अमरुशतकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

अमरुशतकं प्रस्तुतिकाव्यं विद्यते। अमरुककवेः कृतिरिति ख्याते काव्येऽस्मिन् सन्ति शतानि पद्यानि । अत्र शृङ्गारस्य विविधरूपाणां यथार्थं सजीवञ्च वर्णनं लभ्यते । अस्य चत्वारि संस्करणानि दृश्यन्ते, येषु एकपञ्चाशच्छ्लोका एव साम्यं बिभ्रति।

कविपरिचयः[सम्पादयतु]

कोऽसौ वैदर्भीविलास रससिद्धो भावभाषासमन्वयवादी भावसिद्धिपक्षधरः कविरित्यपेक्षायामुच्यते असौ हि अमरुक एव यस्मिन् सर्वाण्यपि विशेषणानि शालन्ते । कविरसौ कदाऽऽसीदित्यपेक्षायां पण्डिता नैकमत्यं भजन्ते । केचिद्धि तं कालिदाससमकालीनं मन्यन्ते । ते अमरसिंहस्य अमरुकवेश्चैक्यं वाञ्छन्ति । अपरे तु वैक्रमसप्तमभवमपि मन्यन्ते । केचित्तु तं विक्रमशालिवाहनयोरन्तरालसमयवर्तिनमपि । ते स्वस्वपक्षसमर्थनाय येन केनाप्युपायेन प्रमाणानि सङ्गृह्णन्ति ।

कालः[सम्पादयतु]

८६० मितवैक्रमाब्दमभितः स्थितिमान् वामनस्तं स्मरति तथैव ९०७ मितवैक्रमाब्दमभितः स्थितिमताऽऽनन्दवर्धनेन कविरसौ भूरिशः प्रशस्यते इति तस्य वैक्रमाष्टमशतकपूर्ववतत्वं तु सिध्यत्येव । तं बाणभट्टो नैव स्मरतीति केचित्तस्य स्थितिकालस्य पूर्वसीमत्वेन बाणभट्टस्थितिकालं गृह्णन्ति । केचित्तु तं कालिदाससमकालीनसमर्थने एव तत्पराः। तत्र तेषां निम्ना युक्तिः -

सामान्यतः स्थितिकालनिर्णये बाह्यप्रमाणापेक्षयाऽऽभ्यन्तरमेव प्रमाणं प्रबलतरं भवति । यावद्धि बाणभट्टेन नैव स्मृतः कविरसौ इत्युच्यते तत्तु बाणाधीनमेव । स तु कुमारदास-भारविमपि न स्मरति । सः यदेव जानाति वा तन्मतौ समुल्लेखनीयत्वं यस्य सिध्यति तस्यैवोल्लेखस्तस्य काव्ये सम्भवति । तेन नेदं प्रबलं प्रमाणं यस्य कस्यापि कालसीमायाः । यथा चाभ्यन्तरप्रमाणानां प्रश्नोऽस्ति स तु अमरुककविमाचार्ययुगीनमेव सङ्केतयति । भारविना हि आचार्ययुगं समाप्य पण्डितयुगः प्रारब्धः । आचार्ययुगपर्यन्तं भाषापेक्षया भावस्यैव प्राधान्यमासीत् । तत्कालीनं काव्यं सरसमधुरं प्रसादमनोहरं प्रकृतिदर्पणञ्चासीत् । अमरुशतके सन्ति तादशानि लक्षणानि स्पष्टतया। तत्र विचक्षणत्वस्य नास्ति लेशोऽपि । स तु प्रकृतिकविः । स सरसया किन्तु सरलयैव भाषया शृङ्गारस्य विविधपक्षान् प्रस्तौति । यदि सः भारव्यनन्तरम् अभविष्यत्तदा तस्य काव्येऽपि पाण्डित्यप्रदर्शनपरायणताऽपि तथैव अवर्त्स्यत् । किन्तु यथार्थतस्तु न तथा । न तत्र पाण्डित्यप्रदर्शनक्षुधानापि चालङ्कृतशैलीपियासा। भावप्रधानमिदं प्रकृतिसमनुकूलञ्च, सरसं काव्यमवश्यमेव कालिदाससमकालीनं भवितुमर्हति । यथा हि -

सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः,

सा पीनोन्नतमत्पयोधरयुगं धत्ते सखेदा वयम्।।

साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं,

दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम्॥[१]

बाले, नाथ, विमुञ्च मानिनि रुषं, रोषान्मया किं कृतं,

खेदोऽस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि।

तत्किं रोदिषि गद्गदेन वचसा, कस्याग्रतो रुद्यते,

नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते ।।[२]

इत्थमेव -

मुग्धे मुग्धतयैव नेतुमखिलः कालः किमारभ्यते,

मानं धत्स्व धृतिं दधान ऋजुतां दूरे कुरु प्रेयसि।

सख्यैवं प्रतिबोधिती प्रतिवचस्तामाह भीतानना,

नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ॥

यद्यपि कानिचित्पद्यानि श्लेषमयान्यपि दृश्यन्ते 'क्षिप्तो हस्तावलग्नः' इत्यादौ, किन्तु तत्रापि नैव चित्रमयताऽपि तु सरसतैव 'कामीवापराधः' इति स्पष्टमेव प्रतिपादनेन । अपरञ्च, ग्रन्थस्यास्य यथार्थताऽपि नैव निश्चिता यतो हि अस्य चतुर्षु संस्करणेषु केवलं एकपञ्चाशत्पद्यानि एव संवदन्तेऽपराणि तु प्रतिसंस्करणं भिद्यन्त एव । तेन पद्यानां मौलिकत्वप्रक्षिप्तत्वप्रश्नोऽप्यनिर्णीत एव तिष्ठति । तेन केषुचित्पद्येषु प्रक्षिप्तताऽपि सम्भवति यत्र पण्डितयुगस्य चिह्नानि सम्भवेयुरपि। तेन कविरसौ मूलतो भावपक्षधरो दृश्यते । तस्य काव्यमात्मप्रकाशनमेव न तु पाण्डित्यप्रदर्शनम् । अतोऽसौ अश्वघोषादपि पूर्ववर्ती मन्यते। तथैव विक्रमनवरत्नेषु पठितोऽमरसिंह एव अमरुकः सम्भवतीत्यपि नैव शुष्कस्तर्कः। अमरसिंहस्य नामलिङ्गानुशासनमेव सम्प्रति लभ्यते ग्रन्थरूपेण किन्तु स -

प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने

प्रसक्तो गाम्भीर्ये रसवति च काव्यार्थघटने।

अगम्यायामन्यैर्दिशि परिणतेरर्थवचसो-

र्मतञ्चेदस्माकं कविरमरसिंहो विजयते।।[३]

इत्यत्र 'रसवति च काव्यार्थघटने' इति यदुक्तं तदमरुकशतके सम्भवतः प्रत्यक्षरूपेण घटते। यदि नाम कथ्यते तत्कालेन कवलितमिति तदोष्ठविलास एव भवेत्प्रमाणाभावात् । इदमपि विचार्यतां यद्यान्यपि स्त्रीणां नामानि अमरकोषे दत्तानि योषिदबलायोषाप्रभृतीनि तेषां सर्वेषामेवोदाहरणमत्र काव्ये लभ्यते । यथा 'प्रस्थानं बलयैः कृतमि'त्यत्र साऽबला, 'क्षिप्तो हस्तावलग्न' इत्यत्र प्रतीयदर्शिनी, 'बाले नाथ' इत्यत्र भामिनी, 'मुग्धे मुग्धतयेव' इत्यत्र रामा इत्यादि।

