सामग्री पर जाएँ

रागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(रागाः इत्यस्मात् पुनर्निर्दिष्टम्)
योऽसौ ध्वनिविशेषस्तु स्वरवर्णविभूषितः ।
रञ्जको जनचित्तानां स च राग उदाहृतः ।।

रागः (Raga) नाम षड्जादीनां स्वराणां समूहः । सङ्गीतं स्वाराणाम् एका भाषा। प्रत्येकः स्वरः अन्तःकरणस्य भावतरङ्गान् प्रसारयति । स्वरसहिताः रागाः अनिर्वचनीयम् आनन्दं ददन्ति। रागरसयोः प्रत्यक्षसंबन्धं कल्पयितुं नशक्यते। तथापि भावनानां जागरणेन रसनिर्माणकार्ये कारणीभूताः रागाः। रसाभिव्यक्तेः कारणानि गायनशैली, योग्यः कण्ठस्वरः, उच्चारणम्, लयः, गीतशब्दानि तथा भावाः भवन्ति । विविधरागाणां श्रवणेन भिन्न भिन्न भावतरङ्गाः मनसि स्वविचारान् भावान् अभिव्यञ्जयन्ति । गम्भीरस्वरयुक्तैः शङ्करा, कामोद, केदाररागः,अढाण, हमीर तथा नटादि स्वरैः शान्तरसस्य उत करुणरसस्य निष्पत्तिः नभवति । एवमेव ॠजुस्वरैः श्रीरागः, भैरवी, जोगिया, आसावरिरागः, तोडिरागः, पीलु इत्यादिभिः रौद्ररसस्य उत वीररसस्य निष्पत्तिः नभवति । रागालापनेन तत्तत्त रागसम्बन्धित देवताः सन्तुष्टाः भवन्ति। उदाहरणार्थम्, शङ्करा, भैरवरागः, केदाररागःरागान् गायते चेत् शिवः तुष्टः भवति । "दीपकरागं" यदा "तानसेनः" गीतवान् तदा दीपः प्रज्वलितः आसीत् । बिलासखानि तोडिरागं यदा गीतवान् तदा मृतशरीरे नेत्रोऽन्मीलनक्रिया जाता इति ।

विभागः

[सम्पादयतु]

प्रधान-अप्रधान, जन्य-जनक, प्राचीन-अर्वाचीन, घन-नय, मार्गि-देशि, मेळकर्त-मेळांतर्गत, राग-रागिणि, पुंराग-स्त्रीराग-नपुंसकराग इति रागान् विभागं कुर्वन्ति।

रागोत्पत्तिः

[सम्पादयतु]

सामवेदात् स्वराः जाताः स्वरेभ्यो ग्रामसम्भवः।
ग्रामेभ्यो जातयो जाताः जातिभ्यो रागसम्भवः॥
सप्तस्वराः त्रयो ग्रामाः मूर्छनाश्चैकविंशतिः।
द्वाविंशतिश्च श्रुतयः एतेभ्यो रागसम्भवः॥

लक्षणानि

[सम्पादयतु]

रञ्जयति मनांसीति रागास्ते दशलक्षणाः
मतङ्गमुनिः रागस्य दशलक्षणानि उक्तानि सन्ति।
ग्रहांशाः तारमन्द्रौच न्यासोपन्यास एव च।
अल्पत्वं च बहुत्वंच षाडवौडविते तथा॥ इति।

  • ग्रह- रागारम्भस्य नियमित स्थलम्।
  • अंश- रागस्य प्रधानम् उत जीवस्वरः। रागस्य स्पष्टतया निजस्वरूपनिरूपणे मुख्यः स्वरः
  • तार- सप्तके स्वरसञ्चारः।
  • मन्द्र- अधो सप्तके स्वरसञ्चारः।
  • न्यास- रागस्य अन्त्यस्वरः।
  • उपन्यास- रागस्य मध्ये मध्ये स्थगनस्थानम्।
  • अल्पत्व- रागे विरलतया उपयुज्यमानाः स्वराः।
  • बहुत्व- रागे पुनः पुनः उच्यार्यमाणाः स्वराः।
  • षाडव- ६ स्वराणां प्रयोगः।
  • ओडव- ५ स्वराणां प्रयोगः।

