ह्यूगो द व्रीस्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ह्यूगो डि व्रीस्
Hugo de Vries, ca. 1907
जननम् (१८४८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-१६)१६ १८४८
मरणम् २१ १९३५(१९३५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-२१) (आयुः ८७)[१]
संस्थाः Leiden University


(कालः – १६. ०२. १८४८ तः २१. ०५. १९३५)

अयः ह्यूगो द व्रीस् (Hugo De Vries) उत्परिवर्तनस्य व्याख्याता अस्ति । चार्ल्स् डार्विन्, लामार्क् इव विकासवादं स्वीयरीत्या एव विवरितुं प्रयत्नं कृतवत्सु हालेण्ड्-देशस्य ह्यूगो द व्रीस् अपि अन्यतमः । अयं ह्यूगो द व्रीस् १८४८ तमे वर्षे फेब्रवरीमासस्य १६ दिनाङ्के हालेण्ड्-देशे जन्म प्राप्नोत् । अयं चार्ल्स् डार्विनस्य "प्राकृतिकचयनेन आनुवंशिकजननम्” इत्येतं विकासवादं गभीरतया अधीतवान् । एकस्याः वंशश्रेण्याः अन्यस्याः च भेदः कथं जायते इति तस्मिन् विकासवादे विवरणम् एव नास्ति इति सः ह्यूगो द व्रीस् आक्षिप्तवान् । प्रतिवंशश्रेण्यां नूतनस्य लक्षणस्य उदयस्य विवरणार्थं सः "उत्परिवर्तनस्य" वादं प्रस्तुतवान् । अस्य वादस्य अनुसारं कस्यापि सस्यस्य अथवा प्राणिनः गुणलक्षणानि परस्परं न अवलम्बन्ते । विभिन्नाः एव अनन्तरं मेलनेन रूपपरिवर्तनं प्राप्नुवन्ति इति । अनेन ग्रोगोर् जोहान् मेण्डेलस्य अनुवंशीयसिद्धान्तस्य एव पुनः समर्थनम् अभवत् ।

१९०० तमे वर्षे अनेन ह्यूगो द व्रीसेन सस्यानां विषये कृतेन संशोधनेन स्वीयः वादः समीचीनः इति अभासत । तदा पुनः एकवारं विकासस्य साध्यासाध्यस्य सम्बद्धानि पूर्वं कृतानि सर्वाणि अपि कार्याणि पर्यशीलयत् । तेन शतकात् पूर्वम् एव अयं विकासवादः ग्रोगोर् जोहान् मेण्डेलेन संशोधितः आसीत् इति विषयः ज्ञातः । तदा तं विषयम् अङ्गीकृत्य एतत् मम संशोधनं किमपि न इति मुक्तमनसा अघोषयत् ह्यूगो द व्रीस् । १८८६ तमे वर्षे आकस्मिकतया घटितायाः कस्याश्चित् घटनायाः कारणतः अयं ह्यूगो द व्रीस् ग्रोगोर् जोहान् मेण्डेलस्य तत्त्वस्य अपेक्षया अपि एकं पदम् अग्रे गतवान् । कदाचित् सयङ्काले यदा सः अटनार्थं गतवान् आसीत् तदा सः अमेरिकातः नूतनातया आनीय वर्धितं "सन्ध्यामल्लिका”याः सस्यम् अपश्यत् । तत् सस्यं कस्मिंश्चित् रिक्ते स्थाने सर्वत्र वर्धितम् आसीत् । तेषु कानिचित् सस्यानि अन्येभ्यः सस्येभ्यः भिन्नानि आसन् । अस्याः भिन्नतायाः कारणम् एव "उत्परिवर्तनम्” इति अवदत् सः ह्यूगो द व्रीस् । तस्मिन् सस्ये जातायाः भिन्नतायाः कारणं वर्णतन्तवः एव । वर्णतन्तुषु जायमानं परिवर्तनं जीविषु अपि परिवर्तनं कारयति । भूमौ वासावरे तत्रत्यः परिसरः सर्वदा परिवर्तनं प्राप्नुवन् भवति । तत्र जीवनीयं चेत् जीविभिः अपि नूतनानि परिवर्तनानि करणीयानि एव । भूमौ परिसरेण सह यत् सामञ्जस्यं करणीयं भवति तदर्थं जीविषु अपि नूतनानि परिवर्तनानि जायन्ते तदनुगुणम् । तानि परिवर्तनानि अग्रिमां वंशश्रेणीं प्रति गच्छन्ति च । एषः विषयः यद्यपि तावता ज्ञातपूर्वः एव आसीत् तथापि तद्विषये कस्यापि वैज्ञानिकं ज्ञानं न आसीत् ।


