खम्बावतीरागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



खम्बावतीरागः

आरोहणम् स रे ग म प नि ध स
अवरोहणम् स नि ध प म ग म स
थाट्खमाज
समयःरात्रौ द्वितीयः प्रहरः
पक्कड(छायास्वराः)ग म ध – ग म स, ध नि स ग म

खंबावतीरागः (Khambavati raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । "खमाज" थाट् गणस्य प्रसिद्धः प्राचीनश्च रागः भवति । रात्रौ द्वितीयप्रहरस्य रागः भवति । सम्पूर्णषाडव जात्यासहितः रागः भवति। अवरोहे वृषभस्वरस्य पूर्णतया त्यागः भवति । “ग म स” हृदयभूतस्वराः भवन्ति । अस्य रागस्य वादिस्वरः षड्जः भवति । एवं संवादिस्वरः मध्यमः भवति । केचन वादिस्वरः गान्धारः, संवादिस्वरः षड्जः इति अभिप्रयन्ति । करुणरसः उत विप्रलंभश्रृङ्गाररसप्रधानश्च रागः भवति।

श्लोकः[सम्पादयतु]

खम्बावती स्यात् सुखदा रसज्ञा
सौन्दर्य लावण्यविभूषिताङ्गी।
गानप्रिया कोकिलनादतुल्या
प्रियंवदा कौशिकरागिणीयम्॥
  • आरोहः – स रे ग म प नि ध स
  • अवरोहः – स नि ध प म ग म स
  • पक्कड – ग म ध – ग म स, ध नि स ग म

समयः[सम्पादयतु]

रात्रौ द्वितीयः प्रहरः भवति।

थाट्[सम्पादयतु]

  • खमाज

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=खम्बावतीरागः&oldid=369847" इत्यस्माद् प्रतिप्राप्तम्