अद्वैतनयरीत्या तत्त्वमसि श्रुत्यर्थः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अद्वैतनयरीत्या तत्त्वमसि श्रुत्यर्थः
अद्वैतनयरीत्या तत्त्वमसि श्रुत्यर्थः
अद्वैतनयरीत्या तत्त्वमसि श्रुत्यर्थः

जीवब्रह्मणोरेक्त्वं तु अहं ब्रह्मास्मीत्यादि सकलश्रुतिस्मृतिसिध्दम्छान्दोग्ये षष्ठेऽध्याये उद्दालकेन श्वेतकेतुमुद्दिश्य सर्वोऽपि आविद्यको जीवसमुदायः बोध्यते तत्तवमसीति । तत् शब्देनात्र तेजोऽबन्नानां सृष्टा सर्वज्ञः मायोपाधिक ईश्वरः वाच्यः । त्वं पदेन च अल्पगुणको जीवः । न चानयोरैक्यं जलानलयोरिव भवितुमर्हति । ऎक्यं च शास्त्रताप्तर्यमित्युक्तम् । अतोऽत्र अगत्या जहदजहल्लक्षणा स्वीकार्या । तथा च तत्पदवाच्यः सर्वज्ञः चेतनः । त्वं पदवाच्यश्च अल्पज्ञः चेतनः । अनयोर्भेदकौ सर्वज्ञत्वाल्पज्ञत्वौ विहायाऽवशिष्टयोः चेतनयोः ऎक्यं वक्तव्यम् । उक्तोऽयमर्थः शङ्कराचार्यैः –

जहदजहतीति सा स्याद्या वाच्यार्थैकदेशमपहाय ।
बोधयति चैकदेशं सोऽयं द्विज इतिवदाश्रयेदेनाम् ॥ ३५ ॥
सोऽयं द्विज इति वाक्यं त्यक्त्वा प्रत्यक् परोक्षदेशाद्यम् ।
द्विजमात्रलक्षकत्वात्कथयत्यैक्यं पदार्थयोरुभयोः ॥३६॥
तद्वत्तत्त्वमसीति त्यक्त्वा प्रत्यक् परोक्षतादीनि ।
चिद्वस्तु लक्षयित्वा बोधयति स्पष्टमसिपदेनैक्यम् ॥३७॥
ऎक्यं तयोर्लक्षितयोर्न वाच्ययोः निगद्यतेऽन्योन्यविरुध्दधर्मिणोः ।
खद्योतभान्वोरिव राजभृत्ययोः कूपाम्बुराश्योः परमाणुमेर्वोः ॥२४४॥
ततस्तु तौ लक्षणया सुलक्ष्यौ तयोरखण्डैकरसत्वसिध्दये ।
नालं जहत्या न तथाऽजहत्या किन्तूभयार्थैकतयैव भाव्यम् ॥ २४९॥
स देववदतोऽयमितीव चैकता विरुध्दधर्माशमपास्य कथ्यते ।
यथा तथा तत्त्वमसीति वाक्ये विरुध्दधर्मानुभयत्र हित्वा ॥ २५०॥
संलक्ष्य चिन्मात्रतया सदात्मनोरखण्डभावो परिचीयते बुधैः ।
एवं महावाक्यशतेन कथ्यते ब्रह्मात्मनोरैक्यमखण्डभावः ॥ २५१॥

जहदजहल्लक्षणास्वीकारः न युक्तः[सम्पादयतु]

