खण्डकाव्यानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

खण्डकाव्यं महाकाव्यस्यैकदेशानुसारि भवति ।

अन्तर्विषयाः

व्याख्या[सम्पादयतु]

खण्डकाव्यं महाकाव्यस्यैकदेशानुवर्ति भवति । महाकाव्ये एकस्य वा एकाधिकानां नायकस्य नायकानां समग्रमेव जीवनं चित्रितं भवति काव्यसम्बद्धम् । खण्डकाव्ये तु तस्यैकदेश एव चित्रितो भवति । तेन खण्डकाव्यं वस्तुतो लघुकाव्यमेव । यत्र महाकाव्ये जीवनस्य समग्रतायाः प्रसारस्तत्र खण्डकाव्ये जीवनस्यैकस्यैव पक्षस्य तन्मयता भवति । तेन खण्डकाव्यमाकारेण प्रकारेण च, महाकाव्याल्लघुतरं तु भवत्येव, अपि च महाकाव्ये जीवनस्यैकाधिकमपि पक्षं प्रस्तोतुं शक्यते खण्डकाव्ये तु एक एव पक्ष उन्नीयते । अतो विस्तृतकलेवरान्महाकाव्याल्लघुकलेवरं खण्डकाव्यं सशक्ततरं प्रभावितरञ्च भवति । खण्डकाव्येऽत एव महाकाव्यापेक्षया समधिकमेव लालित्यं माधुर्यञ्च भवति ।

इतिहासः[सम्पादयतु]

यद्यपि लौकिकसाहित्ये खण्डकाव्यस्योद्घाटनं कालिदासेनैव कृतं तथापि नैतावता तस्य तस्मादपि प्राचीनतरत्वं व्याहन्यते । ऋग्वेदादावपि खण्डकाव्यस्य स्वरूपमुपलभ्यते । कमनीयार्थद्योतकं वाक्यमेव भवति काव्यम् । यत्र हि किञ्चिदपि वाक्यं तथारूपेणोपन्यस्तं भवति, तत्र खण्डकाव्यस्य विषय उत्पद्यते एव । तेन वाक्यस्य काव्यत्वेऽन्तस्तत्वमेव हेतुर्न तु बाह्यम् । वाक्यौघो वा एकमेवापि वाक्यं काव्यं भवति, यदि तत्कमनीयमर्थं प्रकाशयति । ऋग्वेदादौ सन्ति एतादृशानि वचनानि यानि काव्यत्वं बिभ्रति । यथा - उषःसूक्तं, विपाशाशुनुद्रीसूक्तं, सुदासविजयसूक्तं, भूमिसुक्तञ्चेत्यादिसूक्तौघे ।

अस्य काव्यप्रभेदस्येतिहासः कदा आरभ्यते इति चिन्तायाम् ऋग्वेदकाल एव खण्डकाव्यस्य बीजमुत्पन्नमिति सविश्वासं वक्तुं शक्यते । मनोहरिणी उषः सूक्ते वीररसप्रधाने विपाशाशुतुद्रीसूक्ते सुदासविजयसूक्ते च खण्डकाव्यस्य प्राग्रूपं निहितमिव प्रतीयते ।

अभ्रातेव पुंस एति प्रतीची गर्त्तारुगिव सनये धनानाम् ।
जायेव पत्ये उशती सुवासा उषा हस्रेव निरिणीते अप्सः ॥

इयम् उषः सुन्दरी भ्रातृहीना भगिनीव स्वदायभागाय पितृस्थानीयं सूर्यमुपतिष्ठते, कदाचिच्च पतिं प्रेमपाशे बन्धुमध्यवसिता सुन्दरपरिधाना सुन्दरीव सूर्यस्य समीपमायाति ।

अत्र एवं विधेऽन्यत्र च मन्त्रसमुदये यदाख्यानजातं निहितं तत्खण्डकाव्यस्यादिमं रुपं मन्तुं शक्यत एव । कालिदासेन तु मेघदूतर्तुसंहारौ प्रणीय खण्डकाव्यपरम्परायाः शिलान्यास इव कृतः ।

कालविभाजनम्[सम्पादयतु]

अग्रवालमहोदयस्य मते कालविभाजनम् -

  1. ऋग्वेदकालिकं खण्डकाव्यम् । अत्र खण्डकाव्यानुकारैः सूक्तैऋषयोऽव्याजमात्मभावान् व्यञ्जयामासुः, ययोषः सूक्तादिषु ।
  2. भक्तिरसमयं खण्डकाव्यम् । यस्य प्रभेदस्य निदर्शनानि बौध्दग्रन्थेषु उपनिषत्सु च प्राप्यन्ते ।
  3. ऐतिहासिकं खण्डाकाव्यम् । अस्य प्रभेदस्योदाहरणं रामायणे भारते वा कृतं प्रकृतिवर्णनं बोध्यम् ।
  4. रुपकान्तर्गतं खण्डकाव्यम् । रुपकेषु यत्र तत्र पात्राणां वस्तुवर्णनपराणि प्रेमप्रकाशनपराणि वा पद्यानि एतदुदाहरणतया स्वीकर्त्तुं शक्यन्ते ।
  5. उत्तरकालभवानां कवीनां शृङ्गारप्रधानं सङ्कीर्णं वा खण्डकाव्यम् ।

एषु पञ्चसु प्रभेदेषु पञ्चमः प्रभेद एव सर्वोत्कर्षं गतः कालिदासामरुकभर्त्तृहरिजगन्नाथादिभिरस्य प्रभेदस्य साहित्यमूर्जितं कृतम् । अन्ये प्रभेदा बीजभावेन स्थिता अपि पोषकसाहित्याभावात्सुप्तकल्पा एव। इदमेव खण्डाकाव्यमत्याधुनिकाः गीतिकाव्यम् इति नाम्ना व्यपदिशन्ति । अत्र गीतिकाव्यप्रभेद एव दूतकाव्यमुक्तककाव्यवर्णनप्रधानकाव्या न्यायन्ति, तेन खण्डकाव्यनामाऽयं प्रकारो मेघदूतर्त्तुसंहारगीतगोविन्दभर्त्तृहरि शतकत्रयामरुकशतकभल्लटशतकभामिनीविलासादीन् अन्यान्यानि दूतकाव्यानि चाङ्गीकरोति ।

भेदाः[सम्पादयतु]

हंसराजप्रभृतयः समालोचकाः खण्डकाव्यं पञ्चविधं मन्यन्ते सूक्तमयं भक्तिरसमयमैतिहासिकं रूपकान्तर्गतं सङ्कीर्णञ्च । तेषु वेदेषु समुपन्यस्तं सूक्तमयं यथोषःसूक्तम्, भक्तिरसमयं यथोपनिषत्सु बौद्धादिग्रन्थेषु च, ऐतिहासिकं यथा रामायणे महाभारते प्रस्तुतं प्रकृतप्रकृतिवर्णनम्, रूपकान्तर्गतं यथा रूपकान्तरुपस्थापितपद्यानि, सङ्कीर्णञ्च शृङ्गारप्रधानं मेघदूतादिकमिति ।

प्रकाराः[सम्पादयतु]

खण्डकाव्यं मुख्यतश्चतुर्विधं दृश्यते शार्ङ्गारिकं, धार्मिकं, नैतिकं, साङ्ग्रहिकञ्च । प्रथमोऽपि भेदः गीति-प्रस्तुति-स्फुटभेदेन विविधः। द्वितीयः स्तुतिकाव्यमेव । तृतीयस्तु नीतिपरको वा उपदेशपरकः अन्योक्तिरूपश्च । चतुर्थभेदस्तु सङ्ग्रहपरकः सुभाषितसङ्ग्रहः कोषश्चास्य भेदौ । यत्र कुत्र तु सर्वेषामेव पक्षाणां मिश्रणमपि दृश्यते ।

शार्ङ्गारिककाव्यानि[सम्पादयतु]

शार्ङ्गारिकगीतिकाव्यमपि दूतकाव्य-प्रस्तुतिकाव्य-मुक्तककाव्यभेदादनेकविधं भवति । तत्र दूतकाव्यं यथा मेघदूतं कालिदासस्य, जिनसेनस्य ( ८७१ वै० ) पार्श्वाभ्युदयः, विक्रमकवेः नेमिदूतं, धोयीकवेः (१२२६ वै०) पवनदूतं, वेदान्तदेशिकस्य ( १३६० वै० ) हंससन्देशः, उद्दण्डकवेः ( १४६० वै ) कोकिलसन्देशः, वामनभट्टबाणस्य (१४७७ वै० ) हंससन्देशः, रूपगोस्वामिनो हंसदूतं, उद्धवसन्देशः च, रामशास्त्रिणः ( १९८० वै० ) मेघप्रतिसन्देशः, पूर्णसरस्वत्याः हंससन्देशः, 'विष्णुत्राता' इत्यस्य (१६८० वै० ) कोकसन्देशः, वासुदेवस्य (१७८० वै०) भृङ्गसन्देशः, विनयप्रभस्य इन्दुदूतं, (१३५० वै०) विष्णुदासस्य मनोदूतं, रामारामस्य मनोदूतं तथा च घटकर्परस्य घटकर्परकाव्यञ्च ।

प्रस्तुतिकाव्येषु कालिदासस्येत्यभिमतं शृङ्गारतिलकं, कालिदासस्य ऋतुसंहारम्, पुष्पबाणविलासः, राक्षसकवेः राक्षसकाव्यं, अमरुकस्य अमरुशतकं, भर्तृहरेः शृङ्गारशतकं, विल्हणस्य ( ११३७ वै० ) चौरपञ्चाशिका, जयदेवस्य गीतगोविन्दं (१२२६ वै०), रायभट्टस्य (१५५० वै० ) शृङ्गारकल्लोलश्च प्रसिद्धग्रन्थाः। स्फुटपद्यानां तु सङ्ख्या गणनातीतैव । स्फुटपद्यमेव मुक्तकमपीत्युच्यते । अस्य स्वरूपं प्रस्तुतिकाव्येष्वपि दृश्यते ।

धार्मिककाव्यानि[सम्पादयतु]

धार्मिकगीतिकाव्येषु कालिदासस्य श्यामलादण्डकं, अश्वघोषस्य गण्डीस्तोत्रगाथा, सिद्धसेनदिवाकरस्य (५५० वै०) कल्याणमन्दिरस्तोत्रं, श्रीहर्षस्य सुप्रभातस्तोत्रं, अष्टमहाश्रीचैत्यस्तोत्रं च, बाणस्य (६६० वै०) चण्डीशतकं, मयूरकवेः सूर्यशतकं, मातृतुङ्गस्य भक्तामरस्तोत्रं, सर्वज्ञमित्रस्य स्रग्धरास्तोत्रं, शङ्कराचार्यकृतित्वेन प्रसिद्धानि विविधस्तोत्राणि, सौन्दर्यलहरी, अन्नपूर्णादशकं, अन्नपूर्णाष्टकं, कनकधारास्तवः, दक्षिणामूर्त्यष्टकं, रामभुजगस्तोत्रं, लक्ष्मीनृसिंहस्तोत्रं, विष्णुपादादिकेशान्तवर्णनं, शिवभुजगस्तोत्रं, शिवानन्दलहरी, शिवमानसपूजास्तोत्रम्, कुलशेखरस्य मुकुन्दमाला, मूककवेः मूकपञ्चशती, काश्मीरस्य पुष्पदन्तस्य महिम्नःस्तवः, रत्नाकरस्य वक्रोक्तिपञ्चाशिका, आनन्दवर्धनस्य देवीशतकं, उत्पलदेवस्य स्तोत्रावली, यामुनस्य (१०६० वै०) चतुःश्लोकीस्तोत्ररत्नञ्च, रामानुजस्य शरणागतिगद्यं, वैकुण्ठगद्यं, श्रीरङ्गगद्यं, पञ्चाङ्कस्य पञ्चस्तवः श्रीस्तवोऽतिमानुषस्तवो वरदराजस्तवः सुन्दरबाहुस्तवो वैकुण्ठस्तवश्च, पराशरभट्टस्य श्रीरङ्गराजस्तवः, श्रीगुणरत्नकोशः, जयदेवस्य गङ्गास्तवः, गीतगोविन्दञ्च, कृष्णलीलांशुकस्य कृष्णकर्णामृतं, मध्वाचार्यस्य द्वादशस्तोत्रम्, वेदान्तदेशिकस्य पादुकासहस्रं, गरुडदण्डकं, रघुवीरगद्यं, अच्युतशतकं, अप्पयदीक्षितस्य ( १६११ वि० ) वरदराजस्तवः, नारायणभट्टस्य नारायणीयम्, मधुसूदनस्य आनन्दमन्दाकिनी, रूपगोस्वामिनो गन्धर्वप्रार्थनाष्टकं, मुकुन्दमुक्तावली, जगन्नाथस्य (१६४७-१७२२ वै०) सुधालहरी, अमृतलहरी, लक्ष्मीलहरी, करुणालहरी, गङ्गालहरी च । नीलकण्ठदीक्षितस्य आनन्दसागरस्तवः, शिवोत्कर्षमञ्जरी, वेङ्कटाध्वरिणः (१७०७ वै०) लक्ष्मीसहस्रम्, रामभद्रस्य रामबाणस्तवः, अद्भुतसीतारामस्तोत्रं, नारायणतीर्थस्य कृष्णलीलातरङ्गिणी, लोकमणिदाहालस्य सूर्यमहिम्नः स्तोत्रं देवीमहिम्नः स्तोत्रञ्च प्रसिद्धाः ग्रन्थाः।

