मध्यमावती (रागः)
मध्यमावती (रागः) | |
---|---|
आरोहणम् | स रि२म१प नि२ स |
अवरोहणम् | स नि२प म१ रि२ स |
न्यासस्वराः | रि, म |
समयः | सायंकालः |
जनकरागः | खरहरप्रिय (रागः) |
प्रसिद्धकीर्तनानि | पालिंसु कामाक्षि, भाग्याद लक्षमी भारम्मा, रामाभिराम |
मध्यमावती रागः कर्णाटकशास्त्रीयसङ्गीतस्य कश्चन रागः । वेङ्कटमखेः मेलकर्तृरागव्यवस्थायाः अनुगुणम् अयं रागः खरहरप्रियारागस्य जन्यरागः अस्ति। मेलकर्तृरागव्यवस्थायाम् ।
लक्षणानि
[सम्पादयतु]मध्यमावती औडुवरागः (इत्युक्ते पञ्चस्वराः एव भवन्ति आरोहण-अवरोहणयोः), यतः गान्धारस्य धैवतस्य च अभवः। एषः रागः दिनस्य पश्चिमे भागे गातव्यः। वेदचक्रे द्वितीयः रागः अस्ति एषः। अस्मिन् रागे शुद्धऋषभम्, शुद्धमध्यमम् , कैशिकिनिशादं च स्वराः भवन्ति। कश्चन सङ्गीतपण्डिताः मध्यमावतीरागस्य जनक रागः अस्ति हरिकाम्भोजी, नठभैरवी अथवा चारुकेशी। एषः रागः मङ्लकरः रागः। सङगीतकार्यक्रमेषु अन्तिमं गीतम् अस्मिन् रागे भविष्यति।
अस्मिन् रागे हिन्दोलरागं, मोहनरागं, शुद्धसावेरीरागं च प्रति ग्रहभेदः कर्तुम् अवकाशः अस्ति । साधारणतया श्रुतिः षड्जे भवति। किन्तु ग्रहभेदे श्रुतिः अन्ये स्वरे भवति। यदा वयम् एवं कुर्मः, तदा भिन्नाः रागाः आगच्छन्ति ।
प्रसिद्धानि कीर्तनानि
[सम्पादयतु]अधः मायामालवगौलरागे प्रसिद्धानाम् कीर्तनानाम् आवलिः दत्ता अस्ति -
- "पालिंसु कामाक्षि" - श्यामाशास्त्री, तेलुगुभाषा
- "रामाभिराम"- मैसूरु वासुदेवाचार, संस्कृतभाषा
- "रामाकथा सुधा" - त्यागराजः, तमिल् भाषा