भरतस्वामी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भरतस्वामी सामसंहितोपरि भाष्यमलिखत् । इदम् अप्रकाशितमेवाऽस्ति ।

परिवारः, कालश्च[सम्पादयतु]

भरतस्वामिना स्वकीयभाष्ये यः स्ववंशपरिचयः प्रदत्तः तदनुसारेणायं काश्यपगोत्रे जन्म गृहीतवान् । अस्य पिता नारायणः, माता च यज्ञदादेवी आसीत् । अनेन सामवेदस्य सर्वेषामृचामुपरि व्याख्या लिखिता ।[१] भरतस्वामिना ग्रन्थारम्भे स्ववंशपरिचयः प्रदत्तः --

‘नत्वा नारायणं तातं तत्प्रसादादवाप्तधीः ।

साम्ना श्रीभरतस्वामी काश्यपो व्याकरोदृचम् ॥

होसलाधीश्वरे पृथ्वीं रामनाथे प्रशासति ।

व्याख्या कृतेयं क्षेमेण श्रीरङ्गे वसता मया ॥' इति॥

उपरिलिखितपद्येन ज्ञातो भवति यदयं भरतस्वामी काश्यपगोत्रीयनारायणस्य पुत्रः आसीत् । होसलाधीश्वरस्य रामनाथनाम्नो नृपस्य छत्रच्छायायां निवसन् पुरा प्रथिते श्रीरङ्गाख्य-वैष्णवतीर्थे भाष्यम् इदमयं निरमात् ।

अस्य समकालिकनृपस्य नामोल्लेखेन भाष्यप्रणेतुर्भरतस्वामिनः समयोऽपि सरलतयाऽवधारयितुं शक्यते ।

रामनाथस्य विवरणस्याधारोपरि रामनाथनृपस्य शासनावसानकालः १२९५ ई० वर्त्तते । सम्भवतोऽस्यैव पाश्र्ववत्तीं भरतस्वामिनोऽपि भाष्यस्य रचनाकाल आसीत् । अतो रामनाथस्य शासनकालः १२७० ईशवीतः १२९५ ई० पर्यन्तम् । अतः भरतस्वामिनः समयः त्रयोदशशतकमिति निश्चित्य वक्तुं शक्यते ।

भाष्यम्[सम्पादयतु]

भरतस्वामिनः सायणस्य च भाष्ययोः प्रायः षष्टिः किं वा सप्ततिवर्षस्यैवान्तरमस्ति । भरतस्वामिनो भाष्यम् अतीव संक्षिप्तोऽस्ति । पूर्ववर्तिनो भाष्यकारात् माधवाद्भाष्येऽस्मिन् पर्याप्तसाहाय्यं गृहीतं भाष्यकारेणेति प्रतीतो भवति । सामब्राह्मणानामुपरि अप्यस्य भाष्यमस्ति । अतः सम्पूर्णसामसंहितायामुपरि अस्य भाष्यं भवितव्यम् । 

 सम्बद्धाः लेखाः[सम्पादयतु]

  1. ‘इत्थं श्रीभरतस्वामी काश्यपो यज्ञदासुतः ॥ नारायणार्यतनयो व्याख्यात् साम्नामृचोऽखिलाः ॥' 
"https://sa.wikipedia.org/w/index.php?title=भरतस्वामी&oldid=441050" इत्यस्माद् प्रतिप्राप्तम्