नीतिकाव्यानि[सम्पादयतु]

नीत्युपदेशपरककाव्यानि[सम्पादयतु]

नीतिपरककाव्येषु चाणक्यशतकं, सुन्दरपाण्ड्यस्य नीतिद्विषष्टिका, शान्तिदेवस्य बोधिचर्यावतारः, शिक्षासमुच्चयः, सूत्रसमुच्चयश्च, भर्तृहरेः नीतिशतकं, वैराग्यशतकं, शङ्कराचार्यस्य मोहमुद्गरः, दामोदरगुप्तस्य कुट्टिनीमतं (शम्भलीमतम्), अमितगतेः सुभाषितरत्नसन्दोहः, धर्मपरीक्षा, क्षेमेन्द्रस्य चारुचर्या, चतुर्वर्गसङ्ग्रहः, सेव्यसेवकोपदेशः, समयमातृका, कलाविलासः, दर्पदलनं, हेमचन्द्रस्य योगशास्त्रं, जल्हणस्य मुग्धोपदेशः, शिल्हणस्य शान्तिशतकं, सोमप्रभस्य शृङ्गारवैराग्यतरङ्गिणी, वेदान्तदेशिकस्य सुभाषितनीवी, वैराग्यपञ्चकम्, कुसुमदेवस्य दृष्टान्तशतकं, द्याद्विवेदस्य नीतिमञ्जरी, जगन्नाथस्य भामिनीविलासः, नीलकण्ठस्य कलिविडम्बनं, सभारञ्जनशतकं, शान्तिविलासः, वैराग्यशतकम्, गुमानिकवेः उपदेशशतकम्, वेङ्कटाध्वरिणः सुभाषितकौस्तुभश्च ।

अन्योक्तिकाव्यानि[सम्पादयतु]

भल्लटस्य (९४७ वै०) भल्लटशतकं, शम्भुकवेः (११४७ वै०) अन्योक्तिमुक्तालता, जगन्नाथस्य भामिनीविलासः, नीलकण्ठस्य अन्योक्तिशतकं (अन्योपदेशशतकं वा), वीरेश्वरस्य अन्योक्तिशतकं च ।

साङ्ग्रहिककाव्यानि[सम्पादयतु]

सुभाषितकाव्यानि[सम्पादयतु]

सातवाहनस्य गाथासप्तशती, अज्ञातसङ्ग्रहीतृकः कवीन्द्रवचनसमुच्चयः, सोमेश्वरस्य अभिलषितार्थचिन्तामणिः, गोवर्धनस्य आर्यासप्तशती, श्रीधरदासस्य सदुक्तिकर्णामृतं, जल्हणस्य सूक्तिमुक्तावली, कलिङ्गरायसूर्यस्य सूक्तिरत्नहारः, सायणस्य सुभाषितसुधानिधिः, शार्ङ्गधरस्य (१४२० वै०) शार्ङ्गधरपद्धतिः, सकलकीर्तेः सुभाषितावली, पोतयार्यस्य प्रसङ्गरत्नावलिः, श्रीधरस्य सुभाषितावलिः, वल्लभदेवस्य सुभाषितावलिः, रूपगोस्वामिनः पद्यावलिः, पेड्डभट्टस्य सूक्तिवारिधिः, हरिकवेः सुभाषितहारावलिः, शम्भुकवर्बुधभूषणं, वाटलिकस्य भारतीयसूक्तिसंग्रहः, हरिभास्करस्य पद्यामृततरङ्गिणी, शिवदत्तस्य सुभाषितरत्नभाण्डागारश्च।

कोशग्रन्थाः[सम्पादयतु]

यास्कस्य निरुक्तम् (निघण्टुभागः), व्याडेः उत्पलिनी, कात्यस्य नाममाला, भागुरेस्त्रिकाण्डकोषः, अज्ञातकर्तृका रत्नमाला, अमरदत्तस्य अमरमाला, वाचस्पतेः शब्दार्णवः, धन्वन्तरेर्वैद्यकनिघण्टुः, क्षपणकस्य अनेकार्थध्वनिमञ्जरी, अनेकार्थमञ्जरी, अमरसिंहस्य अमरकोषः (नामलिङ्गानुशासनं नाम), शाश्वतस्य अनेकार्थसमुच्चयः, धनञ्जयस्य नाममाला, पुरुषोत्तमदेवस्य त्रिकाण्डशेषः, हारावलिः, वर्णदेशना, हलायुधस्य अभिधानरत्नमाला, यादवप्रकाशस्य वैजयन्तीकोशः, महेश्वरस्य विश्वप्रकाशकोषः, अजयपालस्य नानार्थसङ्ग्रहः, मेदिनिकरस्य मेदिनीकोषः, मङ्खस्य अनेकार्थकोषः, हेमचन्द्रस्य अभिधानचिन्तामणिः, अनेकार्थसङ्ग्रहः, निघण्टुकोषः, देशीनाममाला च, केशवस्वामिनो नानार्णवसंक्षेपः, केशवस्य कल्पद्रुकोषः, शाहस्य शाहरत्नसमन्वयकोषः, हर्षकीर्तेः शारदीयाभिधानमाला च । एवमेव शब्दकल्पद्रुमः, सुखानन्दनाथस्य शब्दार्थचिन्तामणिः, तारानाथतर्कवाचस्पतेः वाचस्पत्यम्, तारानाथस्य शब्दस्तोममहानिधिः, रायबोथलिकयोः संस्कृतकोषः, वामनसदाशिवस्य संस्कृतकोषः, रामावतारस्य वाङ्मयार्णवः, विद्वन्मण्डलसम्पादितो बृहद्वैदिकशब्दकोषः, द्वारकाप्रसादस्य संस्कृतशब्दार्थकौस्तुभः, लोकमणिदाहालस्य मणिसंस्कृतकोषश्च।

शार्ङ्गारिकगीतिकाव्यानि[सम्पादयतु]

शार्ङ्गारिकगीतिकाव्यं प्रायः शृङ्गारवर्णनपरमेव । यद्यपि तत्र सम्भवन्तीतरे प्रसङ्गागताः विषयाः अपि, तथापि तस्य मुख्यं प्रयोजनं तु शृङ्गारजन्यानन्द एव । शार्ङ्गारिकं गीतिकाव्यं दूतकाव्य-प्रस्तुतिकाव्य-स्फुटकाव्यभेदेन त्रिविधं दृश्यते ।

दूतकाव्यानि[सम्पादयतु]

संस्कृतसाहित्ये दूतकाव्यपरम्पराऽतिप्राचीना। काव्यशास्त्रस्याद्याचार्यो भामहो निर्दिशति -

अयुक्तिमद्यथा दूता जलभृन्मारुतेन्दवः

तथा भ्रमरहारीतचक्रवाकशुकादयः।

अवाचोऽयुक्तवाचश्च दूरदेशविचारिणः

कथ दूत्यं प्रपद्येरन् इति युक्त्या न युज्यते।। इति ।

पुराकाले अद्यतनीनपत्रप्रेषणादिव्यवस्था नैवासीत् । तेन दूरदेशस्थाः वियोगिनः स्वावस्थाद्योतकं सन्देशं मेघ-वायु-चन्द्र-काक-शुक-पारावतादिभ्यः कथयित्वाऽपि सन्तोषं कुर्वन्ति स्म । न केवलं काव्येऽपि तु लोकेऽपि पारावतदौत्यघटना काकसन्देशहारिता च कर्णपरम्परया श्रूयते एव । लोकगीतेष्वपि एतादृशं वृत्तं बहुशो दृश्यते । इदमेव लोकवृत्तं काव्ये कवयो वदन्ति चमत्कारिण्या वाण्या । प्रकरणेऽस्मिन् वैदिकमन्त्रा अपि साक्षिणो भवन्ति । अप्रतिरथसूक्ते वायुः अगसैनिकत्वेन प्रयुक्तोऽस्ति । यथोक्तं तत्र -

असौ या सेना मरुतः परेषामभ्येति न ओजसा स्पर्धमाना।

तां गूहत तमसाऽपव्रतेन यथाऽमी अन्योऽन्यं न जानन्।। इति ।

वायुरिन्द्रस्य दूत इति सर्वत्र प्रसिद्धिः । परम्परामिमामनुसरन्ति कवयः काव्येषु कमनीयत्वेन । रामायणे हनुमान् रामेण दौत्ये नियुक्त इति दृश्यते तथैव रावणेन शुकःकुमारसम्भवेऽग्निदौत्येन देवैः प्रहितो रुद्रस्य पार्श्वं गच्छति । महाभारते स्वयमेव श्रीकृष्णः पाण्डवानां दौत्यं करोति । इत्थं प्रचलितामेव परम्परामाश्रित्य तत्र -

यदि चोत्कण्ठया यत्तदुन्मत्त इव भासते।

तथा भवतु भूम्नेदं सुमेधोभिः प्रयुज्यते।।

इति भामहीयकथनमनुसरन् कालिदासो मेघदूतं नाम गीतिकाव्यं प्रणयति । ततश्च प्रवर्तते लौकिकदूतकाव्यपरम्परा। मेघदूतमिन्दुदूतं मनोदूतं पवनदूतं हंसदूतं पिकदूतमित्यादिकाव्यानि कविभिः प्रणीतानि ।

मेघदूतम्[सम्पादयतु]

कालिदासस्य उज्जयिनीविशेषपक्षपातिनो मेघदूतं नाम गीतिकाव्यं स्वप्रकृत्यन्यकाव्यानि नितान्तमतिशेते । कथं मेघो हि निश्चेतनो दौत्ये प्रयुक्त इत्याकाङ्क्षानिवारणाय सः प्रथममेव कथयति -

धूमज्योतिः सलिलमरुतां सन्निपातः क्व मेघः, सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः। इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे, कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु।। २ ।।

मेघदूतकाव्यं पूर्वोत्तरभागयोः विभक्तम् । पूर्वभागे मिता उत्तर भागे मिता इति कृत्वा समष्ट्या १२१ मितश्लोकाः सन्त्यत्र । किन्तु सङ्ख्यैषा नैव निर्विवादा। मल्लिनाथेन १२१ मिताः, पूरणसरस्वतिना ११० मिताः, वल्लभदेवेन १११ मिताः, दक्षिणावर्तनायेन ११० मिताः, भरतसेनेन ११४ मिताः श्लोकाः अस्य व्याख्याता दृश्यन्ते।

काव्यमिदं कालिदासस्य मनोज्ञतमा कृतिः यत् कविना स्वीयैः हार्दिकभावैः पूरितम् । एतत् कवेः मानवहृदयगतभावानां समाध्ययनस्य साक्षित्वेनास्ति । अत्र मानवहृदयं प्राकृतिकवस्तुना सह सम्बद्धं तथा कल्पितं यत्र न लेशमात्रमपि शङ्कावसरः। काव्येऽस्मिन् व्यवहृता मन्दाक्रान्ता क्षेमेन्द्रेणेत्थं प्रशस्यते -

सुयशा कालिदासस्य मन्दाक्रान्ता विराजते ।

सदश्वदमकस्येव काम्बोजतुरगाङ्गना।।[१] इति ।

कुबेरस्य वर्षभोग्येन शापेन रामगिरं परिव्राजितो यक्षः प्रावृट्काले गिरिशिखरं मेघाच्छन्नं दृष्ट्वा कान्तास्मृत्या विह्वलश्चेतनाचेतनेषु प्रकृतिकृपणः सन् प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी मेघद्वारेण प्रियायै सन्देशं हारयिष्यंस्तं सम्पूज्य नवैः पुष्पैः कथयितुमुपक्रमते । तत्कथने प्रथमं स मार्गनिर्देशनं करोति येन मेघेन गन्तव्यम् । तत्क्रमे क्रमेण माल-आम्रकट-नर्मदा-दशर्ण-विदिशा-वेत्रवती-नीलगिरि-निर्विन्ध्या-सिन्धु-अवन्ति-विशाला-उज्जयिनी-शिप्रा-गम्भीरा-देवगिरि-चर्मण्वती-दशपुर-ब्रह्मावर्त-कुरुक्षेत्र-सरस्वती-कनखल-गङ्गानदी-हिमालय-क्रौञ्चरन्ध्र-कैलाश-मानससरोवर-अलकाश्च निर्दिष्टाः।

उत्तरभागे यक्षः अलकां वर्णयति परिचययति च स्वगेहं स्वप्रेयस्याः परिचयनिमित्तकलक्षणान्यपि कथयति । ततश्च कथयति सन्देशम् । सन्देशे स प्रथमं स्वीयां विरहजनितावस्थां निर्वर्ण्य तदनु स कथयति यत्मा नैवोद्विग्ना भवितुमर्हति । तत आरभ्य चतुर्मासानन्तरं तयोः संयोगोऽवश्यम्भावी। सोऽपि तच्चिन्तयैव कथमपि कृच्छादेव दिनानि यापयन्नस्ति । सुखदुःखचक्रं तु सततं भ्रमणशीलमेवेति।

इदं विचिन्तयन्ति समालोचका यन्मेघदूतस्याधारेणावश्यमेव कवेः स्वकीयजीवनेन सह सम्बन्धेन भाव्यम् । तदनुसारेण नितान्तमसम्बद्धे विषये न कोऽपि तथा भावमग्नो भवति। प्रियतमाया वियोगेन यदा कश्चिद्भावमग्नो भवति, तदैव तथा कश्चिदपि विचिन्तयितुं प्रभवति । वियोगस्य तथाविधकाष्ठा, भावानामुत्कटता प्रेम्णस्तन्मयता च यन्मेघदूते दृश्यते तेनावश्यमेवानुभूतेन भाव्यम् । झ्दमपि निश्चेतुं शक्यते यत्तदा कालिदासः उज्जयिनीतः विप्रकृष्टदेशे वसन्नासीत् । प्रेम्ण इयमेवोपनिषद् यत्संयोगापेक्षया विप्रयोग एव तस्य प्राकर्ष्यं वर्धते । उक्तमेव धर्मकीर्तिना -