अत्रेदं प्रष्टव्यम् –जहदजहल्लक्षणास्वीकारः तदैवोपपद्येत यदा शास्त्रमैक्यपरं स्यात् । न चैवमित्युक्तम् । किञ्च सर्वज्ञत्वाल्पज्ञत्वरुपविरोध्याकारपरित्यागः किं विवक्षाभावमात्रेण ? अथ अनित्यत्वेन ? उत मिथ्यात्वेन ? नाद्यः । जलानलनिष्ठयोः शैत्यदाहकत्वोयोरविवक्षामात्रेण तयोरभेदः न् क्वापि दृष्टः । अनित्यत्वे तु तत् त्वं भविष्यसि इति निर्देशः स्यात् । न त्वसीति वर्तमानव्यपदेशः । किञ्च प्रमाणबाधितं जीवब्रह्मणोर्गुणानित्यत्वकल्पनम् । ‘नित्यानन्दो नित्यज्ञानो नित्य बलः परमात्मा’ ‘अविनाशी वा अरे अयमात्मा अनुच्छित्तिधर्मा’ इत्यादिश्रुतिभिः,

तथा हेयगुणध्वंसात् अवबोधादयो गुणाः ।
प्रकाश्यन्ते न जायन्ते नित्या एवात्मनो हि ते ॥

इत्यादिस्मृतिभिश्च ईशगुणनित्यत्वं ज्ञानानन्दादिजैवगुणनित्यत्वं च प्रतिपादितम् ।

अत एव न तृतीयः । ‘परास्य शक्तिः विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ ‘सत्यस्योऽस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये (ऋक्. १०.५५.६) इत्यादि श्रुतिभिः परमात्म गुणनित्यत्वस्य स्फुटं प्रतीयमानत्वात् न विरोध्याकारस्य मिथ्यात्वम् । तस्मात् नात्र विरोध्याकारपरित्यागहेतुका जहदजहल्लक्षणा सम्भवति । द्वैरसिध्दान्तरीत्या तत्त्वमसि श्रुत्यर्थः (छां. ६.८.७)

तत्त्वमसीति श्रुतेः जीवब्रह्मभेद एव तात्पर्यमस्तीति खण्डनखण्डखाद्ये (पूर्वपक्षप्रकरणे )वादरत्नावल्याम्, न्यायामृते, श्रुतितत्त्वप्रकाशिकायां विस्तरेण निरुप्य अनेकेऽर्थाः भेदपरतयोपवर्णिताः । त एवात्र केचन सङ्गृह्य सङ्क्षिप्य च विव्रियन्ते-

