निर् (उपसर्गः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


निः पृथक्करणे खेदे वहिष्कृत्याग्रहे भृशे ।
          भोगेऽधिश्रयणे शान्तावन्तर्धानपदार्थयोः ॥
आनिष्करणसम्पत्त्योर्वियोगे दर्शने सुखे ॥

प्रयोगाः[सम्पादयतु]

१ पृथक्करणे – निवारयति , निष्कासयति ।
२ खेदे – निर्गच्छति ।
३ आग्रहे – निर्बन्धः ।
४ भृशे – निष्पतति , निरीक्षते ।
५ भोगे – निर्विशति ।
६ अधिश्रयणे – आग्नेयमष्टाकपालं चरुं निर्वपेत् ।
७ शान्तौ – दीपः निर्याति ।
८ अन्वाख्याने – निर्वक्ति ।
९ सम्पत्तौ – निष्पत्तिः ,निर्मितिः ।
१० वियोगे – निर्मुक्तः , निरामयः ।
११ दर्शने – निर्दिशति ।
१२ सौख्ये – निर्वाणम् ।
१३ अभावे – निर्मक्षिकम् ।

"https://sa.wikipedia.org/w/index.php?title=निर्_(उपसर्गः)&oldid=395514" इत्यस्माद् प्रतिप्राप्तम्