सङ्गमविरहविकल्पे वरमिह विरहो न सङ्गमस्तस्याः।

सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे ॥ इति ।

यक्षोऽपि सर्वत्र प्रियामयमेव पश्यति । तस्य हि -

त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-

मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम्।

अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालप्यते मे

क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः॥[२]

इति कथनेन को नाम सहृदयो न भावार्द्रहृदयो भवति । कथ्यते हि तदा कालिदासः केनाऽपि कार्येण उज्जयिनीतो दूरदेशे राज्ञा प्रेषितः सम्भवति, सम्भवति च कुन्तलेषु । तदा हि प्रावृषि प्रियाविरहेण तप्तहृदयः स उज्जयिनीस्थितां स्वां प्रियां विचिन्त्य काव्यमिदं कृतवानित्यपि । केचिदस्य बीजं रामायणे विचिन्वन्ती । यथाऽऽह मल्लिनाथोऽपि – 'सीतां प्रति रामस्य हनुमत्सन्देशं मनसि निधाय मेघसन्देशं कविः कृतवानिति आहुः' इति। ब्रह्मवैवर्तपुराणे आषाढकृष्णस्य योगिन्येकादशीव्रतप्रसङ्गे कुबेरस्य यक्षं प्रति वर्षभोग्यस्य शापस्योल्लेखो दृश्यते, किन्तु कालिदासब्रह्मवैवर्तपुराणयोः पौर्वापर्यं सम्प्रत्यपि अनिर्णीतमेव । सम्भवति कविना मानवेतरदूत्यकल्पना महाभारतस्य नलोपायख्याने हंसदूत्याद्गृहीतमपि भवेत्किन्तु काव्यस्वरूपं कवेः नितान्तमेव मौकिलमविच्छिन्नञ्च । स कथयति स्वयमेव -

मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः ।

कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ।।[३] इति ।

तेन विद्वांसः तु मेघदूतस्य बीजमपि कालिदासे एव पश्यन्ति । सः अन्योक्त्या स्वस्यैव भावातिरेकमुद्गिरति इत्यपि मन्यन्ते। इदमपि सम्भवति यत्स काव्यप्रणयनकाले कुन्तलेष्वासीत् । यतो हि -

मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो-

र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु।

पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां

मुक्तास्थूलास्तरुकिसलयेष्वभुलेशाः पतन्ति।।

इति कथनं कथं नाम परकीयं वा परोपदिष्टं सम्भवति । कवेरत्र या प्रकृत्या सह तादात्म्यानुभूतिर्वर्णिता साऽपि तथैव सङ्केतयति । स केन चेतसा कथितवानिदम् -

काले काले भवति भवतो यस्य संयोगमेत्य

स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ।

तस्य वर्णननैपुण्यं कन्नाम नाकर्षति । यथा हि -

त्वय्यायत्तं कृषिफलमिति भूविलासानभिज्ञैः

प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।। इति ।

केचिदत्र मेघं कामं महाकालं तन्नियन्तारं यक्षमात्मानं तत्प्रेयसीं परमात्मानं कल्पयित्वा अक्षरब्रह्मसाक्षात्कार एव कवेरत्राभिप्राय इत्यपि विचिन्तयन्ति । केचित्तु तत्कोमलया मानवभावनया सह पण्डितैः कृतं महान्तमन्यायमेव चिन्तयन्ति। सर्वत्र दर्शनस्य परुषं बीजं पश्यन्त केचन पण्डिता नैव सहृदयकथनाहः । मेघदूतं केवलं मानवचेतसोः कमनीयो विलासो न तु दर्शनभारवाहोऽपि । अत्र तु कविः स्वमन्तर्भावं काव्ये प्रकटयति कामं कश्चिदत्र किमपि पश्यतु । काव्यस्यास्य सन्ति पञ्चाशदधिकाष्टीकाः । तासु मल्लिनाथस्य प्राचीनासु शेषराजरेग्मीमहोदयस्य नवीनासु प्रसिद्धा ।

कालिदासस्य रसकवेः स्थितिकालमादाय पण्डिता नैकमत्यं भजन्ते । विषयेऽस्मिन् प्राधान्येन समालोचकाश्चतुर्धा विभक्ताः सन्ति - विक्रमानन्तरसप्तमशतकवादिनः, विक्रमानन्तरचतुर्थशतकवादिनः, विक्रमसमकालवादिनः, विक्रमपूर्वकालवादिनश्च । तेषु हि प्रथमपक्षधराः रघुवंशचतुर्थसर्गगतं रघुकृतं हूणविजयं यशोवर्मणा कृतेन हूणविजयेन सह सन्तुल्य कालिदासं ६०१ मितवैकमाब्दानन्तरभवं मन्यन्ते । तेषु फर्ग्युसनोऽग्रणीः। तदनुसारं तत्कालीनेनोज्जयिनीनरेशेन श्रीहर्षविक्रमादित्येन संवत्सरं नवीनं प्रवर्त्य प्राचीनतासिद्धये ६०० वर्षपूर्वमवसारितमिति। किन्तु मतमिदं निर्मूलं निकृष्टतमञ्च मन्यते। ततोऽपि पूर्वमेव मालववर्षगणना यत्र तत्राभिलेखेषु दृश्यते । कालिदासाश्रयत्वेन सम्मतः विक्रमादित्यो मालवगणाध्यक्ष एवेत्यपि स्पष्टमेव ।

कुमारगुप्ते पृथिवीं प्रशासति...मालवानां गणस्थित्या याते शतचतुष्टये। त्रिणवत्यधिकेऽब्दानामृतौ सेव्यघनस्तने॥' इति बन्धुवर्मणो मन्दसौरस्थितात् शिलाभिलेखाद्वत्सभट्टिप्रणीताज्ज्ञायते । अपरञ्च, द्वितीयस्य पुलकेशिनः ऐहोलाभिलेखे कालिदासो भारविपूर्ववर्ती ख्यातयशस्कश्च कथितः । तस्याभिलेखस्य कालस्तत्रैव...षटसु पञ्चशतासु च । समासु समतीतासु शकानामपि भूभुजाम् ।।३४॥” इति दत्तः । स च कालः ६४१ मितवैक्रमाब्दसमो भवति, यतो हि मालवाब्दगणनातः १३५ वर्षानन्तरमेव शकाब्दगणना प्रारब्धा । यदि कालिदासः श्रीहर्षसभासद्भवेत्तदा कथं तस्य तदा ख्यातयशस्कत्वम् । तेन कथनमिदमन्तरीक्षभवनमेव मन्यते। ये खलु कालिदासं वैक्रमचतुर्थशतकीनं मन्यन्ते तेऽपि तथ्यमिदं विस्मरन्ति वोपेक्षन्ते यत्समुद्रगुप्तः स्वकीये कृष्णचरिते कालिदासमश्वघोषादपि पूर्ववर्तित्वेन स्मरति । तत्कथं नाम स तत्पौत्रस्य स्कन्दगुप्तस्य समकालिको भवेत् । अपरञ्च, कालिदासः पाण्ड्योऽयमंसार्पितलम्बहार इति पाण्ड्यराज्यस्यावस्थितिं स्मरति, तथैव साकेतं सर्वसम्प्रभुराज्यत्वेन । किन्तु गुप्तकाले उभयोरेव स्थितिविपरीता दृश्यते । साकेतस्तु मगधसाम्राज्यस्य प्रान्त एवासीत्तदा । एवमेव पाण्डवस्यापि । यथा च रघुकृतो हूणविजयप्रश्नस्तत्र तु स्पष्टमेव निर्दिष्टं यद्रघुणा भारताद्बहिरेव गत्वा हूणविजयः कृत इति ‘पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना' इति कथनात् मन्यते। इदमितिहाससिद्धं यत्ख्रीस्तपूर्वद्वितीयशतकमभितो हुणाः पामीरस्य पूर्वोत्तरप्रदेशे सङ्घटिता आसन्निति । कालिदासोऽपि तत्रैव तेषामवस्थितिं वर्णयति । ५७५ मितवैक्रमाब्दमभितस्तु हूणाः भारतभूमावेवोपस्थिता आसन् । नैतावन्मात्रमपि तु मालविकाग्निमित्रेण अग्निमित्रपुत्रेण वसुरातेन अनुसन्धु हूणाः पराजिता इत्यपि स स्मरति । तेन कालिदासस्तदाऽऽसीद्यदा हूणा हि भारतमुख्यभूमौ नैव प्रविष्टा आसन् । स्थितिरियं विक्रमसमकालीनमेव सम्भवति । ये खलु कालिदासीयं भारतं गुप्तकाले एव सम्भवि मन्यन्ते तेऽपि कपोलकल्पनाशीला एव मन्यते, यतो हि शुङ्गकाले भारतस्य यादृशी समृद्धिरासीत्सा नैव कदापि जातेति भारतेतिहास एव साक्षी । सः स्पष्टमेव पुष्यमित्रस्याश्वमेधं स्मरति, स्मरति पुष्यमित्रं तत्प्राचीनपदेन सेनापतिना इति स्पष्टमेव तस्मान्नातिपरवर्तित्वं तस्य सिध्यति । अतः द्वितीयमतसमर्थकः अपि परास्ताः मन्यन्ते ।

ये तृतीयमतसमर्थकास्ते तथ्यस्य सन्निधिं स्पृशन्ति इति मन्यते। वस्तुतः कालिदासः विक्रमसमकालिको वा तस्मान्नातिपूर्ववर्ती । समुद्रगुप्तः तमश्वघोषपूर्ववर्तिनं मन्यते, मन्यते च शूद्रकस्य राज्ञः सभापण्डितत्वं तस्य । मृच्छकटिकाज्ज्ञायते यच्छूद्रकः दशदिनसहितं शताब्दं सक्रियं जीवनं व्यत्याय्य पुत्रे राज्यं निवेश्य तपोवनं गतः (अग्निं प्रविष्टः) इति । केचिदत्रापि 'अग्नि प्रविष्टः' इत्यस्य वह्निप्रवेशेनात्मानं घातितवानिति दुरुह्य न कोऽपि स्वनिधनमुद्घोषयितुं समर्थ इति मत्वातच्छ्लोकमेव प्रक्षिप्तं वा प्रकरणमेवेतरकविप्रणीतमपि मन्यन्ते। किन्तु न तदभीष्टं ग्रन्थे । अग्नि प्रविष्टः इत्यस्यार्थस्तु राजदण्डं त्यक्त्वाऽग्निं जग्राह इत्येव । इमामेव कथां कालिदासो विक्रमोर्वशीये स्मरति - 'रम्भे, उपनीयतां स्वयं महेन्द्रेण सम्भृतः कुमारस्यायुषो यौवराज्याभिषेकः' इति कथनेन । अपरञ्च कालिदासः परमशैव आसीद्गुप्तमहीपतयस्तु परमभागवताः। शुद्रकस्तु परमशैव एव 'ज्ञात्वा शर्वप्रसादात्' इति कथनेन । शुद्रकः शकान् जित्वा विक्रमादित्योपाधिं धारितवानिति समुद्रगुप्तः कथयति कृष्णचरिते। ऐतिहासिकाः शुद्रकस्य २७ वर्षपूर्वं स्थितिं मन्यन्ते भाण्डारकरप्रमुखाः । स्कन्दपुराणेऽपि शूद्रकविक्रमादित्ययोः २७ वर्षमितकालपौर्वापर्यं कथितम् । तेन तयोरेकव्यक्तित्वमपि न तथा विरुद्धम् । अमरकोषटीकायां क्षीरस्वामी -

...विक्रमादित्यः साहसाङ्कः शशाङ्कः ।

शूद्रकस्त्वग्निमित्रो वा हालः स्याच्छालिवाहनः।।

इति विक्रमादित्यशूद्रकौ पृथक्पृथगेव स्मरति ।

सत्यपि तथा कालिदासः प्रथमं शूद्रकस्य पश्चाच्च विक्रमस्यापि राजकविः सम्भवत्येव । यदि कालिदासः गुप्तकालीनः स्यात्तदा सः पाटलिपुत्रं 'नेत्रोत्सवं पुष्पपुराङ्गनानां' इत्येतावदेव नैव स्मरेत् । यथा उज्जयिनी वर्णिता तथैव पुष्पपुरमपि चित्रितं भवेत् ।

मन्यते यदग्निमित्रस्थितिकाल एव कालिदासस्थितिकालस्य पूर्वसीमा विक्रमादित्यस्थितिकालस्य एव तस्य स्थितिकालस्यावरसीमा । एतावत्तु निश्चितमेव यत्सूर्यवंश्यनृपाणां चरितगायकः कथमपि चन्द्रवंश्यनृपाणामाश्रये स्थितो नैव सम्भवति । तस्य कथमपि सूर्यवंश्यानामेव आश्रयग्रहणं सिध्यति । केचिद्धि कालिदासमश्वघोषपवर्तिनं मन्यन्ते, किन्तु कालिदासयशोलुब्धेन अश्वघोषेण काव्यार्थं संस्कृतमाश्रितं प्राकृतं विहायेति । विक्रमादित्यस्य महेन्द्रादित्यतनयस्य परमारवंश्यस्य सूर्यवंशीयत्वेन शैवत्वेन च तस्य कालिदासाश्रयत्वं चन्द्रवंश्यवैष्णवमतानुयायिगुप्तवंश्यनृपापेक्षया प्रामाणिकं मन्यते।

