अखण्डार्थवादः
श्रीमनन्यायसुधायां जन्माधिकरणे उभयलिङ्गाधिकरणे ब्रह्मणः निर्विशेषत्वं निराकृत्य अनन्त गुणपूर्णत्वं विष्णोः समर्थितम् । प्रकृते श्रीसुधां तत्वोद्योतटीकां च उपजीव्य ब्रह्मणः अखण्डार्थत्वं निराक्रियते । तत्र प्रथमतया अद्वैतविचारक्रमः प्रस्तूयते ।
वेदान्ते किल ब्रह्मस्वरुपनिरुपणावसरे द्वेधा वाक्यानि दृश्यन्ते । तत्र ‘अशब्दमस्पर्शमरुपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्’ ‘केवलो निर्गुणश्च ’ (श्वे.६.११) ‘निष्कलं निष्क्रियं शान्तम्’ (श्वे.६.१९) ‘अस्थूलमनणु (बृ.३.१.१) ‘नेति
अखण्डार्थवादः |
---|
नेति’ (बृ.२.३.६) इत्यादौ अरुपमगुणं निष्क्रियं ज्ञानादिरुपं चैतन्यमात्रं ब्रह्मेति प्रतिपादितं दृश्यते ।
एवं ‘यः सर्वज्ञः’ (आथर्व. १-९) ‘कविर्मनीषी परिभूः’ (ईश. १-८) ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै.उ. २) ‘सत्यकामः सत्यसङ्कल्पः स विजिज्ञासितव्यः’ इत्यादौ जगज्जन्मादिकारणमनन्तकल्याणगुणपरिपूर्णं च ब्रह्मावगम्यते ।
द्वैतनये निर्गुणश्रुतिव्याख्याक्रमः
[सम्पादयतु]अध्येतृणां कुत्र श्रुतेर्नैर्भर्यमस्तीति शङ्का नाऽस्वाभाविकी । अत्र द्वैतवेदान्तिनामाशयः-द्वैरुप्यं ब्रह्मणोऽप्रामाणिकमेव । सर्वाण्यपि वेदवाक्यान्यप्राकृतासङ्ख्येयकल्याणागुणाकरं सकल दोषगन्धविधुरमेकरुपमेव नारायणाख्यं ब्रह्म प्रतिपादयन्ति । निर्गुणपराणि तु वचनानि प्राकृतगुणराहित्यपराण्येव न पुनर्निर्विशेषचैतन्यपराणि इति ।
अद्वैतनये सगुणनिर्गुणश्रुतिव्याख्याक्रमः
[सम्पादयतु]अत्राहुरद्वैतवादिनः –द्विरुपं हि ब्रह्मावगम्यते, नामरुपविकारभेदोपाधिविशिष्टं तद्विपरीतं च सर्वोपाधिविवर्जितम् ’ । तत्र निरुपाधिके ब्रह्मण्येव श्रुतीनामैदम्पर्यम् । सगुणब्रह्मपराणि वचनानि तु न तत्त्वावेदकान्यथ च निर्गुणोपासनाऽशक्तानां मन्दाधिकारिणां मनोनिग्रहसाधन तयैवावेदितानि । उक्तं च कल्पतरौ –
- निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः ।
- ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरुपणैः ॥
- वशीकृते मनस्येषां सगुणब्रह्मशीलनात् ।
- तदेवाविर्भवेत्तेषामपेतोपाधिकल्पनम् । इति ।
एवं च श्रुतयः निर्विशेषमेव ब्रह्म बोधयन्तीति अखण्डार्थ एव नैर्भर्यं श्रुतीनाम् ।
अखण्डार्थत्वोपपादनक्रमः