  1. मुख्यार्थाऽसम्भवे हि लक्षणाश्रयणमित्यत्र अस्ति समेषां वादिनां सम्प्रतिपत्तिः । न च प्रकृते मुख्यार्थबाधं प्रतीमः । येन लक्षणाशयणमुपपद्येत् । लक्षणाश्रयणेऽपि ‘तत्’ ‘त्वम्’ इति द्वयोः पदयोः लक्षणास्वीकारात् वरं मद्रित्या तत् पदस्य त्वं पदस्य वा लक्षणाश्रयणम्, असि पदस्य गौणार्थस्वीकारो वा । तदुक्तं तत्त्वप्रकाशिकायाम् –‘लक्षणावृत्तौ हि तत्त्वं पदवाच्यार्थपरित्या गेनासिपदमात्रे सामानाधिकरण्यरुपमुख्यार्थताऽशेषप्रमाणविरुध्दाङ्गीकर्तव्या । वरं हि ततस्तत्त्वं पदमुख्यार्थमङ्गीकृत्यासिपदमात्रस्य गौणार्थवर्णनम् ’ इति । तथा च तत्त्वंपदयोः मुख्यार्थमङ्गीकृत्य असिपदस्य सादृश्यैक्य-मत्यैक्यपरतया व्याख्याने न कोऽपि दोषः ।
  2. तत्सहचरितत्वात् तदिति व्यपदेशः (तत् = तत्सहचरितः त्वमसीत्यर्थ्ः) ब्रह्मसहचरो हि जीवः प्रसिध्दः ‘द्वा सुपर्णा’ इत्यादौ ।‘वसन्तादिभ्यष्ठक् (पा.सू.४.२.६३.) वसन्तमधीते वासन्तिक इत्यत्र माहाभाष्यम् –‘अयुक्तोऽयं निर्देशः । अधीत इति वर्तते । न च वसन्तो नामाध्ययनमस्ति । नैष दोषः । साहचर्यात्ताच्छब्द्यं भविष्यति । वसन्तसहचरितमध्ययनं वसन्ताध्ययनम् ’ इति ‘यत्र वसन्तो वर्ण्यते यद्वा वसन्ते अधीयते तत्साहचर्यात् ताच्छब्द्यं लभ्यते’ इत्याह कैय्यटः । तस्माद् युक्तमेकपदस्यामुखार्थत्वम् ।
  3. यद्वा तदाश्रितत्वात् तत् इति व्यपदेशः । ‘समर्थः पदविधिः’ (पा.सू.२.१.१) इत्यत्र ‘समर्थपदाश्रितत्वात् पदविधिरुपचारेण समर्थपदेनोच्यते’ इति महाभाष्योक्तेः, तत्सम्बन्धी तदाश्रयः तत्सहचरश्चेत्यर्थः । उक्तं च कैय्यटेन-‘समर्थपदसम्बन्धित्वात् पदविधिरुपचारात् समर्थपदेनोच्यत ’ इति उक्तं च पदमञ्चर्याम्-‘उपचरितवृत्तिः समर्थशब्दः समर्थपदाश्रयत्वात् ’ इति एवञ्च तत्पदस्य लक्षणाश्रयणेन तदाश्रितस्त्वमसि इत्यर्थः सम्पन्नः ‘सर्वाः प्रजाः सदायतना’ इति वाक्यशेषाच्च ।
  4. अथवा ‘ब्राह्मणोऽस्य मुखमासीत्’ इत्यादिवत् ततो जातत्वात् तदिति व्यपदेशः । ‘इग्यणः सम्प्रसारणम्’ (पा.सू. १.१.४५) इत्यत्र “ काकाज्जातः काकः’ ‘श्येनाज्जातः श्येनः’ एवं सम्प्रसारणाज्जातो वर्णः सम्प्रसारण” इति महाभाष्योक्तेः । ‘अन्मूलाः सौम्येमा सर्वाः प्रजा’ इति वाक्यशेषाच्च ।

ब्राह्मणो मुखमित्येव मुखाज्जातत्वहेतुतः । यथावदत् श्रुतिस्तद्वत् जीवो ब्रह्मेति वाग् भवेत् ।

  1. अथवा, यथा तण्डुलं प्रति ‘धान्यमसि धिनुहि देवान्’ इति धान्याधिनोत्पत्तिके तण्डुले धान्यशब्दस्य लक्षणावृत्तिर्मीमांसकैराश्रिता । तथा तदधीनोत्पत्तिकस्त्वमसीत्यर्थः । ‘प्राणबन्धनं हि सोम्य मनः’ इति वाक्यशेषे जीवस्येशाधीनत्वोक्तेः । ‘यदधीना यस्य सत्ता तत्तदित्येव भण्यते’ इति भारतोक्तेश्च ।
  2. अथवा अतिदेशोऽयम् । तद्वत् त्वमसीत्यर्थः । तदुक्तं महाभाष्ये –‘बहुगणवतुडतयः सङ्ख्यावद्भवन्ति’ (पा.सू. १.१.२३) ‘तर्हि वितिनिर्देशः कर्तव्यः । न हि । कथमनुच्यमानं गम्यते । अन्तरेणापि वतिमतिदेशो गम्यते । अब्रह्मदत्तं ब्रह्मदत्तमित्याह तेन वयं मन्यामहे ब्रह्मदत्तवदयं भवतीति’ इति । तथा च तत्त्वमसीति वाक्यस्य तद्वत् त्वमसीत्यर्थः उपपन्नतरः ।
  3. यद्वा शाखासदेशे चन्द्र शाखाशब्दवत् जीवान्तर्थामितया जीवसदेशे ब्रह्मणि त्वमिति व्यपदेशः । ‘ य आत्मनि तिष्ठन्’ इत्यादिश्रुतेः ।
  4. यद्वा ‘ब्राह्मणो वै सर्वा देवता’ इत्यादिवत् जीवाश्रयत्वात् ब्रह्मणि त्वमिति व्यपदेशः । उक्तः चामोदे –‘यावतीर्वा एता देवताः ता सर्वाः वेदविदि ब्राह्मणे वसन्ति’ इत्यादिश्रुतिप्रतिपन्नं सर्वदेवाश्रयत्वमादाय ब्राह्मणे देवताशब्दवत् ‘य आत्मनि तिष्ठन्’ इत्यादिश्रुतिप्रतिपन्नं जीवस्य ब्रह्माश्रितत्वमादाय ब्रह्मणि त्वम् पदप्रयोग इति भावः ।
  5. यद्वा ब्रह्मणः सर्वकर्तृत्वात् ‘यजमानः प्रस्तरः’ इत्यादिन्यायात् तत्सिद्घ्या त्वमिति व्यपदेशः ।
तदधीनत्व-ताद्देश्य-तास्थ्य-ताध्दर्म्यपूर्वकैः ।
निमित्तैस्तत्वमस्यादि सामानाधिकरण्यगीः ॥

