षष्ठीपूजा
षष्ठीपूजायाः ( ( शृणु) /ˈʃhəʃhthiːpuːdʒɑː/) (हिन्दी: छठ पूजा, आङ्ग्ल: Chhath Pooja) वास्तविकं नाम सूर्य-षष्ठी इति । इयं पूजा कार्तिकमासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ भवति । प्रकृतेः षष्ठमांशयुक्तत्वात् षष्ठी-देवी बालकानां रक्षिका दीर्घायुदायिका च मन्यते । प्रतिमासं शुक्लपक्षस्य षष्ठ्यां तिथौ देवसेना-देव्याः पूजा तु भवति एव किन्तु कार्तिकशुक्लषष्ठ्याम् अस्याः प्रमुखोत्सवः आचर्यते । उत्तरप्रदेशराज्यस्य पूर्वभागे, बिहारराज्ये च अयम् उत्सवः विशेषरूपेण आचर्यते । अन्येषु प्रदेशेषु अयम् उत्सवः विभिन्नपद्धत्या आचर्यते । सामान्यतया नवजातस्य जन्मदिनात् षष्ठे दिने षष्ठी-पूजा भवति । अस्यां पूजायां नैवेद्यार्थं मृदु-ओदनम् आवश्यकम् वर्तते । षष्ठमदिवसे प्रसूतायाः स्नानानन्तरं षष्ठी-देवी पूज्यते, महिलाभ्यः प्रसादत्वेन मृदु-ओदनं वितीर्यते ।
पूजासम्बद्धा पौराणिकी कथा
[सम्पादयतु]पौराणिककथानुसारं राज्ञः प्रियव्रतस्य सन्ततिः नासीत् । राजा प्रियव्रतः मुनिकश्यपं सन्तानप्राप्तेः उपायम् अपृच्छत् । महर्षिकश्यपेन प्रियव्रताय पुत्रेष्टियज्ञस्य उपायः प्रदत्तः । राज्ञः प्रियव्रतस्य पत्न्याः नाम मालिनी इति । यज्ञस्य फलस्वरूपेण मालिनी एकं पुत्रं प्राप्तवती । किन्तु जन्मसमये एव पुत्रस्य मृत्युरभवत् । द्वौ अपि दुःखितौ व्याकुलौ च बभूवतुः । तदा एव आकाशात् एकं दिव्यविमानम् आगतम् । तस्मिन् एका देवी विराजिता आसीत् । सा देवी ब्रह्ममानसपुत्री आसीत् । तस्याः नाम षष्ठी-देवी इति । “अहं सन्तानहीनेभ्यः सन्तानदायिका एवं बालकानां रक्षिका अस्मि” इति उक्त्वा सा देवी तं शिशुं संस्पृश्य तं शिशुं पुनर्जीवितम् अकरोत् । राजा प्रियव्रतः कृतज्ञताभावेन देव्याः वन्दनं चकार । ”पृथ्व्यां मम पूजायाः व्यवस्थां कुरू” इति देव्या प्रियव्रतः आदिष्टः । तदनुसारं राज्ञा सम्पूर्णराज्ये षष्ठी-देव्याः आह्वानं कृतम् अपि च तस्याः पूजायै व्यवस्था कल्पिता ।
पुराणोक्ता पूजाविधिः
[सम्पादयतु]पुराणेषु षष्ठी-देव्याः अपरं नाम कात्यायनी इत्यपि उक्तम् अस्ति । पुराणेषु अस्याः पूजायाः विधिः अपि लिखिता अस्ति । स्कन्दपुराणानुसारं विधिः अस्ति यत् – “यया स्त्रिया उपवासः कृतः तया दिवसे एकवारम् एव भोजनं करणीयम् । तया वाण्यां संयमः धार्यः तथा क्रोधः अपि न कर्तव्यः । षष्ठ्यां सम्पूर्णदिनम् उपवासं कृत्वा सायङ्काले पुष्पफलधूपदीपनैवेद्यादयः नीत्वा नद्यास्तटं प्राप्य गीतवाद्यादिभिः सूर्यवन्दनं करणीयम् । सूर्याय अर्घ्यं दत्त्वा अग्रजेभ्यः वन्दनीयम् । व्रतकर्त्र्याः आर्द्रवस्त्रप्रक्षालनं यः कोऽपि करोति सः पुण्यं लभते । सूर्यास्तकाले पुटेषु (दुना) दीपाः ज्वालनीयाः, दीपसहितपुटानि नद्यां त्यक्तव्यानि च । सप्तम्यां तिथौ ब्राह्ममुहूर्ते उत्थाय सर्वाभिः व्रतकर्त्रीभिः नद्यां स्थित्वा सूर्योदयस्य प्रतीक्षा कर्तव्या । सूर्योदयानन्तरं भगवतः सूर्यस्य पूजां कृत्वा तस्मै अर्घ्यं दातव्यम् । अनन्तरं ब्राह्मणेभ्यः दक्षिणां दत्त्वा व्रतः समापनीयः” ।
षष्ठी-देवी प्रकृतिः, सूर्यः जगत्स्रष्टा मन्यते । अनयोः कृपया वयं रक्षिताः पालिताश्च स्मः । अतः बालकानां रक्षणाय, सुखप्राप्त्यै च सूर्यषष्ठीपूजा अत्यन्ता प्रासङ्गिकी अस्ति ।
विकिमीडिया कॉमन्स् मध्ये षष्ठीपूजा सम्बन्धिताः सञ्चिकाः सन्ति। |