१७९१ तमे वर्षे अमेरिकादेशस्य कश्चन कृषकः कदाचित् जातस्य पङ्गोः मेषस्य एव वंशश्रेणीम् अनुवर्त्य व्रतिम् अपिक्रम्य गन्तुम् असमर्थान् मेषान् वर्धितवान् आसीत् । एतत् उत्परिवर्तनस्य लाभस्य किञ्चन उदाहरणम् । बीजरहितं नारङ्गम् अपि उत्परिवर्तनस्य एव कारणेन जातम् । अनुवंशीयतायाः अनुवर्तनं कुर्वन्ति जीविनः एव । तन्नाम जीविषु विद्यमानाः वर्णतन्तवः । वर्णतन्तवः नाम सूत्रसदृशाणि फ्रोटीन् तथा डि.एन्.ए युक्तानि सूक्ष्मशरीराणि एव । कोशकेन्द्राम्लस्य रचनायां सम्मुखीभवन्तः प्रत्याम्लानि परस्परं पूरकाणि भवन्ति । तस्मिन् पूरकक्रमे यदि अल्पः भेदः भवति तर्हि उत्परिवर्तनं भवति । उदाहरणार्थम् "ए" स्थाने "जि”, "जि” स्थाने "ए" आगच्छति । (ए=अडिनीन्, जि=ग्वानीन्, टि=थैमीन्, सि=सैटोसीन्, यु=युरासिल्) एते सर्वे रासायनिकानाम् आदेशानां द्वारा जीविनां क्रियाणां रूपकघटकाः । एतेषां रचनायं जातं परिवर्तनम् आदेशे अपि परिवर्तनं कारयति । तेन परिवर्तनेन जीविनां शरीरे दोषाः वा समयानुगुणं जातानि अनिकूलकराणि परिवर्तनानि वा भवन्ति । जीविनां शरीरे एकवारं परिवर्तनं जायते चेत् पुनः पूर्वतनां स्थितिं न प्राप्नुवन्ति । जातं परिवर्तनं जीविनां वंशश्रेण्यां प्रबलरूपेण वा अबलरूपेण वा अनुवर्तते एव । कदाचित् विरलतया एकवारं जातम् उत्परिवर्तनं पुनरेकदा जातम् उत्परिवर्तनं समीकरोति । एतत् उत्परिवर्तनं स्वाभाविकरूपेण अपि भवितुम् अर्हति अथवा कृतकरूपेण अपि । कृतकस्य उत्परिवर्तनस्य कारणकर्ता मनुष्यः एव भवति ।


अस्य ह्यूगो द व्रीसस्य अयं विकासवादस्य सिद्धान्तः चार्ल्स डार्विनस्य सिद्धान्ते विद्यमानं लोपं परिष्कृत्य, अगस्ट् वीस्मानस्य "प्रजजनद्रव्यसिद्धान्ते” अपि परिवर्तनानि अकरोत् । अयं ह्यूगो द व्रीस् १९३५ तमे वर्षे मेमासस्य २१ तमे दिनाङ्के इहलोकम् अत्यजत् ।

  1. Ralph E. Cleland (1936). "Hugo de Vries". Proceedings of the American Philosophical Society (American Philosophical Society) 76 (2): 248–250. JSTOR 984672. 
"https://sa.wikipedia.org/w/index.php?title=ह्यूगो_द_व्रीस्&oldid=275008" इत्यस्माद् प्रतिप्राप्तम्