सामग्री पर जाएँ

सदस्यः:Vishal Maheta/प्रयोगपृष्ठम्/9

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अडालज वाव (गुजराती: अडालज वाव, आङ्ग्ल: Adalaj Stepwell) इति प्रसिद्धं, सुन्दरं च स्थलम् अहमदाबाद-नगरात् १८ कि.मी दूरे वर्तते । गुजरातराज्यस्य सर्वेषु वाव इति नामकस्थले अडालज वाव इति स्थलं सर्वाधिकं सुन्दरं अस्ति ।

प्राचीनं नाम, तुलना च

[सम्पादयतु]

अडालज वाव दादहरी वाव इत्यस्मात् स्थलात् विशालं नास्ति । किन्तु अलङ्कारदृष्ट्या तस्मात् बहुसुन्दरम् अस्ति । शिल्पशास्त्रानुसारं अडालज वाव इत्यस्य जया नाम अस्ति । दादाहरी वाव इत्यस्य भद्रा इति नाम अस्ति । माताभवानि वाव इत्यस्य नाम नन्दा इति अस्ति ।

अडालज वाव

[सम्पादयतु]

अडालज वाव इत्यस्मिन् प्रवेशे सति २२.५ फीट् चतुष्कोणीयं मण्डपम् अस्ति । तस्योपरि अष्टकोणयुतं सामान्यं स्तूपः अस्ति । मण्डपस्य सुन्दराः स्तम्भाः सन्ति । वाव इत्यस्मिन् प्रवेशे सति ये स्तम्भाः सन्ति ते उत्तमकलायुताः सन्ति ।

अडालज वाव इत्यस्य मण्डपः

[सम्पादयतु]

मण्डपस्य चतुर्दिक्षु पेयं जलं स्थापयितुं लघु-प्रकोष्ठाः सन्ति । तेषां प्रकोष्ठानां वातायनैः मण्डपं शोभायमां दृश्यते । तेषां वातायनानाम् अधः हस्त्यादीनाम् आकृतीनां शिल्पकलाः दृश्यन्ते ।

गौरवं, गवाक्षाः च

[सम्पादयतु]

प्रायशः मुस्लिम् जनाः दीपकं न कुर्वन्ति किन्तु अडालज वाव इति स्थले मुस्लिम् चिरागः इति मुस्लिम जनानं दीपकः अस्ति इति गौरवस्य विषयः । तत्र एकस्मिन् गवाक्षे हिन्दूनां देवस्य मूर्तिरपि अस्ति । अपरे गवाक्षे गुजरातराज्यस्य प्रसिद्धानां नव सङ्घख्टायकानां घटानां त्रिभिः पक्तिभिः सोभार्थम् आकारः दत्तोऽस्ति ।

अडालज वाव इत्यस्य द्विभूमे नवग्रहाणां मूर्तयः

[सम्पादयतु]

तस्य द्विभूमे नवग्रहाणां मूर्तयः सन्ति । जलतः ऊर्ध्वे द्विभूमे एकस्यां दिशि गृहविषयस्य शिल्पकलाः दृश्यन्ते ।

अडालज वाव इत्यस्मिन् शिल्पकलाः, प्रकोष्ठाः च

[सम्पादयतु]

अडालज वाव इत्यस्मिन् बहव्यः शिल्पकलाः दृश्यन्ते । तथापि तत् पूर्णं निर्माणं नास्ति इति जनाः वदन्ति । तस्मिन् बहवः प्रकोष्ठाः आसन्, अतः एकाकी तु गन्तुम् अपि न शक्नुमः इत्यपि जनाः अमन्यन्त । किन्तु साम्प्रतं ते प्रकोष्ठाः पूरिताः ।

अडालज वाव इत्यस्य दैर्घ्यम्

[सम्पादयतु]

अडालज वाव इत्यस्य दैर्घ्यं २५१ फिट् अस्ति । अष्टकोणीयस्य-कूपस्य शिल्पकलाः अन्यत् वाव स्थलेभ्यः अधिकं सुन्दरम् अस्ति । अडालज वाव इत्यस्मिन् अष्टकोणीयस्य कूपस्य समीपे गोलाकारेण सोपानम् अस्ति । तस्य शिल्पकलाः हिन्दूनां संस्कृत्यनुरुपाः सन्ति ।

अडालज वाव इत्यस्मिन् संस्कृतभाषायाः लेखाः, निर्माणकालश्च

[सम्पादयतु]

अडालज वाव इत्यस्मिन् संस्कृतभाषायाः लेखाः अपि सन्ति । लेखे १५५५ तमस्य वर्षस्य माघमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ यदा सूर्यः उत्तरायणे आसीत्, तदा अडालज वाव इत्यस्य रचना जाता । तदानीं ई.स. १४९९ प्रचलति स्म । इदं सर्वं फोर्बस् सभायाः सङ्ग्रहे लिखितम् अस्ति । अडालज वाव इत्यस्य निर्माणं वीरसिंहस्य पत्नी रुडादेवी अकरोत् । अत एव अडालज वाव इत्यस्मिन् रुडादेवी इत्यस्याः प्रशंसायाः विषये श्लोकाः प्राप्यन्ते । अस्य निर्माणार्थं ५००१११ टङ्का इति व्ययः अभवत् । डो.फोर्बस् मते ५००१११ इत्यस्य मूल्यं १६६७८० रुप्यकाणि भवन्ति । इत्थम् अडालज वाव इत्यस्य इतिहासः प्राप्यते ।