मालकंसरागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मालकंसरागः

मालकंसरागः (Malkauns Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य प्रसिद्धः रागः भवति । गायनारम्भात् क्षणादेव आनन्दं जनयति मालकंसरागःकर्णाटकसङ्गीते “हिन्डोळरागः” इति व्यवहारः अस्ति । अयं रागः शिवस्य वामदेवनाममुखात् आगतः इति विश्वासः । अनेन रागेण वीरः,रौद्रः रसौ उत्पन्नौ भवतः इति केचन । अन्येकेचन करुणशृङ्गारौ रसौ उत्पन्नौ भवतः इति । हिन्दुस्थानीसङ्गीते भैरवी तथा आसावरी थाटेषु अयं रागः परिगणितः अस्ति । वादि मध्यम तथा संवादि षड्जस्वरे भवतः । ओढव जात्यासहितः भवति । यक्षगाने, कीर्तने, लघुसङ्गीतादिषु अस्य रागस्य उपयोगः भवति । अयं प्रसिद्धः रागः भवति ।

आरक्तवर्णो धृतरक्तयष्टिः
वीरः सुवीरः सुकृतः प्रवीर्य ।
वीरावृतो वैरिकपालमालः
मालो मतो मालवकौशिकोऽयम् ॥
  • आरोहः- स ग म ध नि स
  • अवरोहः – स नि ध म ग स
  • पक्कड- ग म ध, ग म ग स, ध नि स ग

समयः[सम्पादयतु]

मध्यरात्रिः १२ तः २ पर्यन्तम् प्रशस्तः समयः भवति ।

थाट्[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मालकंसरागः&oldid=371127" इत्यस्माद् प्रतिप्राप्तम्