पश्चाद्वर्तिसाहित्ये मेघदूतस्य प्रभावः स्पष्टमेव लक्ष्यते । एतदनुकृत्य बहवो हि काव्यग्रन्थाः प्रणीताः । तदनुकरणमपि द्विविधं दृश्यते रूपानुकरणं भावानुकरणञ्च । रूपानुकरणे मेघदूतगतपद्यानामेकां वा एकाधिकां पङ्क्तिं गृहीत्वाऽवशिष्टभागः स्वकीयपद्येन पूर्यते । जिनसेनस्य पार्श्वाभ्युदयः, विक्रमकवेर्नेमिदूतञ्चास्योदाहरणम् । भावानुकरणे भावमात्रमनुक्रियते न तु शब्दावल्यपि । पवनदूतप्रभृतयोऽस्योदाहरणानि ।

घटकप्रकाव्यम्[सम्पादयतु]

विक्रमादित्यस्य रत्नेषु अन्यतमः - उज्जैनी

अज्ञातविशेषपरिचयस्य घटकर्पराख्यस्य कृतित्वेन सम्मतं यत्र कुत्र तु कालिदासस्यैव कृतित्वेनापि गृहीतं घटकर्पराख्यं काव्यं मेघदूतस्य भावानुकरणेन प्रणीतं तद्विपरीतकाव्यम् । अत्र काचित्सद्यः परिणीता किन्तु दैवाद्विप्रकृष्टस्थपतिका युवतिः स्वं प्रियं मेघद्वारेव सन्देशं प्रेषयति । अत्र केवलं द्वाविंशच्छ्लोकाः । प्रतिश्लोकमत्र यमकस्य चमत्कारः। उक्तञ्च तत्र स्वयमेव कविना -

आलम्ब्य चाम्बुतृषितः करकोशपेयं भावानुरक्तवनितासुरतैः शपेयम् ।

जीयेय येन कविना यमकेन तेन तस्मै वहेयमुदकं घटख-(क)-र्परेण ॥ इति ।

कवेरस्यैतिह्यं न मनागपि ज्ञातम् । एतावदेवोच्यते तद्विषये यत्स विक्रमादित्यस्य नवरत्नेष्वेक आसीत् । ग्रन्थस्यास्य सन्त्यष्टाधिकाष्टीका यासु महामाहेश्वराभिनवगुप्तप्रणीताप्येका कुलकवृत्तिसंज्ञिता। कथ्यते यत्स हि काव्यमिदं कालिदासप्रणीतमेव मन्यते । निभाल्यतामस्य यमकच्छटा -

किं कृपाऽपि नास्ति कान्तया पाण्डुगण्डपतितालकान्तया।

शोकसागरेऽद्य पातितां त्वद्गुणस्मरणमेव याति ताम्॥ इत्यादौ ।

प्रसङ्गेऽस्मिन् रामशास्त्रिणः मेघप्रतिसन्देशनामकं काव्यमपि स्मर्तव्यं यद्धि मेघदूतमनुकृत्य तत्पूरकत्वेनोपन्यस्तमस्ति । अत्र यक्षी यक्षसन्देशं श्रुत्वा मेघद्वारेव स्वसन्देशमपि तं प्रेषयति । कवेः कल्पनाशक्तिनिभमालनीया दृश्यते ।

पवनदूतम्[सम्पादयतु]

धोयी कविः लक्ष्मणसेनाऽऽख्यस्य वङ्गेशस्य सभाकविरासीत् । तं जयदेवः गीतगोविन्दे 'श्रुतिधरो धोयी कविक्ष्मापतिः'[४] इति स्मरति । लक्ष्मणसेनः १२२६ मितवैक्रमाब्दाभ्यर्णे अङ्गभुवं शशासेति तदाश्रितस्य धोयिनः तन्निकटवर्येव स्थितिकालः ११९०-१२६० मितवैक्रमान्तरालगः । काव्येऽस्मिन् काचिद्गन्धर्वकन्या लक्ष्मणसेनं पवनद्वारेण प्रणयसन्देशं प्रेषयति ।

हंससन्देशः[सम्पादयतु]

काञ्चीपुरीनिवासी १३२५-१४२६ मितवैक्रमाब्दान्तरालस्थितिमान् वेदान्तदेशिको हंससन्देशसंज्ञकं दूतकाव्यं प्रणीतवान् । अत्र हनुमत्कथितसीतावृत्तान्तो रामस्तां हंसद्वारा सन्देशं प्रेषयति । अत्र कतिपयेषां दाक्षिणात्यतीर्थस्थलानामपि वर्णनं लभ्यते । काव्येऽस्मिन् ११० पद्मानि सन्ति । प्रत्येकमेवास्य पद्यं मेघदूतपद्येन सह संवदते भावभाषाप्रस्तुतीकरणदृष्ट्या । ग्रन्थस्यास्य सन्ति बह्वष्टीकाः।

कोकिलसंन्देशः[सम्पादयतु]

१४६० मितवैक्रमाब्दमभितः स्थितिमता तामिलाभिजनेन मालावारनिवासिना केनचिदुद्दण्डाख्येन कविना मेघदूतं भावभाषादिभिरनुकृत्य कोकिलसन्देशनामकं काव्यं प्रणीतमस्ति, यत्र प्रेमी प्रेमिकायै कोकिलद्वारेण सन्देशं प्रेषयति।

प्रस्तुतिकाव्यम्[सम्पादयतु]

प्रस्तुतिकाव्यस्येदमेव लक्षणं यदत्र कश्चिदपि विषयः प्रबन्धरूपेण प्रस्तूयते किन्तु स्वरूपेण महाकाव्यलक्षणं नैव सङ्गृह्णाति ।

ऋतुसंहारम्[सम्पादयतु]

ऋतुसंहार नाम काव्यं षडृतुवर्णनपरम् । अत्र ग्रीष्मत आरभ्य वसन्तपर्यन्तं क्रमेण षडृतवो वर्णिताः सन्ति । अत्र सन्ति षडध्यायाः प्रत्यध्यायमेकर्तुवर्णनञ्च । अत्र समष्टौ १४४ पद्यानि सन्ति । निरूप्यतामस्य शैली -

प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः सदावगाहक्षतवारिसञ्चयः।

दिनान्तरम्योऽभ्युपशान्तमन्मथो निदाघकालोऽयमुपागतः प्रिये॥[५]

अस्य कर्तृत्वमादाय पण्डिता वैमत्यं भजन्ते । केचिद्धि मल्लिनाथस्य -

मल्लिनाथः कविः सोऽयं मन्दात्मानुजिघृक्षया।

व्याचष्टे कालिदासीयं काव्यत्रयमनाकुलम्।।

इत्युक्तिमनुसृत्य ऋतुसंहारं कालिदासस्य कृतिं न मन्यन्ते । ते कथयन्ति यन्मल्लिनाथसदृशेरुच्चस्तरीयटीकाकृद्भिरस्य टीका नैव प्रणीता, नैव च साहित्यशास्त्रिभिरस्यैकमपि पद्यं कुत्रापि समुद्धृतम् । तेन नासौ कालिदासस्य कृतिरिति । अपरे कथयन्ति यत्सत्यपि तथा भावभाषादिदृष्ट्यैषा कृतिः कालिदासीयैव । इतरग्रन्थापेक्षया ग्रन्थस्यास्य सरलतया टीकाकृद्भिर्नौवैष टीकितः । साहित्यशास्त्रिणस्तु सरलग्रन्थेभ्य उद्धरणं कदापि नैव गृह्णन्ति । सन्त्यत्रैतादृशानि लक्षणानि यैरिदं कालिदासीयमेव सूचयन्ति । किन्तु सन्त्यन्येऽपि ग्रन्था एतादृशानि चिह्नानि सन्ति किन्तु ते कालिदासस्य नैव । अपरञ्च ग्रन्थेऽस्मिन् - 'सोऽयं वो विपरीतरीतु वितनुर्भद्रं वसन्तान्वितः'[६] इत्यत्र यदप्रचलितरूपप्रयोगः कृतः तादृशः प्रयोगः कालिदासस्यान्यासु कृतिषु नैवोपलभ्यते । तेन नासौ कालिदासस्य कृतिः । यद्येषा कालिदासस्यैव तर्हि स्यात्कस्यचिदपरस्य कालिदासाख्यस्य कवेरिति विदुषां संहतिः।

शृङ्गारतिलकम्[सम्पादयतु]

शृङ्गारतिलकं नाम एकत्रिंशच्छ्लोकात्मिका कृतिः । अत्र शृङ्गारस्य विविधरूपाणां सजीवं चित्रणमुपलभ्यते । अस्य कतिपयं वैशिष्ट्यम् अस्य कालिदासकृतित्वं समर्थयति । दिङ्मात्रमुदाहरणं यथा -

इन्दीवरेण नयनं मुखमम्बुजेन कुन्देन दन्तमधरं नवपल्लवेन।

अङ्गानि चम्पकदलः स विधाय धाता कान्ते कथं घटितवानुपलेन चेतः॥

झटिति प्रविश गेहे मा बहिस्तिष्ठ कान्ते ग्रहणसमयबेला वर्तते शीतरस्मेः।

तव मुखमकलङ्कं वीक्ष्य नूनं स राहुर्ग्रसति तव मुखेन्दं पूर्णचन्द्रं विहाय॥

इयं व्याधायते बाला भ्रूरस्याः कार्मुकायते।

कटाक्षाश्च शरायन्ते मनो मे हरिणायते॥

कस्तुरीवरपत्रभङ्गनिकरो भ्रष्टो न गण्डस्थले,

नो लुप्तं तव चन्दनं स्तनतटे धौतं न नेत्राञ्जनम्।

रागो न स्खलितस्तवाधरपुटे ताम्बूलसंवर्धितः,

किं रुष्टाऽसि गजेन्द्रमत्तगमने किं वा शिशुस्ते पतिः॥

काव्येऽस्मिन् त्रयोविंशत्पद्यानि लभ्यन्ते सम्प्रति । पण्डितेषु कृतिरियं कालिदासस्यैवेति प्रसिद्धिः, किन्तु न किमपि तत्र प्रमाणम् तथापि अत्रत्या प्रसादगुणसम्पन्नता स्वाभाविकी चोक्तिश्च तथा समर्थयत्यपि । कालिदासस्येतरस्य वाऽपि किं न स्यात्कृतिरियं प्रसादमनोहरा कस्यचिदपि रससिद्धस्यैव कवेरेव।

राक्षसकाव्यम्[सम्पादयतु]

राक्षसकाव्ये विंशतिश्लोकाः सन्ति यत्र प्रमोदवनस्य सजीवं वर्णनमस्ति यत्र कश्चित्प्रेमी प्रेमिकया सह विहरन्नस्ति । कृतिरेषाऽपि कालिदासस्यैवेति पण्डितेषु प्रसिद्धिः, किन्तु न किमपि तथात्वे प्रमाणम् । यत्र यत्र हि प्रसादमनोहरत्वं रसवत्त्वञ्च तत्र तत्र कालिदासच्छायां पश्यन्ति रथबद्धघोटका इव पण्डिताः । अस्य स्थितिर्न तथोत्कृष्टा ययाऽस्य कालिदासप्रणीतत्वं सिध्यति । अत्र अनुप्रासच्छटा कामं निभालनीया विद्यते ।

पुष्पबाणविलासः[सम्पादयतु]

षड्विंशतिपद्यात्मकं काव्यमिदमपि शृङ्गारवर्णनपरम् । कतिपये विचक्षणाः काव्यमिदमपि कालिदासप्रणीतं मन्यन्ते ।

अमरुशतकम्[सम्पादयतु]

प्रस्तुतिकाव्येऽमरुशतकं नृपायते खलु । अमरुककवेः कृतिरिति ख्याते काव्येऽस्मिन् सन्ति शतानि पद्यानि । अत्र शृङ्गारस्य विविधरूपाणां यथार्थं सजीवञ्च वर्णनं लभ्यते । अस्य चत्वारि संस्करणानि दृश्यन्ते, येषु एकपञ्चाशच्छ्लोका एव साम्यं बिभ्रति।

शृङ्गारशतकम्[सम्पादयतु]

शृङ्गारशतकं भर्तृहरेः कृतित्वेन प्रसिद्धं प्रस्तुतिकाव्यम् । शतकत्रय्यां शृङ्गारशतकमाद्यं हि शतकम् । अत्र रतिर्मानवजीवनस्योपादानविशेषत्वेन वर्णिता । शतकस्यास्य सन्ति बह्वष्टीकाः । शतकेऽस्मिन् सन्ति एकाधिकशतपद्यानि । कवेः शैली प्रसादमाधुर्यप्रोता। अस्य प्रत्येकं पद्यं स्वस्मिन्नेव पूर्णम् । अत्र भाषाभावयोर्मञ्जुलः समन्वयः । अत्र कवित्वं पाण्डित्यञ्च एकीभूय स्थिते दृश्येते ।

चौरपञ्चाशिका[सम्पादयतु]