कविरसौ काश्मीर इति श्रुतिपरम्परा । कथ्यते मण्डनमिश्रपत्न्या शारदया कामकलाविवादे पराजिताः शङ्करभगवत्पादाः मृतस्य अमरुनामकस्य राज्ञः शरीरं प्रविश्य यदेव कामसुखमनुभूतवन्तस्तत्सर्वमेवात्र चित्रितमिति । यद्यपि कथनेऽस्मिन्नास्ति सत्यस्य लेशोऽपि तथाप्यनेन कवेः कवित्वोत्कर्षस्तु सिध्यत्येव । राजशेखरस्त्वमुं विशालायां परीक्षितं कथयति । यथोक्तम् -

'इह कालिदासभर्तृमेण्ठावत्रामररूपसूरभारवयः।

हरिचन्द्रचन्द्रगुप्तौ परीक्षिताविह विशालायाम्॥' इति ।

अत्रोक्तः अमरः किममरिसंह उताहो अमरुक अथवा तयोरन्य एव ? यदि अमरसिंहः कोषकारोऽत्र गृहीतस्तदा किं कोषस्य परीक्षा सञ्जाता ? सम्भवतो नैव । तर्हि किं तस्य काव्यान्तरमासीत् । सति तथा तदानन्दवर्धनेन वामनेन वा पृथगेव स्मृतं स्याद्यतो हि रसवत्काव्यम् । तर्हि कोऽसौ अवश्यमेव अमरुकः अमरसिंहस्य प्रेम्णा रूपान्तरितं नाम भाषणे । अतोऽमरुकस्यापि उज्जयिनीसमीपवर्तिप्रदेशवास्तव्यत्वं सिध्यति कालिदासस्यैव । स हि कालिदासस्य सहकर्मा कविः कामं स काश्मीरेषु वा कुन्तलेषु जातः । सोऽपि कालिदास इव परमशैवः ।

अमरुकस्य प्रत्येकं पद्यं कविभिरालोचकैश्चात्मसात्कृतं दृश्यते । ध्वनिप्रस्थापनपरमाचार्य आनन्दवर्धनः कथयति 'मुक्तकेषु हि प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते । तथा ह्यमरुकस्य कवेर्मुक्तकाः शृङ्गारस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव' इति ।

तथैवोक्तम् -

'अमरुककवेरेकः श्लोकः प्रबन्धशतायते' इति ।

अर्जुनदेवः कथयति -

'अमरुककवित्वडमरुकनादेन विनिह्नुता न सञ्चरन्ति।

शृङ्गारभणितयोऽन्या धन्यानां श्रवणयुगलेषु ॥' इति ।

ग्रन्थस्यास्य सन्त्यनेकाष्टीकास्तासु अर्जुनदेववर्मणो रसिकसञ्जीवनी (१२९० मितवैक्रमाब्दमभितः प्रणीता), वेमभूपालकृता शृङ्गारदीपिका (१४२५ मितवैक्रमाब्दमभितः प्रणीता) च प्रसिद्धाः। नायिकावर्णनपरे इमे व्याख्ये। रविचन्द्रस्य तु वेदान्तव्याख्याना व्याख्या कृत्रिमा पाण्डित्यप्रदर्शिका च ।

भर्तृहरिः रतिमङ्गनाञ्च हेयत्वेन वर्णयति परन्तु अमरुकस्तु तदेव जीवनसार्थक्याय अपरिहार्यत्वेन वर्णयति । रतिर्वाङ्गना न केवलं मनुष्यजीवनस्योपादानविशेषौ अपि तु समवायिविशेषौ एवेति अमरुकस्य दृष्टिः । तेनापि अमरुकस्य भर्तृहरेः पूर्ववतत्वं मन्यते। यतो हि सा दृष्टिः प्राकृतिकयुगे एव सम्भवति न तु कृत्रिमयुगे।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. ३४
  2. ५७
  3. सदुक्ति० ५/२७/२
"https://sa.wikipedia.org/w/index.php?title=अमरुशतकम्&oldid=439101" इत्यस्माद् पुनः प्राप्तिः