पूर्विरागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



पूर्विरागः

आरोहणम् स रे ग म प ध नि स
अवरोहणम् स नि ध प म ग म ग रे स
थाट्पूर्वि
समयःप्रातः ४ तः ६ वादनपर्यन्तम्
पक्कड(छायास्वराः)म प ध प, म प म ग रे ग- म ग रे स

पूर्विरागः (Purvi/Poorvi Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । पूर्वि थाटस्य जनकरागः भवति । पूर्वाङ्गप्रधानः रागः भवति । अस्य रागस्य वादिस्वरः गान्धारः (ग) भवति । संवादिस्वरः निषादः (नि) भवति । सम्पूर्णजात्यासहितः भवति । मध्यमौ स्वरौ भवतः तथापि शुद्धमध्यमस्य प्रयोगं योग्यप्रमाणे स्थापयितव्यं भवति । अन्यथा रागसौन्दर्यस्य नाशः स्यात् । शाश्त्रीयसङ्गीतस्य सन्दर्भे करुणरसस्य तथा विप्रलम्भशृङ्गारस्य अभिव्यक्तिः भवति । अस्य रागस्य प्रशस्तकालः सायङ्कालः भवति । सन्धिप्रकाशकः रागः भवति ।

श्लोकः[सम्पादयतु]

निद्रालसा गात्रपटेन युक्ता
कान्तं स्मरन्ती विरहप्रपूर्णा।
सौन्दर्यलावण्यकलामयाक्षी
सा पूरवी शेषदिने तुरिये॥

  • आरोहः - स रे ग म प ध नि स
  • अवरोहः – स नि ध प म ग म ग रे स
  • पक्कड – म प ध प, म प म ग रे ग- म ग रे स

समयः[सम्पादयतु]

प्रातः ४ तः ६ वादनपर्यन्तं प्रशस्तकालः भवति।

थाट्[सम्पादयतु]

  • पूर्वि

सम्बद्धरागाः[सम्पादयतु]

  • पुरियारागः
  • धनश्रीरागः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पूर्विरागः&oldid=369982" इत्यस्माद् प्रतिप्राप्तम्