चौरपञ्चाशिका महाकवेः विह्लणस्य कृतिः । कवेरस्य समयः ११३७ मितवैक्रमाब्दमभितः। कश्चित्कविः नृपसुतायामासक्तो गुप्तरूपेण तया सह रमते । सुतामुपभुक्तां ज्ञात्वा राजा तं मृत्युदण्डेन दण्डनायादिशति । कविरपि मरणात्पूर्वं तामेव स्मृत्वा अकारप्रारब्धपञ्चाशीतिश्लोकग्रथिते काव्यं प्रणयति, दर्शयति च तं राज्ञेऽन्तिमेच्छारूपेण । काव्यस्यास्य मर्मस्पर्शिता पाषाणमपि द्रवयति । राजा च तदृष्ट्वा परमप्रीतस्तं बन्धनान्मोचयित्वा तस्मै सत्कृत्य सुतां प्रयच्छति।

विप्रलम्भशृङ्गारप्राकर्ष्यप्रोतं काव्यमिदं भावभाषयोः मञ्जुलसमन्ययस्योत्कृष्टमुदाहरणम् । निभाल्यतामस्य कमनीयत्वम् -

अद्यापि तां कनककेसरदामगौरीं फुल्लारविन्दनयनां तनुरोमराजीम्।

सुप्तोत्थितां मदनविह्वलितालसाङ्गीं विद्यां प्रमादगलितामिव चिन्तयामि।।

अद्यापि तां प्रणयिनीं मृगशावकाक्षीं पीयूषवर्णकुचकुम्भयुगं वहन्तीम्।

पश्याम्यहं यदि पुनर्दिवसावसाने स्वर्गापवर्गवरराज्यसुखं त्यजामि॥

गीतगोविन्दम्[सम्पादयतु]

गीतगोविन्दं जयदेवस्य कृतिः । जयदेवः वङ्गनरेशस्य लक्ष्मणसेनस्य सभापण्डित आसीत् । तस्य च स्थितिकालः १२२६ मितवैक्रमाब्दमभितः । तेन जयदेवोऽपि १२००-१२८० मितवैक्रमाब्दानभितः स्थितिमान् । उत्कलस्य बिन्दुबिल्वग्रामे तस्य जन्म कथ्यते । सम्प्रति अपि तत्र तत्पुण्यस्मृतौ प्रतिवर्षं समारोह आयोज्यते गीयन्ते च गीतगोविन्दपद्यानि।

गीतगोविन्दं १२ सर्गेषु विभक्तं गीतिकाव्यम् । अत्र नायकस्याचरणानुसारेणाध्यायनाम अक्लेशकेशवः, मुग्धमधुसूदनः इत्यादिः । अत्र राधा-कृष्णयोः प्राञ्जलं प्रेम वर्णितमस्ति । इदमष्टपदीसंज्ञयाऽपि ज्ञायते । अत्र सङ्गीतगानवर्णनभाषणानां सुन्दरसमन्वयो दृश्यते । कथ्यते कृष्णो ब्रह्म राधिका तु जीवात्मा। तेन ह्यत्र ब्रह्मजीवात्मनो नायकनायिकासम्बन्धोऽत्र कल्पितः । शृङ्गारात्मकगीतिकाव्येष्विदं नृपायते।

ग्रन्थस्यास्य सन्ति बह्वष्टीकाः । कथ्यते यदि अननूद्यता खलु उत्कृष्टकाव्यस्य लक्षणं तर्हि तद्गीतगोविन्दमेव । निभाल्यतामस्य भावगाम्भीर्यं भाषामञ्जुलतां च । यथा हि -

'श्रितकमलाकुचमण्डल धृतकुण्डल ए।

कलितललितवनमाल जय जयदेव हरे।।'

'उरसि मुरारेरुपहितहारे घन इव तरलविलोके।

तडिदिव पीते रतिविपरीते रजसि सुकृतविमोके।।'

शृङ्गारकल्लोलः[सम्पादयतु]

शृङ्गारकल्लोलः रामभट्टस्य कृतिः । रामभट्टस्य समयः १६६० मितवैक्रमाब्दमभितोऽनुमितः ।

स्फुटकाव्यानि[सम्पादयतु]

स्फुटकाव्येषु सर्वाण्यपि मुक्तकानि समाविष्टानि भवन्ति । तेन नाऽस्य गणना सम्भवा । सामान्यतः प्रबन्धासम्बद्धकाव्यमेव स्फुटकाव्यम्।

धार्मिकगीतिकाव्यानि[सम्पादयतु]

धार्मिकगीतिकाव्यानामपि सुदीर्घा पङ्क्तिविद्यते । सर्वाण्यपि स्तोत्राण्यस्मिन् समाविष्टानि भवन्ति । शार्ङ्गरिकगीतिकाव्यापेक्षया धार्मिकगीतिकाव्यानां प्रभावोऽधिकतरो जनमानसे । एतानि भक्त्युद्बोधनेन भावविशोधनाय समर्थानि भवन्ति । एतानि बुद्धेर्वैशद्याय कल्पन्ते । काव्यानीमानि प्रायः पद्यमयानि कानिचित्तु गद्यमयान्यपि । एतेषां उत्पत्तिरपि अनादिरेव दृश्यते । ऋग्वेदस्य 'अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ।' इत्यारभ्य प्रवर्तितेयं काव्यपरम्परा साम्प्रतिकयुगेऽपि तथैव विलसन्ती दृश्यते । समग्रमेव वैदिकसाहित्यं सङ्गीतमयं दृश्यते । सन्त्यनेकानि शतकानि, विविधानि महिम्नः स्तोत्राणि, अनेकानि पञ्चकानि, अष्टकानि, दशकानि, पञ्चाशतानि, सहस्रकाणि च येषां सङ्ख्याऽपि ग्रहीतुं नैव शक्या किमुत वर्णनम् । तानि तत्र तत्र स्तोत्ररत्नाकरप्रभृतिसङ्ग्रहग्रन्थेषु द्रष्टव्यानि ।


श्यामलादण्डकम्[सम्पादयतु]

स्तुतिकाव्यमिदं कालिदासप्रणीतत्वेन सम्मतम् । अत्र श्यामादेवी स्तुताऽस्ति

गण्डिस्तोत्रगाथा[सम्पादयतु]

अश्वघोषस्य कृतावस्यां धार्मिकसंवादो दर्शितः ।

कल्याणमन्दिरस्तोत्रम्[सम्पादयतु]

सिद्धसेनदिवाकर-( ५६० वै० )-प्रणीते स्तोत्रेऽस्मिन् जैनतीर्थङ्कराणां स्तुतिः विद्यते ।

चण्डीशतकम्[सम्पादयतु]

बाणभट्ट-( ६६० वै० )-प्रणीते स्तोत्रेऽस्मिन् भगवती चण्डी शतमितैः पद्यैः स्तुताऽस्ति ।

सूर्यशतकम्[सम्पादयतु]

मयूराख्येन (६३०-७०० वै०) कविना प्रणीते स्तोत्रेऽस्मिन् भगवान् सहस्ररश्मिः सादरं स्तुतोऽस्ति शतमितपद्यैः । कथ्यते मयूरो बाणभट्टस्य श्वसुरो वा ज्येष्ठश्यालक आसीत् । स एकदा पुत्र्याः वा भगिन्या गृहं गत आसीत् । बहिः स्थितः स रात्रौ दम्पत्योः प्रणयकलहं श्रुतवान् । तामनुलालयता बाणेनोक्तं तत्र -

गतप्राया रात्रिः कृशतनु शशी शीर्यत इव प्रदीपोऽयं निद्रावशमुपगतो धूर्णित इव ।

प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो

उक्तं प्रयतमानोऽपि बाणश्चतुर्थं चरणं नैव पूरयितुमशकत् । तदेव पुनः पुनः कथयन्नेव स्थितः । एतच्छ्रुत्वा उबुद्धभावो मयूरः कुत्रास्मीति विस्मृत्य चतुर्थं चरणमित्थमुक्तवान् -

'कुचप्रत्यासक्त्या हृदयमपि ते चण्डि कठिनम्॥' इति ।

प्रणयकलहविघ्नाज्जातमन्युर्बाणपत्नी स क इत्यविचिन्त्यैव तं 'कुष्ठाक्रान्तो भव' इति शशापेति एका परम्परा । अपरजनश्रुत्यनुसारं तु प्रणयकलहविघ्नेन जातमन्युर्बाणो बहिरागत्य तं 'कुष्ठाक्रान्तो भव' इति शशाप । निरर्थकशापेन क्रुद्धः सोऽपि बाणं 'क्षयरोगाक्रान्तो भव' इति शशाप । ततश्च जातपश्चात्तापौ तौ परस्परमाशिषा संयोजयामासुः । अथ च कुण्ठाक्रान्तो मयूरः सूर्यशतकं प्रणीय तत्प्रसादान्मुक्तरोगो बभूव, बाणश्च चण्डीश निर्मायेति ।।

काव्यस्यास्य सन्त्येकादशाधिकाष्टीकाः । तासु वल्लभदेवकृता सूर्यान्वादिनी प्राचीनतमा ।।

सौन्दर्यलहरी[सम्पादयतु]

शङ्कराचार्यस्य ६८९ मितवैक्रमाब्दमभितः स्थितिमानित्यनुमितस्य सौन्दर्यलहरी स्तोत्रकाननेन पुष्पायते । स्तोत्रमिदं शाक्तपरम्परापोखः । शङ्करश्च ब्रह्मसूत्रभाष्ये शाक्तागमस्य प्रामाणिकत्वं खण्डयतीति ग्रन्थस्यास्य तत्कर्तकत्वं ससन्देहमिति केचिद्वदन्ति । धार्मिकगीतिकाव्येष्वस्य काव्यस्य महत्त्वपूर्ण स्थानम् ।।

त्रिपुरामहिम्नः स्तोत्रम्[सम्पादयतु]

स्तोत्रमिदमपि शङ्कराचार्य कृतित्वेन प्रसिद्धम् । अत्र हि दशमहाविद्यास्वेका त्रिपुरा स्तुताऽस्ति ।।

मुकुन्दमाला[सम्पादयतु]

वैष्णवेषु लोकप्रियमिदं गीतिकाव्यं कुलशेखरप्रणीतम् । कुलशेखरो हि विक्रमस्याष्टमशतके केरलान् शासति स्म । केचिद्वासुदेवमस्यैव सभाकवि कथयन्ति । काव्यस्यास्य शैली परिष्कृता प्राञ्जला च ।

पञ्चशती[सम्पादयतु]

मूककवे कृतित्वेन ख्यातमिदं काव्यं रचनासौष्ठवेऽद्वितीयस् । अत्र हि पञ्चशतमितश्लोकैर्देवी स्तूयते । कविरसौ शङ्कराचार्य समकालीन इति पण्डिता बदन्ति । असौ काञ्चीनिवासी।

शिवमहिम्नः स्तोत्रम्[सम्पादयतु]

पुष्पदन्तप्रणीतमिदं शिवमहिम्नः स्तोत्रं स्तोत्रराजत्वेन प्रसिद्धम् । अ भगवान् शिवः सर्वतोभावेन स्तुतोऽस्ति । पुष्पदन्तस्य स्थानस्थितिकाला। सम्प्रत्यपि अज्ञातमेव । केचिदमु काश्मीर वैक्रमनवमशतकभवं मन्यन्त केचित्तु कविममुं विक्रमादपि सुदूर पूर्ववतनमामनन्ति । श्लोकाश्चास्य श्रुत कल्पा इति केषाञ्चिन्मतम् । परिष्कृतशैल्यां भावगाम्भीर्येण प्रणीतमिदं का सर्वत्र संस्तुतम् । अत्र वृत्तं शिखरिणी अन्त्यभागे वृत्तान्तरमपि । निभा तामस्य काव्यच्छटा -

"मधुस्फीता वाचः परमममृतं निर्मितवतः| स्तव ब्रह्मन् कि वापि सुगुरोविस्मयपदम् ।

मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽस्मिन् पुरमथनबुद्धिवसिता ।।"

“असितगिरिसमं स्यात्कज्जलं सिन्धुपात्र

सुरतरुवरपाखा लेखनी पत्रमुर्गी ! लिखति यदि गृहीत्वा शारदा सर्व कालं

तदपि तव गुणानामीश पारं न याति ।" काव्यस्यास्य मधुसूदनप्रणीता हरिहरपक्षीया टीका प्रसिद्धा । तथैव लोकमणिदाहालस्य हरपक्षीया टीका च बालाख्या ।

वक्रोक्तिपञ्चाशिका[सम्पादयतु]

इयं हि रत्नाकरस्य कवेः कृतिः । वक्रोक्तिप्रदर्शक काव्यमिदं गौरी शिवसंवादात्मकम् । निभाल्यतामस्य काव्यसुषमाम् ।।

“त्वं हालाहलमृत्करोषि मनसो मूच्छ ममालिङ्गितो हालां नैव बिभर्मि नैव च हलं मुग्धे कथं हालिकः । सत्य हालिकतैव ते समुचिता सक्तस्य' गोवाहने

वक्रोक्त्येति जितो हिमाद्रिसुतया मेरी हरः पातु वः ।। रत्नाकरो हि ८५०-९४० मितवैक्रमादानभितः स्थितिमानिति तु अवन्तिवर्मणः समकालिकत्वेन ज्ञायते ।।

देवीशतकम्[सम्पादयतु]

