अनुव्याख्यानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
मध्वाचार्य:

अस्याः कृतेः रचयिता मध्वाचार्यः भवति। भागवतपुराणं रचयित्वा अनुग्रहः करणीयः इति वेदव्यासं प्रार्थितवान् आसीत् नारदः। एषः प्रसङ्गः अत्र स्मरणीयः भवति। अस्य आचार्यस्य सर्वतोमुखगरिमां दृष्ट्वा त्रिविक्रमपण्डितः एवं प्रार्थयति, “ आचार्य़ , स्वनिर्मितेषु ग्रन्थेषु विद्यानाः विषयाः कठिणाः। अतः तेषां विषयाणाम् अवगमनं यथा भवेत् तादृशं ग्रन्थमेकं रचयतु" इति प्रार्थिवान् आसीत्। सपदि आचार्यः ४ शिश्यान् आहूय एकैकस्मै अध्यायमेकम् उपदिष्टवान्। चत्वारः अपि एकमेकम् अध्यायं लिखितवन्तः। मिलित्वा एकः ग्रन्थः अभूत्। सैव ग्रन्थः “अनुव्याख्यानं” भवति। द्वैतवेदान्तशास्त्रस्य मेरुकृतिः भवति। अस्याः कृतेः प्रशंसा सुमध्वविजये कृता अस्ति। तद्यथा,
अपरोऽपीष्यतेऽस्माभिग्रन्थेष्वेतेषु सत्स्वपि।
सत्स्वपीन्द्रादिषु पुरा तारकारिरिवामरैः॥
ग्रन्थेभ्य एभ्योऽगाधेभ्यो युक्तयो नो दुरुद्धराः
मनोमांद्यात्ततो ग्रन्थं व्यक्ततर्कततिं कुरु॥
इत्यर्थितो व्यधान्मध्वः सोऽनुव्याख्यां सतां सुधाम्।
दुर्वादिगर्वाद्रिपविं मायिध्वान्तरविद्युतिम्॥
युगपद्रचयन्नेनां कदाचित्सनिरन्तरम्।
चतुरश्चतुरः शिष्यान् लीलयाऽनलेखयत्॥ इति॥

व्याख्यानानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अनुव्याख्यानम्&oldid=402146" इत्यस्माद् पुनः प्राप्तिः