भैरवरागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भैरवरागः

आरोहणम् स रे ग म प ध नि स
अवरोहणम् स नि ध प म ग रे स
वादि’ध’
संवादि’रे’
थाट्भैरव
समयःप्रातः ६ तः ८
जातिःसम्पूर्णम्
पक्कड(छायास्वराः)म प ध, म प ग म, ग म प, ग म रे स

भैरवरागः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य आदिमः रागः भवति । अयं भैरवथाटस्य जनकरागः भवति । उत्तराङ्गप्रधानः रागः तथा सम्पूर्णजात्यासहितः रागः भवति । एनं रागं गम्भीरतया यदि गानं क्रियते तर्हि वीररसः उत्पद्यते । ध्रुपद् शैल्यां एनं रागं अधिकतया उपयोगं कुर्वन्ति । कर्णाटकसङ्गीते अस्यैव रागस्य "मायामाळवगौळ" इति नामान्तरम्। सङ्गीताध्ययनस्य आरम्भः अनेनैव रागेण भवति । अस्य रागस्य वादिस्वरः धैवतः (ध) भवति । एवं संवादिस्वरः वृषभः (रे) भवति । मध्यमात् वृषभाय मीण्ड(शास्त्रीयभाषा) क्रियते चेत् मनोरञ्जकः रसोत्पत्तिः भवति । हनूमान् मतानुसारेण प्रथमप्रहरस्य रागः भवति।

श्लोकः[सम्पादयतु]

गङ्गाधरः शशिकलातिलकः त्रिनेत्रः सर्पैर्विभूषिततनुः गजकृत्तिवासः।
भास्वत्रिशूलकर एष नृमुण्डधारी शुभ्राम्बरो जयति भैरव आदिरागः॥

  • आरोहः- स रे ग म प ध नि स
  • अवरोहः- स नि ध प म ग रे स
  • पक्कड(छायास्वराः)- म प ध, म प ग म, ग म प, ग म रे स

समयः[सम्पादयतु]

प्रातः ६ तः ८ वादनपर्यन्तं प्रशस्तः कालः भवति।

थाट्[सम्पादयतु]

  • भैरव

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भैरवरागः&oldid=447545" इत्यस्माद् प्रतिप्राप्तम्