एतैर्हेतुभिः ‘तत् त्वमसि’ इति वाक्ये जीवब्रह्मणोः सामानाधिकरण्यव्यपदेशो युज्यते । न च हेत्वसिध्दिः ।

‘सर्वाः प्रजाः सदायतनाः--------’ (छां.६.८.४) इति तास्थ्यसिध्दिः ।
‘परमं साम्यमुपैति’ (आथर्व. ३.१.३) इति ताध्दर्म्यहेतुसिध्दिः ।
‘सह ब्रह्मणा विपश्चिता’ (तै. उ. २.१) इति सायुज्यहेतुसिध्दिः ।
‘एतेनैव सेतुना मोदते’ ‘एतेनात्मना सर्वान् कामाननुभवति’ इति साहचर्यहेतुसिध्दिः ।

एवञ्च जीवस्य तदाश्रितत्व-तत्सादृश्य- तत्सायुज्य-तत्साहचर्य-तत्प्रेर्थत्वादिभिः वैलक्षण्यमस्तीति व्युत्पादयितुं तत्त्वमसीत्युक्तम् । अत्रापि तत् पदस्य एकस्यैव लक्षणा ।

  1. यद्वा ‘सुपं सुलुक् पूर्वसवर्णाच्छेयाडाड्या या जालः’ (पा.सू. ७.१.३९.) इत्यादिसूत्रात् तृतीयाविभक्त्यादेर्लुक् प्रथमैकवचनादेशो वा । अथवा ‘अन्नं ब्रह्म’ (७.९.३) इतिवत् प्रथमा सप्तम्यर्थे । ततश्च ‘तेन त्वं तिष्ठसि’ ‘ततस्त्वं जातः’ ‘तस्य त्वमिति’ वा ‘तस्मिंत्वमसीति’ वाऽर्थः ।
  2. यद्वा तस्य त्वमित्यर्थे तत्वमिति समस्तं पदम् ।
  3. यद्वा ‘ऎतदात्म्यमिदं सर्वम् तत्सत्यं स आत्मा तत्त्वमसि’ इत्यत्र तदित्यनेन नात्मा परामृश्यते, किन्तु एष चासौ आत्मा च ऎतदात्मा तस्येदम् ऎतदात्म्यम् । एतदीयं वस्तु त्वमसीत्यर्थः ।
  4. अथवा जडेशयोः अत्यन्तवैलक्षण्यसद्भावेऽपि जीवेशयोः ज्ञानानन्दादिरुपेण विद्यमानं किञ्चित्सादृश्यं स्वीकृत्य विद्यमानमपि भेदमपरिगणय्य्, अविद्यमानमपि अभेदं स्वीकृत्य प्रयुज्यते तत्त्वमसीति । सतोऽप्यविवक्षा ‘अनुदरा कन्यका’ इत्यत्र असतोऽपि विवक्षा ‘समुद्रः कुण्डिका’ इत्यत्र दृष्ट एव । तदुक्तं महाभाष्ये –“ षष्ठी शेषे’ (पा.सू.२.३.५०. (इत्यत्र कर्मादीनामविवक्षा शेषः । कथं पुनः सतो नामाविवक्षा स्यात् ? सतोऽप्यविवक्षा भवति । तद्यथा ‘अलोमिका एडका’, अनुदरा कन्यका’ इति । असतोऽपि विवक्षा यथा ‘समुद्रः कुण्डिका’ इति” ।
  5. अथवा तत् प्रेरकं त्वं प्रेर्थः असि इति वाक्यार्थः । अत्र च ब्रह्मजज्ञासा इत्यत्र कर्तव्येति यथा पदमध्याह्रियते तद्वदिहापि प्रेरकप्रेर्यपदौ प्रकरणानुगुण्येन अध्याह्रियेते । सम्मतोऽयमर्थः महाभाष्यस्य । तदुक्तम्- ‘दृश्यन्ते हि वाक्येषु वाक्यैकदेशं प्रयुञ्जानाः प्रविश पिण्डीम् इति सत्यभामा सत्या’ इति ।

