ललितरागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ललितरागः (Lalit Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । "मारवा" थाट् गणस्य रागः भवति । एनं रागं रात्रौ अन्तिमे प्रहरे गायन्ति । अतीवमाधुर्ययुक्तः रागः भवति । अस्मिन् रागे मध्यमयोः विशिष्टः प्रयोगः अस्ति । षाडव जात्यासहितः भवति । अस्मिन् रागे अनिवार्यतया अवरोहे विभागद्वयं कृतमस्ति । वादिस्वरः शुद्धमध्यमः (म) भवति । संवादिस्वरः षड्जः (स) भवति। उत्तराङ्गप्रधानः रागः भवति। रागस्य श्रवणेनैव शृङ्गारस्य तथा करुणरसस्यच अभिव्यक्तिः भवति । वेणुवाद्ये अयं रागः रम्यः भवति । अस्य रागस्य सन्धिप्रकाशकः रागः इत्यपि प्रसिद्धिरस्ति ।

श्लोकः[सम्पादयतु]

प्रफुल्लसप्तच्छदमाल्यधारी
युवा च गौरोल्लसलोचनश्री।
विनिश्वसन् दैववशात् प्रभाते
विलासिवेशो ललितः प्रदिष्टः॥
  • आरोहः – नि रे ग म म ग, म ध स
  • अवरोहः – रे नि ध म ध म म ग रे स
  • पक्कड – रे नि ध म ध म म-म ग रे स

समयः[सम्पादयतु]

प्रातः ४ तः ६ वादनपर्यन्तं प्रशस्तः कालः भवति ।

थाट्[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ललितरागः&oldid=345230" इत्यस्माद् प्रतिप्राप्तम्