आनन्दवर्धनस्य (९०७ वै० ) कृतिरिय काव्यात्मकतया नितान्तमेवोत्कृष्टम् । अत्र शब्दालङ्काराणां छटा दर्शनीयाऽस्ति ।। १३. स्तोत्ररत्नम् । विष्णस्तुतिसम्बद्धं पञ्चषष्टिमितश्लोकात्मकं काव्यमिदं यामुनाचार्यस्य कृतित्वेन प्रसिद्धम् । इदं हि भावानामनुभुतेरुत्कृष्टतया सर्वोत्कृष्ट मलम । अस्यैव चतुःश्लोकी अपि प्रसिद्धा लक्ष्मीस्तवनपरा चतुःश्लोकात्मिका। यामुनाचार्यस्य स्थितिकालो हि १०७० मितवैक्रमाब्दमभितोऽनुमितः ।

गद्यत्रयम्[सम्पादयतु]

रामानुजप्रणीते गद्यये शरणागति-वैकुण्ठ-श्रीरङ्गाख्यानि श्रीणि गावे सन्ति । अस्य हि कालः १०७२-११८२ मितर्वक्रमाब्दान्तराले । ।

पञ्चस्तवः[सम्पादयतु]

श्रीवत्सास्य पञ्चस्तवः उत्कृष्टतमः स्तुतिकाव्येषु गण्यते । अब हिं श्री-अतिमानुष-वरदराज-सुन्दरबाहु-वैकुण्ठस्तवाः सन्ति ।।

कृष्णकर्णामृतम्[सम्पादयतु]

कृष्णलीलांशुकाख्यस्य बिल्वमङ्गलस्य कृतित्वेन ख्यातमिदं काव्यं त्रिषु विभागेषु विभक्तम् । अत्र सन्ति ३१० सङ्ख्याकश्लोकाः । चैतन्यान्दोलनस्योत्पत्तौ विकासे चास्य महान् प्रभावः ।

पादुकासहस्रम्[सम्पादयतु]

पादुकासहस्रं वेदान्तदेशिकस्य (१३२५-१४२६ वै० ) कृतिः । तस्य सन्ति पञ्चविंशतिमितानि गीतिकाव्यानि । पादुकासहस्रं सहस्रश्लोकैः रामपादुका स्तुताऽस्ति । रचनादृष्ट्या काव्यमिदं सर्वोत्कृष्टमतीव सरसम् । अस्य अच्युतशतकमपि तथैव ।

वरदराजस्तवः[सम्पादयतु]

अप्पयदीक्षितस्य ( १६११-१६८३ वै० ) काञ्चीनिवासिनो वरदराजस्तवोऽपि काव्यस्यौत्कर्षमावहति । अत्र शतं पद्यानि सन्ति । अस्योपरि ग्रन्थकर्तुरेव स्वोपज्ञा टीकाऽपि वर्तते ।

नारायणीयम्[सम्पादयतु]

केरलवास्तव्यो नारायणभट्टोऽस्य प्रणेता प्रणयनकालश्च १६४२ मितवैक्रमाब्दः । नारायणीयं भागवतस्य सङ्क्षेपः । अत्र द्वादशस्कन्धाः १०३६ श्लोकाश्च । ग्रन्थोऽयं मालावारादिप्रदेशे बहुमतः ।

आनन्दमन्दाकिनी[सम्पादयतु]

मधुसूदनस्य ( १६५० वै० ) कृतित्वेन ख्यातमिदं काव्यं श्रीकृष्णस्य नखशिखवर्णनपरम्।

गङ्गालहरी[सम्पादयतु]

पण्डितराजस्य जगन्नाथस्य ( १६४७-१७२२ वै० ) गङ्गालहरी गङ्गायाः स्तवनपरा । सन्त्यत्र ५२ श्लोकाः। अस्यैवं सुधालहरी सूर्यस्तुतिपरा ३० श्लोकात्मिका, यमुनास्तवपरा दशश्लोकात्मिका अमृतलहरी, अन्वर्थनाम्नी एकचत्वारिंशच्छलोकनिबद्धा लक्ष्मीलही, विष्णस्तवनपरा ४३ पद्यात्मिका करुणालहरी च । काव्यानीमानि भावभाादृष्ट्या उत्कृष्टानि ।

आनन्दसागरस्तवः[सम्पादयतु]

नीलकण्ठदीक्षितस्य ( १७०७ वै० ) आनन्दसागरस्तवः पार्वतीस्तवनपरः । अस्यैव शिवोत्कर्षमञ्जरी च । उभेऽपि काव्ये भावभाषादिदृष्ट्या उत्कृष्टे ।

लक्ष्मीसहस्रम्[सम्पादयतु]

वेङ्कटाध्वरिणः (१७०७ वै०) कृतित्वेन प्रसिद्धेऽस्मिन् काव्ये लक्ष्मीः विष्णुश्च स्तूयेते । अत्र सहस्रं पद्यानि सन्ति । कवेः कल्पनाऽतीवोत्कृष्टा । अतीवकठिनमिदं काव्यं प्रयत्नसाध्यमपि सरसमेव ।

देवमहिम्नः स्तोत्रम्[सम्पादयतु]

लोकमणिदाहालस्य कृतित्वेन ख्यातमिदं काव्यं चत्वारिंशत्पद्यात्मकम् । काव्येऽस्मिन् देव्याः सर्वतोमुखी महिमा वर्णिताऽस्ति शिखरिणीवृत्ते । अस्यैव सूर्यमहिम्नः स्तोत्रमपि तथैव।

नीतिकाव्यानि[सम्पादयतु]

नीत्युपदेशकाव्यानि[सम्पादयतु]

नीतिपरकाव्यं हि अनुभवसिद्धतथ्ये समाधृतं भवति । सामान्यतः तानि आचारसम्बद्धविषयं वर्णयन्ति । तथैवोपदेशात्मककाव्यानि उपदेशपराणि । किन्त्वेतयोर्मार्ग विभेदोन सुकरो यतो हि एकस्मिन्नपरस्य सन्निवेशोऽपरिहार्यः ।

नीतिपरकाणां वोपदेशपरकाणाञ्च काव्यानामतिप्राचीनकालादेवास्तित्वमासीत्। एतेषां हि विकासे धर्मस्य दर्शनस्य च सुस्पष्टः प्रभावो लक्ष्यते । पुनःपुनर्जन्ममरणकष्टाज्जीवात्मनो मुक्त्यर्थं सत्यान्वेषणेच्छा समुद्भूता। प्रसङ्गेऽस्मिन् सुखदुःखयोरध्ययनं विहितं जीवने तयोः स्थानञ्च निर्धारितम् । सद्गुणदुर्गुणयोर्मूल्यमपि निर्धारितम् । जीवनस्य भव्यत्वमभव्यत्वञ्चविधारितम् । भव्याभव्यजनस्य लक्षणमपि पठितम् । सदाचारदुराचारविषयाश्च निर्धारिताः । एते एव विषया एतादृशे काव्ये सन्निवेशिताः । एतानि काव्यानि मानवजीवनस्य सर्वतो विकासाय प्रयतन्ते खलु । मनुष्येण सफलजीवनयापनाय किं कर्तव्यमिति विषय उपदेशपरककाव्यानाम् । एतादृशानि काव्न्य पि कानिचिद्धर्मसम्बद्धानि अन्यानि कानिचिदर्थपराणि, कानिचित्तु कामपाणि, इतराणि मोक्षपराग्यपि। किन्तु सर्वत्र सर्वेषामेव समष्टित्वमपि नैव खण्डितम् । धर्माविरुद्धेनार्थोपार्जनमर्थाविरुद्धेन कामोपभोग एव तत्र तत्र वणतः । एवमेव सर्वाविरुद्धेन मोक्षसिद्धिश्च । सज्जनपूजा, दुष्टनिन्दा, न्यायः शीलमार्जव सत्यं धर्मश्चेषां नित्यसन्देशः । काव्यानीमानि सदाचारै बलं ददति ।

। गीतिकाव्यमिव नीतिकाव्यमपि बहुविधम् । एषामधिकांश भागः पद्यम यत्र कुत्र गद्यमयश्च । एकस्माच्छ्लोकादारभ्य बहूनां श्लोकानामपि तत्र संस्थितिः ।। | वेदेषु ब्राह्मणग्रन्थेषुपनिषत्सु पुराणेषु रामायणे महाभारते च सन्त्येता। दृशानि काव्यानि सङ्ग्रहीभूय स्थितानि । ऋग्वेद उपदिशति

‘अक्षर्मा दोव्याः कृषिमित्कृषस्व ‘इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय कदाचन ।'

‘इहैव स्तं मा व्ययौष्ठं विश्वमायुर्व्यस्तवम् । | क्रीडन्तौ पुत्रपौत्रीभिर्मोदमानौ स्वके गृहे ।'

एतादृशानां काव्यानां सङ्ग्रहरूपेणोपस्थितः सर्वप्रथमो ग्रन्थश्चाणक्य शतकमेव । अर्थतेषां सङ्क्षेपेण परिचय उपस्थाप्यते ।।

चाणक्यशतकम्[सम्पादयतु]

चाणक्यशतकं हि चाणक्यनाम्ना विदुषा प्रणीतत्वेन ख्यातेऽस्मिन्नीतिकाव्ये सन्ति ३४० मिताः श्लोकाः । अत्र हि सामान्येन आचारविषयकपक्षस्य समावेशः । यथाऽनुमीयते ग्रन्थस्यास्य सङ्ग्रहीता कश्चिदपर एवं कविने तु। चाणक्यः । सैव स्थितिः राजनीतिसमुच्चयस्य वृद्धचाणकस्य च ।।

नीतिद्विषष्टिका[सम्पादयतु]

एषा हि सुन्दरपाण्ड्यस्य कृतिः । सुन्दरपाण्ड्यो हि मधुराया निवासी कथितः । तस्य स्थितिकालः ५६० मितवैक्रमाब्दमभितोऽनुमितः कश्चित् । अरिकेसरिराजशासनेष्वयं पाण्ड्यराज्यव्यवस्थापको मतः । यदि तथा त्वस्य स्थितिकालो नृपविक्रमार्गादपि पूर्ववर्ती सम्पद्यते । कालिदाससमय पाण्डवानां ख्यातिरासीत् । अत्र हि ११६ मिताः श्लोकाः सन्ति । निर्देशकाः । यथा हि| सह वसंतामप्यसतां जलरुहजलवद्भवत्यसंश्लेषः । दूरेऽपि सतां वसतां प्रीतिः कुमुदेन्दुवहुवति ।

अन्त्ये च कथितमस्ति

इमां काञ्चनपीठस्थ समेत्य कवयो भवि। आर्या सुन्दरपाण्ड्यस्य स्नापयन्ति वधुमिव ।।

एतदतिरिक्तमपि तस्यासज्ये ग्रन्थाः किन्तु सम्प्रति ते नैव लभ्यन्ते।

(६६० वै० ) छन्दोविचिते सुन्दरपाण्ड्यस्य एका पङ्क्तिमुद्धरति ।

एवमेव कुमारिलः शङ्कराचार्यश्च ।।

बोधिचर्यावतारः[सम्पादयतु]

शान्तिदेवस्य ( ६५८ वै० ) कृतित्वेन ख्याते काव्येऽस्मिन् बोधिसत्व

यानि निरूपितानि सन्ति । अत्र हि मनुष्यमात्रेण सह प्रेमभावो निर्दिष्टः । शिक्षासमुच्चयः सूत्रसमुचयश्चास्यैव ग्रन्थौ पूर्वापेक्षयाऽल्पमहत्त्व। ४.

नीतिशतकम्, वैराग्यशतकम्[सम्पादयतु]

भर्तहरेः शतकत्रयेषु द्वितीयमिदं नीतिशतकम् । अत्र हि जीवनोपयोगिनीतयः सङ्कलिताः सन्ति। तृतीय वैराग्यशतकमपि अस्यैव कृतिः । उभयोरेव प्रत्येकं शतं यद्यानामस्ति । नीतिशतके हि नीति-रीति-सदाचार-धैर्य-शौर्यसाहसौदार्य-परोपकाराद्यनेकविषयाः सप्रपञ्चं निरूपिताः एकाधिकशतश्लोकेषु । यथा हि

मनसि वचसि काये पुण्यपीयूषपूर्णाः

त्रिभुवनमुपकारश्रेणिभिः प्रणयन्तः । परगुणपरमाणुनु पर्वतीकृत्य नित्यं

| निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ।। वैराग्यशतकं तु कवेः सर्वस्वमेव । तत्र स सांसारिकबन्धनमोक्षाय वैराग्याश्रयणमुपदिशति । यथा हि

। । न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये। स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपाजितः । नारीपीनपयोधरोरुयुगल स्वप्नेऽपि नालिङ्गितं मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ व्याघ्रीव तिष्ठति जरा परितर्जयन्ती

| रोगाश्च शत्रव इव प्रहरन्ति देहम् ।

आयुः परिस्रवति भिन्नघटादिवाम्भो ।

लोकस्तथाप्यहितमाचरतीति चित्रम् ।। क्वचिद्वीणावाचं क्वचिदपि च हाहेति रुदितं

। क्वचिद् विद्वगोष्ठी क्वचिदपि सुरामतकलहः। क्वचिद्रामा रम्या क्वचिदपि गलत्कुष्ठवपुषो।

न जाने संसारः किममृतमयः कि विषमयः ।। कजयमालक्ष्य समालोचकाः कथयन्ति यत्काव्यप्रतिभायाः वानिक। संह यादृशोऽनन्यः प्रसङ्गोऽत्र दृश्यते न तथा क्वचिदप्यन्यति । पश्यतां

त्य वैचलण्यम -

मही रम्या शय्या विपुलमुपधानं भुजलता वितानं चाकाशं ब्यजनमनुकूलोऽयमनिलः । शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितः

सुखी शान्तः शेते मुनिरतनुभूतिर्नुप इव ॥ इत्यादि ।

मोहमुद्गरः[सम्पादयतु]

शङ्कराचार्यस्य कृतित्वेन ख्यातं काव्यमिदं सांसारिकविषयं त्यक्त्वा मायाजालच्छेदनाय मार्गमुपदिशति । सन्त्यन्येऽपि शङ्कराचार्यकृतित्वेन सम्मता ग्रन्था यत्र हि दार्शनिको भावः स्पष्टमेव व्यज्यते ।

कुट्टिनीमतम्[सम्पादयतु]

कुट्टिनीमतं हि दामोदरगुप्तस्य कृतिः। कविरसौ काश्मीरस्य जयारीडस्य ( ८३६-८७० वै० ) राजसभासत् । यथोक्तं राजतरङ्गिण्याम्--

। तं दामोदरगुप्ताख्यं कुट्टिनीमतकारिणम् ।। कवि कवि बलिरिव धूर्यं धीसचिवं व्यधात् ।। ग्रन्थेऽस्मिन् ९७० श्लोकाः सम्प्रति लभ्यन्ते । ग्रन्थोऽयमपूर्ण एवं । इदं हि शम्मलीमतमित्यप्युच्यते । अत्र वेश्यानां कृते शिक्षासहिता सङ्कलिताऽस्ति । कथं हि वेश्या पुरुषं मोहयेत्कथं वा ततोऽधिकमर्जयेदित्यत्र सप्रपञ्चं निरूपितम् । अस्य हि बहवः श्लोकाः सुभाषितग्रन्थेषु समुद्धता दृश्यन्ते । क्षेमेन्द्रः कविकण्ठाभरणे मम्मटश्च काव्यप्रकाशे कुट्टिनीमतश्लोकानुद्धरतः ।। अस्य काव्यसरणिः स्वगौरवं पुष्णाति वर्णनाचातुर्या । यथा हि

‘अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ।। अलमलमालि मृणालैरिति वदति दिवानिशं बाला ।।' 'आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म । स्वाधीनता च पुंसां महदैश्वर्यं विनाऽप्यथैः ॥'

सुभाषितरत्नसन्दोहः[सम्पादयतु]

काव्यमिदं कविवरस्यामितगतिनाम्ना ख्यातस्य । इदं हि १०५१ मितवैक्रमाब्दे प्रणीतमासीत् । अस्यैवापरो ग्रन्थो धर्मपरीक्षनाम । प्रथमे ३२ मिताअध्याया यत्र जैनसाधूनामाचारव्यवहारविषया उपदिष्टाः । द्वितीये सनातनधर्मापेक्षया जैनधर्मस्योत्कर्षः प्रतिपादितः सप्रपञ्चम् ।।

चारुचर्या इत्यादि[सम्पादयतु]

चारुचर्या, चतुर्वर्गसङ्ग्रहः, सेव्यसेवकोपदेशः, समयमातृका, कलाविलासः, दर्पदलनम् क्षेमेन्द्रो हि काश्मीरजन्मा महाकविः ११०७ मितवैक्रमाब्दाभ्यणें स्थितिमान् नीतिविषयकाणि उपदेशपराणि काव्यान्यपि प्रणीतवानासीत् । अस्य हि चारुचर्या शतपद्यात्मिका सद्व्यवहारनिमित्तकनियमानां सोदाहरप्रतिपादिका। चतुर्वर्गसङ्ग्रहे जीवनोद्देश्यभूतानां धर्मार्थकाममोक्षाणां सिद्धरुपायः प्रदर्शितः । सेव्यसेवकोपदेशे एकषष्टिमितश्लोकाः सन्ति यत्र स्वामिसेवकाभ्यामुभाभ्यामेव व्यङ्ग्यात्मकध्वन्या उपदेशः प्रदत्तोऽस्ति । निरूप्यतामस्य कथननैपुण्यम्

‘भूमिशायी निराहारः शीतवातातपक्षतः ।

मुनिव्रतोऽपि नरकक्लेशमश्नाति सेवकः ॥' इत्यादि। । अस्य समयमातृकाऽष्टास्वध्यायेषु विभक्ता । तत्र साङ्गोपाङ्गं वेश्याप्रपञ्चे वणतमस्ति । एवमेव कलाविलासे दशाध्यायाः सन्ति, यत्र आजीविकाया विविधानि साधनानि वणितानि सन्ति । सहैवात्र मनुष्यकृतानां छलप्रपञ्चानां च वर्णनं लभ्यते । दर्पदलने सन्ति सप्ताध्यायाः । अत्र हि दर्पस्य दूषणं प्रतिपाद्य तन्निराकरणाय सोदाहरणमुपदेशो ग्रथितः । यथोक्तं तत्र

| ‘कुलं वित्तं श्रुतं रूपं शौर्यं दानं तपस्तथा।

प्राधान्येन मनुष्याणां सप्तैते मदहेतवः ॥' इति ।

योगशास्त्रम्[सम्पादयतु]

योगशास्त्रं हि हेमचन्द्राचार्यस्य (११४५-१२२९ वै० ) कृतिः । अत्र हि जैनसाधूनां तपोविधयो जैनानां कर्तव्याणि च निरूपितानि ।।

मुग्धोपदेशः। काश्मीरजनुषा १२०७ मितवैक्रमाब्दमभितः स्थितिमता जल्हणाख्येन विदुषा प्रणीते काव्येऽस्मिन् वेश्यानां छलप्रपञ्चं निरूप्य ततो मोक्षोपायोऽपि वणतः ।।

शान्तिशतकम्[सम्पादयतु]

तिशतकं हि शिल्हणस्य (१२६२ वै० ) काश्मीरस्य कृतिः । भर्तहरेः शतकत्रयीपद्धत्या प्रणीतमिदं काव्यं मानसिकशान्त्युपायान् निदिश्य तत्साधनायोपदिशति । सदुक्तिकर्णामृतेऽस्योद्धरणानि दृश्यन्ते ।

शृङ्गारवैराग्यतरङ्गिणी[सम्पादयतु]

इदं हि सोमप्रभस्य ( १३३३ वै० ) कृतिः । अत्र हि स्त्रीसंसर्गसम्भविदोषानुद्घाटय वैराग्यस्य प्रशंसा कृताऽस्ति ।।

सुभाषितनीवी, वैराग्यपञ्चकम्[सम्पादयतु]

भर्तहरेरेव नीतिशतकपद्धत्यां प्रणीतमिदं काव्यं वेदान्तदेशिकस्य (१३२५-१४२६ वै० ) कृतिः । अत्र हि द्वादश पद्धतयः १४५ सुभाषितश्लो सन्ति । तस्यैव वैराग्यपथके स्वानुभूतवैराग्यस्य रहस्योद्घाटनं कृतमरित

दृष्टान्तशतकम्[सम्पादयतु]

कुसुमदेवाऽऽख्येन विदुषा (१५०० वैक्रमाब्दपूर्वम् ) दृष्टान्तशतकं प्रण। तम् । अत्र हि जीवनसाफल्यायावश्यका आदर्शाः सदृष्टान्तं निरूपित। वल्लभदेवः (१५५५ वै० ) ग्रन्थमिमं स्मरति ।।

नीतिमञ्जरी[सम्पादयतु]

ह्याद्विवेदाख्येन विदुषा १५५१ मितवैक्रमाब्दे प्रणीतायां नीतिमञ्जय नीतिविषयः सप्रपञ्चं निरूपितोऽस्ति । स हि वेदादिभ्योऽपि उदाहरणं गाति ।।

भामिनीविलासः[सम्पादयतु]

पण्डितराजजगन्नाथ-( १६४७-१७२२ वै० )-प्रणीते भामिनीविलासे सन्ति चत्वारो विलासा । तत्र प्रथमो हि अन्योक्तिविलासो यत्र एकाधिकशतश्लोकाः सन्ति । द्वितीयस्तु शृङ्गारविलासो यत्र शतं श्लोकाः सन्ति । तृतीयो हिं करुणविलासी यत्र १९ इलोकाः सन्ति । चतुर्थस्तु शान्तरसविलासो यत्र सन्ति द्वात्रिशच्छ्लोकाः । श्लोका इमे भावेनौजसा च आप्लाविताः सन्ति ।। ग्रन्थेऽस्मिन् कविर्जीवात्मानं शान्तरसावलम्बनाय सन्दिशति ।।

कलिविडम्बनम् इत्यादि[सम्पादयतु]

काव्यानीमानि नीलकण्ठदीक्षितप्रणीतानि । स हि १७०७ मितवैक्रमादमभितः स्थितिमान् । कलिविडम्बने कलियुगघटनोपरि व्यङ्गयप्रधान काव्यम् । यथा हि

“यत्र भार्यागिरो वेदा यत्र धर्मोऽर्थसाधनम् ।

यत्र स्वप्रतिभा मानं तस्मै श्रीकलये नमः ।। | इत्यादि । सभारञ्जनशतके हि सभासद्रजनोपाया वणिताः सन्ति। निभाल्यतामत्र व्यङ्गयोक्तिः

‘जानाते यन्न चन्द्राको जानते यन्न योगिनः ।

जानीते यन्न भर्गोऽपि तज्जानाति कविः स्वयम् ।।' इति । शान्तिविलासे हि ५१ मितश्लोकाः सन्ति । अत्र मानसिक शान्त सप्रपञ्चे निरूपितः । वैराग्यशतके हि वैराग्येन सम्भवी लाभो वर्णितः ।

उपदेशशतकम्[सम्पादयतु]

गुमानिकवेः कर्माचलीयस्य उपदेशशतके मानवजीवनसम्बद्धोपदेश शतमितश्लोकाः सन्ति । कवेरस्य समयः वैक्रमाष्टादशशतकपूर्वाद्धोऽनु

पाऽनुमितः ।

सुभाषितकौस्तुमः[सम्पादयतु]

वेड्टाध्वरिणः (१७०७ वै० ) सुभाषितकौस्तुभो हि व्यवहारोपयोगिनीतीनामेव सङ्ग्रहः ।

एतानि अन्यान्यानि च नीत्युपदेशपरकाव्यानि सन्ति नयनपथमनोगतान्यपि वा दृष्ट्वाऽप्युपेक्षितानि । तान्यपि क्रमशोऽन्वेष्टव्यानि सन्ति ।।

अन्योक्तिकाव्यानि[सम्पादयतु]

तादृशं काव्यमन्योक्तिकाव्यं भवति यत्र जीवनसम्बद्धतथ्यमन्यमिषेणाप्रत्यक्षतया कथ्यते । एतदेव अन्यापदेशकाव्यमित्यप्युच्यते । संस्कृतवाङ्मये एतादशानामपि काव्यानां नास्त्यभावः । अथाऽत्र कानिचिदन्योक्तिकाव्यान्युपस्थाप्यन्ते ।।

मल्लटशतकम्[सम्पादयतु]

भल्लटशतकं हि अन्योक्तिपरम्परायाः प्रथम काव्यम् । अस्य प्रणेता भल्लटाख्यः कविः । स हि काश्मीरस्य शङ्करबर्मणः (९४३-९५९ वै० ) राजकविरासीत् । तेन तस्य कालः ९१०-९८० मितवैक्रमाब्दान्तरालेऽनुमितः । सरलया रीत्या रसवत्वेन प्रणीतस्यास्य काव्यस्य सन्त्यनेके श्लोकाः सङ्ग्रहग्रन्थादौ समुद्धताः । निरूप्यतामस्य प्रासादिक शैलीम्

'विशालं शाल्मल्या नयनसुभगं वीक्ष्य कुसुम

शुकस्याभूबुद्धिः फलमपि भवेदस्य सदृशम् ।

इति ध्यात्वोपास्तं फलमपि च दैवात्परिणतं

विपाके तुलोऽन्तः सपदि मरुता सोऽप्यपहृतः ।।'

'रज्ज्वा दिशः प्रवितता सलिलं विषेण

पाशैर्मही हुतभुजा ज्वलिता वनान्ताः ।

व्याधाः पदान्यनुसरन्ति गृहीतचापाः ।

के देशमाश्रयतु यूथपतिर्भूगाणाम् ।।' इत्यादि ।

अन्योक्तिमुक्तालता[सम्पादयतु]

काश्मीरस्य हर्षस्य राज्ञः ( ११४६-११५८ वै० ) सभाकविना ११२०१०० मितवैक्रमाब्दान्तरालस्थितिमता शम्भुकविना अन्योक्तिमुक्तालताख्य काव्यं प्रणीतमस्ति । अत्र ह्यन्योक्तिपद्धत्या प्रणीताः १०८ मिताः श्लोकाः सन्ति ।

भामिनीविलासः, अन्यापदेशशतकम्[सम्पादयतु]

पण्डितराजजगन्नाथप्रणीतस्य भामिनीविलासस्य प्रथमो विलासः अन्यापदेशशतकाख्यः । अत्र हि १०१ मिताः श्लोकाः सन्ति । यथा हि -

‘नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् ।।

शाखिनोऽन्ये विराजन्ते छिद्यन्ते चन्दनद्रुमाः ।।

‘कि खलु रत्नैरेतैः किं पुनरभ्रायितेन वपुषा ते ।

सलिलमपि यन्न तावकमर्णव वदनं प्रयाति तृषितानाम् ।। इत्यादि ।

जगन्नाथो हि तैलङ्गब्राह्मणः १६४७-१७२२ मितवैक्रमाब्दानभितः स्थितिमान् ।।

अन्यापदेशशतकम्[सम्पादयतु]