तत्त्वमसीति वाक्यस्याभेदपरत्वेऽनुपपत्तयः[सम्पादयतु]

एवञ्च तत्त्वमसीति वचनम् नाद्वैतपरमित्युपपाद्य भेदप्रतिपादकमिति निपुणतरं प्रपञ्चितम् । इदानीमभेदपरत्वे अनुपपत्तयः कथ्यन्ते –

  1. मुख्यार्थे सम्भवति लक्षणाश्रयणं जघन्यम्

अत्र च भेदावेदकानन्तप्रमाण्विरोधः स्फुटः । असिपदस्य गौणाभेदार्थत्व (सादृश्यार्थत्व)- मुपेत्य, तत् त्वं पदयोः मुख्यार्थमङ्गीकृत्यैव श्रुतिव्याख्यानसम्भवे, तत् पदस्य तज्जन्यः तदाश्रितः इत्याद्यर्थे लक्षणावृत्तिमुपेत्य वा व्याख्यानसम्भवे पदद्वयलक्षणा अप्रामाणिकी ।

  1. ब्रह्मणः केनापि प्रमाणेनाज्ञेयत्वात् न लक्षणा

लक्षणया बोध्यस्यार्थस्य पूर्वं ज्ञातत्वावश्यं भावात् ब्रह्मणश्चाद्वैतिभिः केनापि प्रमाणेन ज्ञेयत्वानभ्युपगमेन पूर्वमज्ञातत्वाल्लक्षणासम्भवः । किञ्च मुख्यार्थबाधे तत्सम्बन्धवति स्वरुपतः शक्यसम्बन्धितया च् विज्ञाते वस्तुनि शब्दस्य लक्षणया बोधकत्व्ं सम्भवति । प्रकृते तु ‘असङ्गो ह्ययं पुरुषः’ इति चितोऽद्वैतमतेऽसङ्गत्वेन तस्मिन् शक्यसम्बन्धस्यैवायोगेन चितः लक्षणया बोधः न सम्भवति ।

  1. चितश्चिदभेदबोधनेऽपि जीवब्रह्मणोरैक्यं न सिदध्यतीति ‘भक्षितेऽपि लशुने न शान्तो व्याधिः’ इति लक्षणाश्रयणेऽपि विवक्षितासिध्दिः ।
  2. ऎक्योपदेशोऽनर्थकः

तथा चित् चिन्नेति विपर्ययस्य, चित् चिन्नवेति संशयस्य च क्वाप्यभावेन चित् चिदेवेति च ज्ञातत्वेन च चित् चिदसि इति कथने कारणाभावः ।