[सम्पादयतु]द्विविधा वेदान्तवाक्यप्रवृत्तिः । एका पदार्थपरा । अपरा तस्यात्मतादात्म्यरुपवाक्यार्थपरा । तत्र ‘सत्यं ज्ञानम्’ इत्यादि तु ‘तत्’ पदार्थपरम् ।‘योऽयं विज्ञानमय’ इति तु ‘त्वं’ पदार्थपरम् । अपरमैक्यरुपवाक्यार्थनिष्ठं यथा तत्त्वमसीत्यादि । द्वयमप्यखण्डार्थनिष्ठम् ।
तत्र पदार्थनिष्ठस्य वाक्यस्याखण्डार्थत्वे ‘सत्यादिवाक्यं अखण्डार्थनिष्ठं लक्षणवाक्यत्वात् प्रकृष्टप्रकाशश्चन्द्र इति वाक्यवत् ’ इति , तथा ‘सत्यादिवाक्यं ब्रह्मप्रातिपदिकार्थमात्रनिष्ठं तन्मात्रप्रश्नोत्तरत्वात् वा’ इत्यनुमानं मानम् ।
अयमाशयः- ‘ब्रह्मविदाप्नोति परम्’ इति ब्रह्मज्ञानिनो तत्प्राप्तिरभिहिता । तत्र कीदृशलक्षणकं तद् ब्रह्मेति ब्रह्मस्वरुपमात्रजिज्ञासायां प्रवृत्तं ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति वचनम् । स्वरुपमात्रविषयकप्रश्ने सति ब्रह्म सत्यत्वादिगुणविशिष्टमिति विशिष्टविषयकोत्तरदाने ‘आम्रान् पृष्टः कोविदारानाचष्ट’ इति वदनुपादेयं स्यात् । ‘अस्मिन् ज्योतिर्मण्डले कश्चन्द्र’ इति चन्द्र स्वरुपाज्ञाननिवृत्तये प्रकृष्टप्रकाशश्चन्द्र इत्यनभिधाय ‘चन्द्र’ इत्येवोक्ते न चन्द्रस्वरुपप्रतिपत्तिः स्यात् । नाऽपि संशयविपर्ययनिवृत्तिः । अतः प्रकृष्टप्रकाशश्चन्द्र इत्युक्तम् । तेन च चन्द्रे प्रकृष्टप्रकाशादितादात्म्यबोधानन्तरम् अस्य वाक्यस्य नैतावन्मात्रे तात्पर्यम्, आप्तस्य मदजिज्ञासितबोधकत्वापत्तेः । किन्तु प्रकृष्टादिपदानां मज्जिज्ञासितस्वरुपमात्र एव तात्पर्यम् इति प्रतिसन्धानेन चन्द्रादिपदलक्षणया स्वरुपमात्रशाब्दबोधो जायते ।
न चैवं सति लक्षणवाक्येन स्वरुपमात्रस्य प्रतिपाद्यत्वे स्वरुपमात्रार्थकानां गगनाकाशादिपदानामिव प्रकृष्टादिपदानां पर्यायत्वं स्यादिति वाच्यम् । मुख्यया वृत्त्या प्रातिपदिकार्थमात्रनिष्ठत्व एव पर्यायत्वम्, न तु लक्षणादिनाऽपि तन्निष्ठत्वे । अर्थवादगतानां लक्षणयैक प्राशस्त्य निष्ठानामप्यपर्यायत्वदर्शनात् । न च मुख्यार्थेऽनुपपत्त्यभावात् लक्षणैव न सम्भवतीति वाच्यम् । तात्पर्यानुपपत्त्या तदुपपत्तेः ।
लक्ष्यार्थभेदाभावेऽपि असत्यत्वादिव्यावृत्तये सत्यादिपदं सार्थकम् नन्वस्त्वपर्यायत्वमथापि प्रतिपिपादयिषितार्थस्य एकेनैव पदेन कृतत्वात् पदान्तरवैयर्थ्यमेवेति चेत्, मैवम् । लक्ष्यार्थभेदाभावेऽपि प्रतिपादमारोपितसन्तमस्- नक्षत्रव्यावर्तकतयासार्थकमेव । तदुक्तमन्दबोधेन – “अप्रकृष्टखद्योतादिव्यवच्छेदेन प्रकृष्टपदस्य अप्रकाशसन्तमसादिव्यवच्छेदेन, प्रकाशपदस्य च वर्तमानस्य न वैयर्थ्यम् । नाऽप्यखण्डार्थताऽभावः । चन्द्रप्रातिपदिकार्थमात्रप्रतिपादनाय पदप्रयोगात्” । एवमेव सत्यादिपदानामपि लक्षणया ब्रह्मस्वरुपपरत्वादपर्यायत्वमारोपिताऽसत्यत्वाद्यनेका कारव्यवच्छेदार्थत्वादवैयर्थ्यं च । उक्तोऽयमर्थः आनन्दबोधेन –
