सामग्री पर जाएँ

मायामाळगौळ (रागः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मायामालवगौलः इत्यस्मात् पुनर्निर्दिष्टम्)
मायामाळगौळ (रागः)

आरोहणम् स रि प ध नि
अवरोहणम् स नि प म रि
रागसङ्ख्या१५ मेलकर्तृरागः
जीवस्वराः
न्यासस्वराःग नि
रसःकरुणा, भक्तिः
समयःसार्वकालिकरागः
जन्यरागःबौलि(रागः),मलहरि (रागः), सावेरि, रेवागुप्ति(रागः), नादनामक्रिया(रागः), ललिता(रागः), जगन्मोहिनि(रागः)

मायामाळवगौळरागः कर्णाटकशास्त्रीयसङ्गीतस्य कश्चन रागःवेङ्कटमखेः मेलकर्तृरागव्यवस्थायाः अनुगुणम् अयं रागः १५ तमः मेलकर्तृरागः अस्ति। पूर्वं एतस्य रागस्य नाम "मालवगौल" इत्येव आसीत् । यदा मेलकर्तृरागव्यवस्था आगच्छत्, तदा "माया" इति उपसर्गः "मालवगौल" नाम्ना योजितः जातः। एषः मङ्गलकरः रागः सर्वदा गातुं शक्यते। 'सरलेवरिसे', 'जण्टिवरिसे', 'दाटुवरिसे', 'अलङ्काराः' च एतस्मिन् रागे भवन्ति । मायामालवगौलरागस्य २५ जन्यरागाः सन्ति ।

लक्षणानि

[सम्पादयतु]
मायामालवगौलरागस्य आरोहणम्। षड्जं 'C' इति स्वरस्य स्थाने अस्ति।

वेङ्कटमखिः मायामालवगौलरागस्य लक्षणम् एवं वदति -

पूर्णो माळवगौळाख्यः स ग्रहो गीयते सदा

मेलकर्तृरागव्यवस्थायां मालवगौलरागः अग्निचक्रे तृतीयः रागः। अस्मिन् रागे शुद्धऋषभम्, अन्तरगान्धारम्, शुद्धमध्यमम् , शुद्धधैवतम् , काकलिनिशादं च स्वराः भवन्ति। यतः अयं रागः मेलकर्तृरागः अस्ति, अतः वयं एतं रागं "सम्पूर्णरागं" इति वदामः । सम्पूर्णरागः इत्युक्ते सप्तसवराः अपि भवन्ति। मध्यमं विहाय मायामालवगौलरागः कामावर्धिनीरागस्य (५१ मेलकर्तृरागः) समानः एव ।

स्वभावः

[सम्पादयतु]

एषः पुरातनः रागः करुणया भक्त्या च संयुक्तः। मायामालवगौलरागः सर्वदा गातुं शक्यते, किन्तु प्रभाते गायति चेत् मङ्गलकरः भवति। सङ्गीतगुरवः छात्राणां कृते आरम्भे एतं रागं 'सरले वरिसे'रूपेण पाठयन्ति । अस्मिन् रागे विवादिस्वराः न सन्ति। अतः एतत् पठितुम् सरलं भवति। मायामालवगौलरागः हिन्दुस्तानीशास्त्रीयसङ्गीतपद्धतौ भैरवरागः इति कथ्यते ।

अस्मिन् रागे मध्यमेसिंहेन्द्रमध्यमरागं रिषभे रसिकप्रियां च प्रति ग्रहभेदः कर्तुम् अवकाशः अस्ति । साधारणतया श्रुतिः षड्जे भवति। किन्तु ग्रहभेदे श्रुतिः अन्ये स्वरे भवति। यदा वयम् एवं कुर्मः, तदा भिन्नाः रागाः आगच्छन्ति ।

जन्यरागाः

[सम्पादयतु]

मायामालवगौलरागस्य अनेका: जन्यरागाः सन्ति। तेषु जन्यरागेषु बौलि (रागः), मलहरि (रागः), सावेरि (रागः), रेवगुप्ति(रागः), नाधनामक्रिया (रागः), ललिता(रागः), जगन्मोहिनि(रागः) च सुप्रसिद्धाः सन्ति ।

प्रसिद्धानि कीर्तनानि

[सम्पादयतु]

सरले वरिसे, जण्टि वरिसे, दाटुवरिसे, अलङ्काराः च मायामालवगौलरागे सन्ति । प्रथमं गीतम् अपि मलहरिरागे रचितम् (मलहरिरागः मायामालवगौलरागस्य जन्यरागः) । मुत्तुस्वामी दीक्षितस्य प्रथमा रचना "श्रीनाथादि गुरुगुहो जयति" इत्येषा मायामालवगौलरागेण रचिता।

अधः मायामालवगौलरागे प्रसिद्धानाम् कीर्तनानाम् आवलिः दत्ता अस्ति -

  1. "तुलासिदलमुलचे सन्तोशमुख" - त्यागराजः, तेलुगुभाषा
  2. "मेरुसमान वीर" - त्यागराजः, तेलुगुभाषा
  3. "देव देव कलयामिते" - स्वाति तिरुनालः, संस्कृतभाषा
  4. "मायातीत स्वरूपिणि" - पोन्नैया पिल्लै, संस्कृतभाषा
  5. "श्रिनातादि गुरुगुहो जयति" - मुत्तुस्वामी दीक्षितः , संस्कृतभाषा


"https://sa.wikipedia.org/w/index.php?title=मायामाळगौळ_(रागः)&oldid=438850" इत्यस्माद् प्रतिप्राप्तम्