  1. लोके विशेष्यगतधर्मस्य विशेषणगतधर्मस्य च भिन्नत्व एव अभेदावगाही शाब्दबोधो जायते । यथा सौन्दर्यवदभिन्नो घट इत्याद्यर्थके ‘सुन्दरो घटः’ इत्यादिवाक्ये । प्रकृते तत् पदबोध्य त्वं पदबोध्ययोश्चितोः विद्यमानस्य चित्त्वस्यैकत्वेन (विशेष्यभूतचिद्गतचित्त्वरुपधर्मस्य विशेषणगतस्य च धर्मस्यैकत्वेन )चित् चिदभिन्ना इति प्रतीतिरसम्भावितैव ।

अभेदवर्णनं प्रकरणाननुगुणम्[सम्पादयतु]

‘श्वेतकेतुर्ह आरुणेय आस तं पितोवाच । श्वेतकेतो वस् ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति । सः द्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः सर्वान् वेदानधीत्य अनूचानमानी स्तब्ध एयाय’ इति श्वेतकेतुस्तब्ध इति प्रकरणपर्यालोचनेन समेषां विज्ञायते । यदि स्तब्धं पण्डितं मन्यं पुत्रं त्वमेव ब्रह्मासीति पिता उपदिशति, तदा न निवर्तेताहङ्कारः अपि तु स्तब्धत्वं वृध्दिमियात् । उद्दालकोपदेशानन्तरं श्वेतकेतोरहङ्कारनिवृत्तिर्जातेति श्रुतिभिः तद्वयाख्यानभूतस्मृतिभिश्च स्फुटं प्रतीयते । तदुक्तमाचार्यपादैः –‘सर्वान् वेदान् अधीत्य महामना अनूचानमानी स्तब्ध एयाय’ इत्यात्मनोऽन्यम् अनूचानत्वादिगुणप्रदं परमविज्ञाय स्तब्धस्य पराधीनत्वज्ञापनेन स्तब्धतां निरस्य तन्निष्ठा ह्यत्रोपदिश्यत इति’ ।

प्रमाणाभासप्राप्तमैक्यं श्रुतौ प्रतिषिध्यते[सम्पादयतु]

ननु द्वैरमतरीत्या जीवब्रह्मणोर्भेदस्य प्रत्यक्षसिध्दत्वेन श्रुतेरपि तत्रैव तात्पर्यसभ्दावेन सर्वोऽपि वेदः भेदपर एव इत्युक्तम् । तथापि वेदे दृश्यमानः ऎक्यनिषेधः कथमुपपाद्यते । तत्र ऎक्यस्य प्रमाणान्तरप्राप्तत्वे ऎक्यनिषेधकवाक्यस्य तद्विरोधः सुस्थः । प्रमाणान्तराऽप्राप्तत्वे चैक्यस्य वेदैकसमधिगम्यत्वेन वेद एव क्वचिदैक्यमुपस्थाप्य अपरत्र खण्डयति चेत्, तस्य अप्रामाण्यमपरिहार्थमा पद्यते इति चेत्, अत्रोच्यते । अभेदोपदेशोऽयं न प्रमाणान्तरप्राप्तः । नापि वेदशास्त्रादौ क्वचित्प्रतीयते । किन्तु प्रमाणाभासप्राप्त एव । अनादिकालतो वृत्ताः समया हि प्रवाहतः’ इति न्यायेन प्राप्तः ऎक्यवादः श्रुतावनूद्य निरस्यते । यथा ‘सदेव सोम्य इदमग्र आसीत्’ इति स्वाभिप्रायमुध्दाट्य श्रुतिः, असत उत्पत्तिं प्रमाणदर्शनाभासप्राप्तां निरस्यति –‘कुतस्तु खलु सौम्य एवं स्यात् कथमसतः सज्जायेत’ इति । अत एव ब्रह्मज्ञानार्थंप्रवृत्तानां वेदान्तानां कर्ममात्रपरतया व्याख्यानमनूद्य, कर्मानुष्ठानस्यज्ञानद्वारामोक्षफलकत्वाभिधानार्थंकेवलकर्मपरत्वखण्डनंचप्रमाणाभासप्राप्तंसुष्ठूपपद्यते ।