प्रसिद्धाः रागाः भवन्ति।

भैरवरागःभैरवीरागःमालकंसरागः(बसन्त)वसन्तरागःआसावरिरागःभूपालिरागः
सारङ्गरागःहिण्डोलरागःगुजरितोडिरागःरामकलिरागःवागेश्वरीरागःखम्बावतीरागः
परजरागःभीम्पलासरागःश्रीरागःसोहनीरागःपूर्विरागः(बृन्दावनीसारङ्ग)बडहंसरागः
(मिया की तोडि) शुद्धतोडिरागःखटरागः(सोरट्)सोरठिरागःत्रिवेणीरागःमालवीरागःबङ्गालीभैरवरागः
(कुकुभ्)ककुभरागःपञ्चमरागःगौरीरागः(मल्हार)मेघरागःकेदाररागःगुणकलिरागः
बिभासरागः

मतभेदाः

[सम्पादयतु]
  • नारदमतम्

अस्य मतानुसारेण ८ मुख्याः रागाः सन्ति।

  1. भूपरागः- मेलावति, मल्हार, बहुलि
  2. भैरवरागः- देवक्रिय, पौरालि, काम्भारि
  3. श्रीरागः- काम्बोजि, भल्लाति, कुरञ्जिका
  4. पटमञ्जरि- देशि, मनोहरि, तुण्डीरागः
  5. वसन्तरागः- पराटि, द्राविडि, हंसि
  6. मालविगुण्डक्रिया, धूर्जरि, गौडि
  7. नाट- सारङ्गरागः, नटाख्य, अहिरि
  8. बङ्गाल- नारायणी, गान्धारि, रञ्जी
  • हनूमान् मतम्

अस्य मतानुसारेण ६ मुख्याः रागाः भवन्ति।

  1. भैरवरागः- मध्यमादी, भैरवीरागः, बङ्गाली, वराटी, सैन्धवी
  2. कौशिक- तोडीरागः, खम्बावतीरागः, गौडी, गुणक्री,ककुभरागः
  3. हिण्डोलरागः- भेलावली, रामकलिरागः, देशाख्य, पटमञ्जरी, ललितरागः
  4. श्रीरागः- वसन्तरागः, मालवीरागः, मालश्री, दनाश्री, आसावरिरागः
  5. मेघरागः- मल्हारि, देशकार, भूपालिरागः, गुर्जरि,टक्क
  • सोमेश्वरमतम्

स्वरचिते “सङ्गीतदर्पण” ग्रन्थे ६ मुख्याः रागाः इति लिखति।

  1. श्रीरागःमालवीरागः, त्रिवेणीरागः, गौडी, केदाररागः, मधुमाधवी, पहाडी
  2. वसन्तरागः- देशी, देवगिरी, वैराटी, तोडी, ललितरागः, हिण्डोलरागः
  3. भैरवरागः- भैरवीरागः, मध्यमादी, वराची, सैन्धवी, बङ्गाली, देवक्रिया
  4. पञ्चमरागः- बिभासरागः, भूपालिरागः, कर्नाटी, पटहंसिका, मालाश्री, पटमञ्जरी
  5. मेघरागः-मल्हारी, सोरठिरागः, सावेरी, कौशिकी, गान्घारी, हरशृङ्गार
  6. नट- कामोदी, कल्याणी,आभिरी, नाटिका, सालङ्गी, नट्टवीर

श्रव्यम्

[सम्पादयतु]

दर्बारिकानडा

मुल्तानी

दुर्गा

यमन्(सितार्)

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=रागः&oldid=496733" इत्यस्माद् प्रतिप्राप्तम्