- लक्ष्यार्थभेदाभावेऽपि व्यावच्छेद्यविभेदतः ।
- विज्ञानानन्दपदयोः पर्यायव्यर्थते कुतः ॥ इति ।
एवं कोऽहमिति स्वरुपमात्रजिज्ञासायां प्रवृत्तं ‘तत्त्वमसि’ इत्यादि ब्रह्मात्मतादात्म्यपरमपि वाक्यमखण्डार्थनिष्ठम् । यथा कोऽयमिति पूर्वदृष्टदेवदत्तस्वरुपजिज्ञासायां प्रयुक्तं ‘सोऽयं देवदत्त’ इति तत्स्वरुपमात्रनिरुपणपरं वचनम् । अत्र मुख्यार्थस्वीकारे तद्देशकालविशिष्टस्यैतद्देशकाल वैशिष्ट्यम् एतद्दॆशकालविशिष्टस्य तद्देशकालवैशिष्ट्यं च बोधितं स्यात् । तथा सति एतद्देशकालयोस्तदानीं तद्देशकालयोरपीदानीं सत्वापातेन बाधितत्वात् न विशिष्टैक्यबोधने तात्पर्यम् । विशिष्टद्वयैक्यस्य मुख्यार्थत्वे विशेषणभूतदेशकालैक्येन विना विशिष्टैक्यानुपपत्तिः । अतस्तत्र यथा जहदजहल्लक्षणया देवदत्तस्वरुपमात्रे तात्पर्यं तद्वदिहापि चैतन्यमात्रबोधे तात्पर्यम् । उक्तं च सर्वज्ञात्ममुनिना –
- अविरुध्दविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोर्द्वयोः ।
- घटते न यदैकता तदा सुतरां तद्विपरीतरुपयोः ॥
- सामानाधिकरण्यमत्र भवति प्राथम्यभागन्वयः
- पश्चादेव विशेषणेतरतया पश्चाद् विरोधोद्भवः ।
- उत्पन्ने तु विरोध एकरसके वस्तुन्यखण्डात्मधीः
- सर्वैरेव पदैरयं समुदितो ज्ञेयः क्रमः सूरिभिः ॥ इति ।
अत्र ज्ञानस्याखण्डार्थत्वं प्रकारताविशेष्यताऽनिरुपकत्वम् । प्रकृते पदत्रयस्य देवदत्तस्वरुपमात्रबोधतात्पर्येऽपि विशिष्टाभिधानद्वारा भागत्यागलक्षणया प्रवृत्तेर्न पर्यायत्वं भेदभ्रमव्युदासद्वारेण सार्थक्यं च तद्वदिहापि लक्षणया तत्त्वमादिपदानां निर्विशेषचैतन्यपरत्वेन न पर्यायत्वं भेदभ्रमनिवर्तकत्वान्नापि वैयर्थ्यमित्यवधेयम् । तथा च प्रयोगः –
‘तत्त्वमसीत्यादिवाक्यं अखण्डार्थनिष्ठम् अकार्यकारणद्रव्यमात्रनिष्ठत्वे सति समानाधिकरणत्वात्, तन्मात्रप्रश्नोत्तरत्वाद् वा यथा सोऽयं देवदत्त इति वाक्यवत् ’ इति । अत्र क्रमेणा मृद्घटः, नीलमुत्पलं, देवदत्तस्य ग्राम इत्यादौ क्रमेण व्यभिचारवारणाय हेतुघटकविशेषणानि । सर्वमेतद् व्यक्तं पञ्चपादिकाविवरणे तथा न्यायमकरन्दे च ।
