अरक्कू

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अरक्कू
Hill Station
Skyline of अरक्कू
Country भारतम्
State आन्ध्रप्रदेशः
District विशाखपट्टणमण्डलम्
Elevation
९११ m
Languages
 • Official तेलुगु
Time zone UTC+5:30 (IST)
PIN
531 149
Telephone code 08936

अरक्कू सानुप्रदेशस्य दृश्यवैभवम् -एतत् अतिप्राचीनम् आदिवासिनाम् वासस्थानमस्ति । अत्र १९ जातीयाः आदिवासिनः १५० मीटरोन्नते प्रदेशे निवसन्ति । निबिडवनप्रदेशे फलवाटिकाः काफीवाटिकाः कौशेय वस्त्रनिर्माणकार्यागाराः दृष्टुं शक्यन्ते । सर्वतः हरितवनं घट्टप्रदेशाः, कन्दराः सुन्दरतया गोचराः भवन्ति । एतम् प्रदेशम् आन्ध्रप्रदेशस्य ऊटी इति कथयन्ति ।अत्र अनेक- चलनचित्राणां चित्रिकरणं कृतवन्तः ।

काफीवाटिका

अत्र निवसतां आदिवासिनां जीवनक्रमः वचनं वक्षालङ्काराः वेषभूषणं नर्तनं सर्वं च विशिष्टम् अस्ति । आन्ध्रप्रदेशस्य जानपादाध्ययनकर्तॄणाम् उत्तमं स्थानमस्ति । देशीयाः विदेशीयाः च अत्र बहवः आगच्छन्ति । राज्यसर्वकारस्य प्रवासव्यवस्था अस्ति ।

मार्गः[सम्पादयतु]

विशाखपट्टणतः ११५ कि.मी । तथापि घट्टप्रदेशे गमनार्थं ५ घण्टाः आवश्यकाः भवन्ति । दर्शनाय नवम्बरमासतः जनवरीमासं यावत् उत्तमकालः । ४० कि.मी प्रदेशे पुन्नामिकुटीराणि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=अरक्कू&oldid=405190" इत्यस्माद् प्रतिप्राप्तम्