन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
थामस् हण्ट् मार्गन्
Johns Hopkins yearbook of 1891
जननम् (१८६६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ९-२५)२५, १८६६
Lexington, Kentucky
मरणम् ४, १९४५(१९४५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०४) (आयुः ७९)
Pasadena, California
देशीयता United States
कार्यक्षेत्राणि Geneticist
Embryologist
संस्थाः Bryn Mawr College
Columbia University
California Institute of Technology
मातृसंस्थाः University of Kentucky (B.S.),
Johns Hopkins University (Ph.D.)
शोधच्छात्राः John Howard Northrop
Hermann Joseph Muller
Nettie Maria Stevens
विषयेषु प्रसिद्धः Drosophila melanogaster
Linked genes
प्रमुखाः प्रशस्तयः Nobel Prize in Physiology
or Medicine
in 1933


(कालः – २५. ०९. १८६६ तः ०४. १२. १९४५)

अयं थामस् हण्ट् मार्गन् (Thomas Hunt Morgan) आनुवंशिकविज्ञानस्य सिद्धपुरुषः । एषः थामस् हण्ट् मार्गन् १८६६ तमे वर्षे सेप्टेम्बरमासस्य २५ तमे दिनाङ्के अमेरिकादेशस्य केन्‍टकी इति प्रान्तस्य लेक्सिङ्ग्टन् इति प्रदेशे जन्म प्राप्नोत् । २५ तमे वयसि पदवीं प्राप्य १८९० तमे वर्षे जान्-हाप्किन्स्-विश्वविद्यालये “डाक्टरेट्” प्राप्नोत् । अग्रिमे वर्षे ब्रैन्मार् इति महाविद्यालये शिक्षकरूपेण नियुक्तः अभवत् । १९०४ तमे वर्षे “कोलम्बिया”-विश्वविद्यालये प्रायोगिक–प्राणि–विज्ञानस्य प्राध्यापकः अभवत् । १९१० तः १९३० पर्यन्तः कालः अस्य थामस् हण्ट् मार्गनस्य संशोधनस्य कालः । एषः यदा ब्रैन्मार् महाविद्यालये आसीत् तदा एव आनुवंशिकशास्त्रस्य मूलानि दृढानि अभवन् अस्य मनसि । ग्रिगोर् जोहान् मेण्डेलस्य तत्त्वम् एषः थामस् हण्ट् मार्गन् अपि अङ्गीकृतवान् आसीत् । सः मेण्डेल् कोशविभजनस्य अवसरे कोशे विद्यमानेषु वर्णतन्तुषु यानि परिवर्तनानि भवन्ति तानि एव वंशश्रेण्याः वंशश्रेणीं प्रति गुणलक्षणानां गमनस्य निर्णयं कुर्वन्ति इति प्रतिपादितवान् आसीत् । २०० वर्णतन्तुयुक्तानां मानवानाम् अपत्येश्षु तर्हि कथं सहस्रशः गुणलक्षणानि दृश्यन्ते ? तथा चेत् प्रत्येकस्मिन् वर्णतन्तौ अपि गुणानां निर्णयस्य वा परिवर्तनस्य वा गुणांशः स्यात् इति संशयः आरब्धः थामस् हण्ट् मार्गनस्य मनसि । तान् विशिष्टान् गुणांशान् सः थामस् हण्ट् मार्गन् “गुणाणवः” (जीन्स्) इति अवदत् । ग्रीक् भाषायां गुणाणुः (जीन्) इत्युक्ते जननस्य कारणम् अथवा जननम् इति अर्थः ।

कोशविभजनस्य अवसरे वर्णातन्तवः यत् द्विगुणिताः भवन्ति, तिर्यक् चलनं (Crosing over) यत् भवति, पुनः संयोगः (Recombination) यः भवति, तदाधारेण एव जीविषु आनुवंशिकानि लक्षणानि निर्णीयन्ते । वर्णतन्तवः यदा विच्छिन्नाः सन्तः पृथक् भवन्ति तदा ते गुणाणवः कथं व्यवहरन्ति ? ते आनिवंशिकानि लक्षणानि कथं वहन्ति च इत्यादिकं ज्ञातम् अस्य थामस् हण्ट् मार्गनस्य संशोधनैः एव । एषः थामस् हण्ट् मार्गन् १९०७ वर्षे “ड्रासोफिला” नामिकानां मक्षिकाणां वर्धनं पालनं च कुर्वन् संशोधनम् आरब्धवान् । १९१५ वर्षाभ्यन्तरे गुणाणूनां स्वरूपस्य विषये कश्चन निर्णयः कर्तुं शक्यः अभवत् तैः थामस् हण्ट् मार्गन् तथा तस्य त्रिभिः शिष्यैः च । तदनन्तरम् अपि १० वर्षाणि यावत् अस्मिन् विषये संशोधनं कृत्वा १९२६ तमे वर्षे “गुणाणूनां कथा” (दि थियरि आफ् जीन्) इति पुस्तकम् अलिखत् अयं थामस् हण्ट् मार्गन् ।

वंशश्रेणीतः वंशश्रेणीं प्रति गमनसमये गुणाणवः कदाचित् विच्छिन्नाः सन्तः पृथक् भवन्ति इति ह्यूगो द व्रीस् संशोधितवान् आसीत् । एषः थामस् हण्ट् मार्गन् अपि तत् अङ्गीकृतवान् । १९११ वर्षाभ्यन्तरे वर्णतन्तूनां मानचित्रम् अपि सज्जीकृतम् । अनेन थामस् हण्ट् मार्गन्नेन वर्धितम् आनुवंशिकं विज्ञानं सर्वैः अङ्गीकृतम् आनुवंशिकं विज्ञानम् इति वदन्ति । एषः थामस् हण्ट् मार्गन् १९२७ तः १९३१ पर्यन्तं राष्ट्रिय–विज्ञान–अकादम्याः अध्यक्षः आसीत् । एषः थामस् हण्ट् मार्गन् १९३३ तमे वर्षे “नोबेल्” पुरस्कारेण सम्मानितः अपि । एषः १९४५ तमे वर्षे डिसेम्बरमासस्य ४ दिनाङ्के पेसडीना इति प्रदेशे इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=थामस्_हण्ट्_मार्गन्&oldid=480445" इत्यस्माद् प्रतिप्राप्तम्