प्रकृष्टत्वादीनां चन्द्र इव सत्यत्वादीनां ब्रह्मणि सत्वात् नाखण्डार्थत्वम्
[सम्पादयतु]तदेतदसत् । प्रकृष्टत्वादिविशेषणानि चन्द्रे सन्त्येवेति दृष्टान्ते साध्यवैकल्यान्न सत्यज्ञानादि वाक्यानामखण्डार्थतासिध्दिः । एवं सोऽयं देवदत्त इत्यत्रापि स इत्यस्य न तद्देशकालसम्बन्धमात्रमर्थः किन्तु तस्यातीतत्वमपि । तथाऽयमित्यस्य न कालसम्बन्धमात्रमर्थः अपि तु वर्तमानता च । तथा च ‘स’ इति तद्देशकालसम्बन्धवन्तमनूद्य ‘अयम्’ इति विधीयते यदा, तदा एतद्देशकालसम्बन्धप्रागभाववानित्यर्थः ।यदाऽयमिति एतद्देशकालसम्बध्दमनूद्य ‘स’ इति विधीयते तदा तद्देशकालसम्बन्धध्वंसवान् इत्यर्थः । विशिष्टद्वयैक्यपक्षेऽपि एतद्देशकालसम्बध्दस्तद्देशकालसम्बन्धध्वंसवान् तद्देशकालसम्बध्दस्त्वेतद्देशकालसम्बन्धप्रागभाववान् इत्यर्थ इति पक्षत्रयेऽपि नानुपपत्तिः । तस्मादत्र जहदजहल्लक्षणाकरणमप्रामाणिकमेव । सर्वोऽप्ययं सौधवाक्यार्थः सङ्ग्रहीतः विष्णुदासाचार्यैः -
- पूर्वदेशादियोगस्य प्रध्वंसो यत्र दृश्यते ।
- तत्रैतद्देशकालस्य सत्त्वे काऽनुपपन्नता ।
- वर्तमानस्य कालादेः प्रागभावो यदास्ति हि ।
- तदा तद्देशकालादेः सत्त्वे काऽनुपपन्नता ।-------------इत्यादि ।
किञ्च चन्द्रदेवदत्तस्वरुपाज्ञाने प्रश्नस्यैवासम्भवात् तात्पर्यानुपपत्त्या प्रश्नस्य स्वरुपमात्र विषयकत्वकल्पनमपि प्रामादिकमेव । चन्द्रदेवदत्तादिस्वरुपस्य सामान्यतः सिध्दत्वेऽपि नक्षत्रादिव्या वृत्ततया भेदभ्रमनिरासाय च प्रश्न इत्युक्ते प्रश्नप्रतिवचनयोर्विशिष्टविषयत्वमव्याहतमेव । तदुक्तं व्यासतीर्थैः –
- सामान्यतोऽपि न ज्ञातो धर्मी चन्द्रो यदा तदा
- न बुभुत्सा न सन्देहो नानुवादश्च युज्यते ।
- तस्माच्चन्द्रस्येतरस्मात् भेदको धर्म एव हि
- पृष्टस्तस्माद् प्रकृष्टादिवाक्यं नाऽखण्डगोचरम् । इति ।
अखण्डार्थवादेऽनुपपत्तयः
[सम्पादयतु]१. किञ्च मुमुक्षुणा निखिलवस्तुव्यावृत्तं खलु ब्रह्म जिज्ञास्यम् । तत्र सत्यं ज्ञानमित्यादिपदानि शुध्दे सत्यत्वादिधर्मान् वदन्ति न वा ? आद्ये निर्धर्मकत्वहानिः । द्वितीये विरोध्याकारव्यावृत्तिः कथम् ? असत्यादिवयावृत्तिः, शुध्दे तदैव हि भवति यदा सत्यत्वमभ्युपेयते, नान्यथा । विरोध्याकारसमर्पणेन हि विरोध्याकारान्तरं व्यावर्तनीयम् । न हि नदीत्वमनभिदधतः नदीशाब्दादनदीव्यावृत्तिः सम्भावयितुमपि शक्यते ।