नीलकण्ठदीक्षितेन प्रणीतं हि अन्योक्तिशतकमेतद्विधकाव्येषु नितान्तमुत्कृष्टतमम् । एतद्धि कवेः प्रतिभायाः निदर्शनमेव ।।

वीरेश्वरस्य अन्योक्तिशतकमपि तत्स्तरीयमेव ।। एतान्यन्यान्यपि अन्यापदेशकाव्यानि विलसन्ति संस्कृतवाङ्मये । कश्चिद्धि प्रबुद्धः पिता पण्डितमपि कापथगामिनं सुतं शिशासुरित्थं कथयति -

'शैत्यं नाम गुणस्तवैव सहजः स्वाभाविकी स्वच्छता ।

किं ब्रूमः शुचितां भवन्ति शुचय स्पर्शेन यस्यापरे ।

••••••••••••••••••••• •••त्वं जीवनं जीविनाम् ।

त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धं क्षमः ।।' इति ।

अन्योतेनं केवलं काव्येऽपि तु सामान्यव्यवहारेऽपि महानुपयोगो दृश्यते । ग्रामीणप्रहेलिकादावपि अन्योक्तेः प्राधान्यं दृश्यते । यथा हि--

‘ददाति माता दुहिताऽऽददाति ।। इत्येतस्यार्थः कुम्भान्निःसृतं जलं कमण्डलौ पततीति ।

साङ्ग्रहिककाव्यानि[सम्पादयतु]

साङ्ग्रहिककाव्यानि हि परप्रणीतकाव्यादिभ्यः सुभाषितादीन्यादाय वा शब्दान् गृहीत्वा सम्पादितानि भवन्ति । तानि हि खलु द्विविधानि सुभाषितसङ्ग्रहाः कोषग्रन्थाश्च ।।

सुभाषितसङ्ग्रहाः[सम्पादयतु]

सुभाषितसङ्ग्रहे हि विविधकविविरचितश्लोकानां विषयक्रमेण सङ्ग्रहः कृतो भवति । तादृशा हि श्लोकाः काव्यग्रन्थेभ्यो गीतिकाव्येभ्यः सामान्यसङ्ग्रहेभ्यश्च गृहीता भवन्ति । तादृशोद्धरणे कतिपयेषां कवीनां तत्प्रणीतग्रन्थानाञ्च नामान्यपि स्मृतानि भवन्ति । यद्यपि कतिपये तादृशाः श्लोकाः सम्प्रति समुपलब्धसंस्करणेषु नैवोपलभ्यन्ते तथापि एभ्यः कविग्रन्थादीनां परिचयान्वेषणाय विशेषतः कालनिर्धारणाय सौकर्यं किमपि सञ्जायत एव । सातवाहनस्य गाथासप्तशती, एषु प्रथमो ग्रन्थः । अथैतेषां संक्षेपेण परिचयोऽत्र प्रस्तूयते ।

गाथासप्तशती[सम्पादयतु]

गाथासप्तशती हि हालकविना सङ्ग्रहिता इति प्रसिद्धिः । किन्तु बाण-- भट्टस्तु कृतिमिमां सातवाहनस्येति मन्यते । यथा कथयति सः

‘अविनाशिनमग्राम्यमकरोत्सातवाहनः ।।

विशुद्धजातिभिः कोशं रत्नैरिव सुभाषितैः ।।' इति । अत्र हि सन्ति महाराष्ट्रीलिखिताः सप्तशतश्लोकाः, इलोको इमे शृङ्गारसम्बद्धाः । तत्र प्रवरसेन-मायुराज-हालप्रभृतिकवीनां श्लोकाः गृहीताः सन्ति । सातवाहनो हि शालिवाहन एव । सातवाहनो हि आन्ध्रमृत्यनृपाणां पारिवारिकं नाम । सातवाहनराजानो हि महाराष्ट्रे षोडशमितवैक्रमवर्षादारभ्य २७५ मितवैक्रमवर्षपर्यन्तं सत्तासीना आसन् । वंशेऽस्मिन् हालो नाम राजाप्यासीत्, यो हि विक्रमसमकालीन आसीत् । गाथासप्तशत्यां हालस्यापि सन्ति केचन श्लोकाः उद्धृताः । तेन ग्रन्थस्यास्य सङ्ग्रहो हि वैक्रमद्वितीयशतकपूर्वाद्धे सम्पन्नः सम्भवति । अनेनैव शालिवाहनेन प्रवततः शक्रयुगो १३५ मितवैक्रमवत्सरादारब्धो भवति प्रचलितोऽस्ति च शाकेनाम्ना । प्रायशः ज्योतिषग्रन्थेषु अस्य प्रयोगो दृश्यते । शिलालेखेष्वपि ‘शकानामपि भूभुजाम्' इत्युक्तं दृश्यते ।

कवीन्द्रवचनसमुच्चयः[सम्पादयतु]

अयं हि संस्कृतश्लोकानां प्रथमः सङ्ग्रहः । अत्र हि राजशेखर ( ९५७ वै० ) पर्यन्तानां कवीनां श्लोकाः सङ्गृहीताः सन्ति । तथैवास्य वैक्रमद्वादशशतकोत्तरार्धे नेपालीभाषायामनुवादः कृतो लभ्यते । तेनैवास्य सङ्ग्रहकालो वैक्रमैकादशशतकमभितोऽनुमीयते । सङ्ग्रहेऽस्मिन् ५२५ श्लोकाः समुद्धृताः सन्ति । अत्र ग्रन्थकारनाम तु नैव गृहीतो दृश्यते ।

मानसोल्लासः[सम्पादयतु]

मानसोल्लासश्चालुक्यवंश्यस्य सोमेश्वरभूपस्य ( ११८८ वै० ) कृतिः । अयमेव अभिलषितार्थचिन्तामणिरित्यप्युच्यते । यद्यप्ययं नैव सुभाषितानामेव सङ्ग्रहोऽपि तु निखिलानामेव ज्ञानविभागानोमयं सङ्ग्रहः । अत्र हि सर्वोऽपि विषय उपस्थापितो दृश्यते ।

आर्यासप्तशती[सम्पादयतु]

कृतिरेषा गोवर्धनस्य बङ्गभूपलक्ष्मणसेनसभाकवेः १२२६ मितवैक्रमाब्दभभितः स्थितिमतः । अत्र हि वर्णक्रमेण आर्याच्छन्दोनिबद्धाः शृङ्गारसम्बदा सप्तशतमितश्लोकाः सन्ति ।

दुक्तिकर्णामृतम्[सम्पादयतु]

वटदासात्मजेन श्रीधरदासेन १२६२ मितवैक्रमाब्दमभितः सङ्ग्रहितेऽस्मिन् ग्रन्थे ४४६ कवीनां २३६८ श्लोकाः समुद्धताः सन्ति ।

सूक्तिमुक्तावली[सम्पादयतु]

यादवराजस्य कृष्णाख्यस्य (१३०४-१३१७ वै० ) मन्त्रिणा जल्हणेन १३१४ मितवैक्रमाब्दे सङ्ग्रहितेऽस्मिनु ग्रन्थे २४३ कवीनां २७९० मितइलोकाः समुद्धृताः सन्ति ।

सूक्तिरत्नहारः[सम्पादयतु]

सूक्तिरत्नहारः कलिङ्गरायसूर्यस्य कृतिः । अस्य सङ्ग्रहकालः वैक्रमचतुर्दशशतकोत्तरार्दोऽनुमितः ।।

सुभाषितसुधानिधिः[सम्पादयतु]

१४०७ मितवैक्रमाब्दपर्यन्तं जीवितेन सायणाचार्येण विजयनगरराज्यमन्त्रिणा सङ्ग्रहितेऽस्मिन् ग्रन्ये सर्वेषामेव प्रसिद्धकवीनामुद्धरणानि दत्तानि सन्ति ।

शार्गधरपद्धतिः[सम्पादयतु]

दामोदराख्यस्य सुतेन १४२० मितवैक्रमाब्दमभितः स्थितिमता शार्गधरेण सङ्ग्रहितेऽस्मिन् ग्रन्थे १६३ विभागेषु २६४ कवीनां ४६८९ श्लोकाः समुद्धताः सन्ति । सन्ति तस्यापि स्वप्रणीतश्लोकास्तत्र समावेशिताः ।।

सुभाषितावलिः[सम्पादयतु]

ग्रन्थोऽयं सकलकीतिकवेः । इदं नैव ज्ञातं यत्स स एव जैनविद्वान् सकल कीतिर्यः १५०७ मितवैक्रमाब्दपर्यन्यं जीवित आसीद्वा नेति ।।

प्रसङ्गरत्नावलिः[सम्पादयतु]

पोतवार्यस्य कृतिरियं १५२३ मितवैक्रमाब्दे प्रणीता । अत्र वि विषयकश्लोकानां सङ्ग्रहः कृतोऽस्ति ।

सुभाषितावलिः[सम्पादयतु]

| जोनराजस्य शिष्येण श्रीधरेण १५३७ मितवैक्रमाब्दे सङ्ग्रहिते अन्वेऽस्मिन् । ३८० तोऽप्यधिककवीनां श्लोकाः समुद्धताः सन्ति ।।

सुभाषितावलिः[सम्पादयतु]

१५३० मितवैक्रमाब्दमभितः स्थितिमता वल्लभदेवेन सङ्ग्रहिते ग्रन्थेऽस्मिन् १०१ विभागाः सन्ति, यत्र ३५० कवीनां ३५२७ श्लोकाः समुद्धृताः सन्ति ।

पद्यावली[सम्पादयतु]

कृष्णचैतन्यशिष्येण रूपगोस्वामिना १५६० मितवैक्रमाब्दमभितः स्थितिमता प्रणीतेऽस्मिन् ग्रन्थे कृष्णस्तवनपराः १२५ कवीनां ३८६ श्लोकाः। समुहृताः सन्ति ।।

सूक्तिवारिधिः[सम्पादयतु]

१५६० मितवैक्रमाब्दाभ्यर्णवतिना पेड्ड्भर्टन सङ्ग्रहितोऽयं ग्रन्थः सूक्तिसरिदेव ।

सुभाषितहारावली[सम्पादयतु]

१७६० मितवैक्रमाब्दमभितः स्थितिमतो हरिकवेरस्यां कृतौ पूर्ववर्तीनां समकालीनानाञ्च कवीनां श्लोकाः समुद्धताः सन्ति । तत्र पण्डितराजजगन्नाथप्रणीतश्लोका अपि दृश्यन्ते ।

बुधभूषणम्[सम्पादयतु]

शिवाजीपुत्रेण शम्भुना १७४७ मितवैक्रमाब्दमभितः सङ्ग्रहित ग्रन्थेऽस्मिन् त्रिषु भागेषु ८८३ श्लोका सन्ति ।

पद्यामृततरङ्गिणी[सम्पादयतु]

अज्ञातस्थितिकालस्य हरिभास्करस्य कृतावस्यां सन्ति विविधानि सरसपद्यानि सङ्कलितानि ।

सुभाषितरत्नभाण्डागारः[सम्पादयतु]

ग्रन्थोऽयं शिवदत्तेन सङ्कलितः । अत्र हि सर्वेऽपि कवयः समुद्धता विषयानुसारेण । ग्रन्थेऽस्मिन् एकादशसहस्रलोकाः १६०० लोकोक्तय सन्नि कैलताः । अस्य प्रणयनुकालः २००९ मितवैक्रमाब्दः ।

सूक्तिमुक्तावली[सम्पादयतु]

ग्रन्थोऽयं नरेन्द्रदेवसङ्कलितः । अस्य च प्रणयनकालो वैकमैकविंशतिशतकपूर्वार्द्धः ।

संस्कृतसूक्तिरत्नाकरः[सम्पादयतु]

रामजी उपाध्यायेन २०२५ मितवैक्रमाब्दे सम्पादितेऽस्मिन् ग्रन्थे सन्ति १२६२ सुभाषितानि ।।

एतदतिरिक्तं जर्मनदेशीयविपश्चिता वाटलिकाख्येन ८००० सङ्ख्याकपद्यानां सङ्कलनं कृत्वा जर्मनभाषायां गद्यमयमनुवादञ्च विरचय्य ‘इण्डिशे स्पुखे' नाम्ना ग्रन्थरत्नं प्रकाशितमस्ति ।

कोषग्रन्थाः[सम्पादयतु]

कोषाः सामान्यतो द्विविधाः नानार्थककोषाः पर्यायवाचककोषाश्च । नानार्थककोषेषु एकस्य शब्दस्य एकाधिका अर्था उपस्थाप्यन्ते पर्यायवाचककोषे एकस्यैवार्थस्य वाचकशब्दा निदश्यन्ते । केषुचित्कोषेषु उभय्येव गतिरपि दृश्यते । तत्र हि परिशिष्टरूपेण नानार्थकोषोऽपि प्रस्तूयते । विषयेऽस्मिन् वयं पृथगेव निरूपयिष्यामः ।।

कानिचन खण्डकाव्यानि[सम्पादयतु]

मेघदूतम्
कामसन्देशः
हंससन्देशः
चकोरसन्देशः
मारुतसन्देशः
चातकसन्देशः
कोकिलसन्देश
शुकसन्देशः
नीलकण्ठसन्देशः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  • सुवृत्ततिलके ३।३४
  • २/४७
  • १/३
  • १।४
  • १/१
  • ६।२८
  • "https://sa.wikipedia.org/w/index.php?title=खण्डकाव्यानि&oldid=443607" इत्यस्माद् पुनः प्राप्तिः