खम्बावतीरागः
दिखावट
खम्बावतीरागः | |
---|---|
आरोहणम् | स रे ग म प नि ध स |
अवरोहणम् | स नि ध प म ग म स |
थाट् | खमाज |
समयः | रात्रौ द्वितीयः प्रहरः |
पक्कड(छायास्वराः) | ग म ध – ग म स, ध नि स ग म |
खंबावतीरागः (Khambavati raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । "खमाज" थाट् गणस्य प्रसिद्धः प्राचीनश्च रागः भवति । रात्रौ द्वितीयप्रहरस्य रागः भवति । सम्पूर्णषाडव जात्यासहितः रागः भवति। अवरोहे वृषभस्वरस्य पूर्णतया त्यागः भवति । “ग म स” हृदयभूतस्वराः भवन्ति । अस्य रागस्य वादिस्वरः षड्जः भवति । एवं संवादिस्वरः मध्यमः भवति । केचन वादिस्वरः गान्धारः, संवादिस्वरः षड्जः इति अभिप्रयन्ति । करुणरसः उत विप्रलंभश्रृङ्गाररसप्रधानश्च रागः भवति।
श्लोकः
[सम्पादयतु]- खम्बावती स्यात् सुखदा रसज्ञा
- सौन्दर्य लावण्यविभूषिताङ्गी।
- गानप्रिया कोकिलनादतुल्या
- प्रियंवदा कौशिकरागिणीयम्॥
- आरोहः – स रे ग म प नि ध स
- अवरोहः – स नि ध प म ग म स
- पक्कड – ग म ध – ग म स, ध नि स ग म
समयः
[सम्पादयतु]रात्रौ द्वितीयः प्रहरः भवति।
थाट्
[सम्पादयतु]- खमाज