२. किञ्च दृष्टान्तभूतं प्रकृष्टादिवाक्यं सोऽयमित्यादिवाक्यं वा यदि संसृष्टार्थपरं न स्यात् तर्हि वाक्यमेव न स्यात् । आकाङ्क्षासन्निधियोग्यताऽभावात् । पदार्थसंसर्गो हि वाक्यार्थः । असंसृष्टार्थबोधने च कथं वाक्यत्वम् ? निर्विशेषवस्तुमात्रपरत्वे च कथं लक्षणवाक्यत्वम् ।अतो मुख्यार्थसम्भवान्न लक्षणाश्रयणं युक्तम् ।
३. एवं निर्विशेषचैतन्यमात्रपरत्वे वेदान्तानां निर्विषयत्वं च स्यात् । अखण्डवाक्यार्थस्य स्वप्रकाशस्य चिन्मात्रस्याविद्याध्यासाधिष्ठानत्वेन तत्साक्षित्वेन च नित्यसिध्दत्वात् । निर्निमित्तं सर्ववेदान्तानां मुख्यार्थत्यागश्च स्यात् ।
४. अपि च वेदान्तजन्यं ज्ञानं निष्प्रकारकं चेत्, ज्ञानमेव न स्यात् । ज्ञानस्येच्छादेरिव सविषयकत्ववत् सप्रकारकत्वस्यापि नियतत्वात् । किञ्चित्प्रकारं विना वस्तुनो बुध्दावनारोहाच्च । एवं च ‘ब्रह्मविदाप्नोति परम्’ इति सामान्यतोऽवगतस्य ब्रह्मणः विशेषजिज्ञासायां ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति सत्यत्वादिविशिष्टमेव ब्रह्म श्रुतिप्रतिपाद्यमिति ज्ञायते । तथा प्रत्यक्षेण् सामान्यतोऽवगतो जीवात्मा विशेषापेक्षया पृष्टः ‘सिंहो देवदत्त’ इतिवत् ‘तत्त्वमसि’ इति परमात्मसादृश्यविशिष्टः प्रतिपादितः । अभेदस्य उक्तरीत्या प्रमाणबाधितत्वात् । तस्मादुभयत्रापि न निर्विशेषचैतन्यबोधनाय वाक्यप्रवृत्तिरपि तु विशिष्टब्रह्मस्वरुपबोधनायैवेति नाखण्डार्थत्वं श्रुतीनां सम्भावितम् इति ।
अखण्डार्थत्वलक्षणभङगः
[सम्पादयतु]किमिदमखण्डार्थत्वं यदत्र सिषाधयिषितम् । निर्भेदार्थनिष्ठत्वं चेत्, निर्भेदत्वस्य भेदाभाव विशिष्टत्वरुपस्य तदुपलक्षितत्वरुपस्य वा अभिप्रेतत्वे ‘निर्घटं भूतलम्’ इति घटाभावविशिष्टभूतलबोधकस्य वाक्यस्य यथा नाखण्डार्थत्वं तद्वत् भेदाभावविशिष्टत्वरुपनिर्भेदार्थनिष्ठस्याप्यखण्डार्थत्वं न सम्भवति।
अखण्डार्थत्वस्य निर्विशेषार्थरुपत्वे सप्त दोषाः
[सम्पादयतु]निर्विशेषार्थनिष्ठत्वस्याखण्डार्थत्वेऽभिप्रेते सप्त दोषाः भवेयुः । तदुक्तं विष्णुदासाचार्यैः-
- सत्यज्ञानादिवाक्यादेः निर्विशेषार्थनिष्ठता
- यदि लक्षणवाक्यत्वात् साध्यते चन्द्रवाक्यवत् ।
- तदा स्याद् व्याहतिर्बाधः प्रतिरोधो विरुध्दता
- अव्याप्तिश्चाप्रसिध्दत्वं दृष्टान्ते साध्यशून्यता ॥ इति ।
१.व्याहतिः
असाधारणधर्मो हि लक्षणमित्युच्यते । लक्षणवाक्यमित्युक्त्यैव लक्ष्यस्यासाधारणधर्मप्रतिपादकं वाक्यमित्यभ्युपगम्य पुनर्निर्विशेषार्थनिष्ठमिति साधने कथं न व्याहतिः ?
२.बाधः
ननु न लक्षणवाक्येन ब्रह्मणि सत्यत्वादयो धर्मा सन्तीत्युच्यते । तथात्वे स्याद् व्याहतिः । न चैवम् । सत्यत्वादयः न ब्रह्मणि परमार्थतया विद्यन्ते । तस्य निर्धर्मकत्वात् । अतः सत्यादिपदैरसत्याज्ञानादिव्यावृत्तिरेव बोध्यत इति चेत्तदा श्रुतेर्ब्रह्मण्यविद्यमानुणकथनात् अप्रामाण्यरुपो बाधः ।
३.प्रतिरोधः
सत्यादिवाक्यं सविशेषार्थनिष्ठं सद्वाक्यत्वात् सम्मतवत् इत्यनुमानेन सत्प्रतिपक्षता । विपक्षे वाक्यत्वाभावप्रसङ्गो बाधकः ।
४.विरुध्दता
‘गन्धवती पृथिवी’ ‘सास्नादिमान् गौः’ इत्यादिषु लक्षणवाक्येषु सर्वत्र सविशेषार्थत्वस्यैव सत्वात् निर्विशेषार्थनिष्ठत्वरुपसाध्यासमानाधिकरणो हेतुरिति विरुध्दता ।
५.अव्याप्तिः (व्याप्यत्वासिध्दिः)
लक्षणवाक्यं निर्विशेषार्थष्ठिमिति व्याप्त्यभावात् व्याप्यत्वासिध्दो हेतुः ।
६.अप्रसिध्दत्वम् (अप्रसिध्दविशेषणत्वम्)
निर्विशेषवस्तुनोऽत्यन्ताप्रसिध्देरप्रसिध्दविशेषणत्वम् । प्रत्यक्षादिनापि इदमित्थमिति सप्रकारकज्ञानस्यैवोत्पत्तेश्च ।
७.'दृष्टान्ते साध्यशून्यता
प्रकृष्टप्रकाशश्चन्द्र इति लक्षणवाक्यस्य मुखार्थे बाधाभावात् सविशेषपरत्वादेव दृष्टान्ते साध्यवैकल्यम् । नाप्यपर्यायशब्दानां प्रातिपदिकार्थमात्रपर्यवसायित्वम् । पयः पावकरुपानेकप्रातिपदिकार्थपर्यवसायिनि ‘शीतोष्णस्पर्शवन्तौ पयः पावकौ’ इत्यादावतिव्याप्तेः नाऽपि चित्सुखोक्तरीत्या
- संसर्गाऽसङ्गिसम्यग्धीहेतुता या गिरामियम् ।
- उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥ इति
समभिव्याहृतपदार्थसंसर्गागोचरप्रमाजनकाऽपर्यायशब्दत्वं वा समभिव्याहृतैकप्रातिपदिक मात्रपर्यवसाय्यपर्यायशब्दत्वं वा अखण्डार्थत्वम् । अत्र संसर्गशब्देन संसर्गमात्रोक्तौ “अप्राप्तयोः प्राप्तिः संयोग” इति संयोगलक्षणवाक्ये अव्याप्तिः । उक्तदिशा प्रकृष्टादिवाक्ये संसृष्टार्थत्वस्यैव सत्त्वेनासम्भवश्च । तस्मादखण्डार्थत्वस्य निर्वक्तुमशक्यत्वात् नाखण्डार्थता श्रुतीनामिति स्थितम् ।
टिप्पणी
[सम्पादयतु]१. ब्र. सू.शां. भा.१.१.१२, p. 34
२. वे.प.उ.व.p. 432
३. पञ्चपादिकाविवरणे अयमाशयः स्फुटः –“तत्र द्विविधा वेदान्तवाक्यप्रवृत्तिः । एका ब्रह्मात्मनोरेकत्वविषया ।
अपरा सत्यज्ञानादिलक्षणब्रह्मविषया --- प्रामाण्यमुपपद्यते” इति । P. 238
४. न्या.म.P.262
५. न्या. म. P.260
६. सं.शा.1.167 P. 186
७. पं.पा.वि.P.238 न्या. म. P.267-269
८. वा. र. P.125
९. न्याया. P.393
१०. वा.र. P.117
११. त. प्र. P 109
१२. घटमानयेत्यादिलक्षणवाक्येष्वतिव्याप्तिवारणाय लक्षणद्वयेऽपि प्रथमदलम् । “ घटः कलश” इत्यादावतिव्याप्ति वारणाय उभयत्राप्यपर्यायेति ।