अल्मोडामण्डलम्
अल्मोडामण्डलम् Almora District | |
---|---|
अल्मोडा जिला | |
अल्मोडामण्डलस्य धारानौलास्थलस्य दृश्यम् | |
देशः | भारतम् |
राज्यम् | उत्तराखण्डः |
उपमण्डलानि | अल्मोडा, भिंक्यासैण, चौखुटिया, द्वाराहाट, जैन्ति, रानीखेत, सोमेश्वर, सल्ट, भनौलि |
विस्तारः | ३,६८७ च. कि.मी. |
जनसङ्ख्या(२०११) | १७,४४,००० |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
साक्षरता | ८०.४७% |
भाषाः | कुमाँउनी, गढवाली, हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४९% |
Website | almora.nic.in |
अल्मोडामण्डलम् ( ( शृणु) /ˈəlmoʊdɑːməndələm/) (हिन्दी: अल्मोडा जिला, आङ्ग्ल: Almora District) उत्तराखण्डराज्यस्य कुमाऊंविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अल्मोडा इति नगरम् । अल्मोडामण्डलं हस्तकला-भोजन-वन्यजीवनादिभ्यः प्रख्यातमस्ति ।
भौगोलिकम्
[सम्पादयतु]अल्मोडामण्डलस्य विस्तारः ३,६८७ च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य मध्यभागे इदं मण्डलमस्ति । अस्योत्तरदिशि उत्तराखण्डराज्यस्य द्वे मण्डले स्तः । ते क्रमेण बागेश्वर-चमोलीमण्डले । अस्य दक्षिणदिशि नैनितालमण्डलं, पूर्वदिशि चम्पावतमण्डलं, पश्चिमदिशि पौरीगढवालमण्डलम् अस्ति । अस्मिन् मण्डले ५०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले चतस्रः नद्यः प्रवहन्ति । ताः यथा - कोची, सुयाल, रामगङ्गा, चौखुतिया ।
जनसङ्ख्या
[सम्पादयतु]अल्मोडामण्डलस्य जनसङ्ख्या(२०११) १७,४४,००० अस्ति । अत्र २,९१,०८१ पुरुषाः, ३,३१,४२५ स्त्रियः, ८०,०८२ बालकाः (४१,६७२ बालकाः, ३८,४१० बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ६.१७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३३ अस्ति । अत्र साक्षरता ८०.४७% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८९.२०% स्त्री - ६०.५६% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- १ अल्मोडा २ भिकियासैण ३ चौखुटिया ४ द्वाराहाट ५ जैन्ती ६ रानीखेत ७ सोमेश्वर ८ सल्ट ९ भनोली ।
वीक्षणीयस्थलानि
[सम्पादयतु]कैञ्ची-गरमपानी-मानिलादेवीमन्दिर-कसारदेवीमन्दिर-कालीमठ-'अल्मोडा के किले'-सिमतोला-मोहनजाशीपार्क-कोसिमन्दिर-जूलादेवीमन्दिर-तरिखेत-चिलैनौला-चौखुटिया-बिसारमहादेवमनदिरेत्यादीनि स्थानानि वीक्षणीयानि सन्ति ।
कैञ्ची
[सम्पादयतु]अत्र हनुमतः भव्यमन्दिरमस्ति । ‘जून’-मासस्य पञ्चदशे दिनाङ्केऽत्र उत्सवः भवति । नवरात्रदिनेष्वत्र विशेषपूजा भवति । एतत् ऐतिहासिकं स्थलमपि अस्ति ।
मानिलादेवीमन्दिरम्
[सम्पादयतु]१४८८ तमे वर्षे कत्यूरीवंशीयस्य सारङ्गनामकराज्ञः लखनपुरे शासनमासीत् । सः दुर्गे स्वकुलदेव्याः मन्दिरं निर्मापितवान् । तत् मानिलादेवीमन्दिरम् इति नाम्ना प्रसिद्धमस्ति ।
अल्मोडा के किले
[सम्पादयतु]अल्मोडा-नगरस्य पूर्वदिशि खगमरा-नामकः दुर्गः अस्ति । कत्यूरीवंशीयराज्ञः शासनकाले निर्मित एषः दुर्गः वीक्षणीयः अस्ति ।
नन्दादेवीमन्दिरम्
[सम्पादयतु]नन्दादेवी पार्वत्याः स्वरूपमस्ति । गढवालवंशस्य कुलदेवी एषा । भाद्रपदमासेऽत्र उत्सवः भवति । मन्दिरस्य शान्तवातावरणं मुख्याकर्षणमस्ति ।
बागेश्वरमण्डलम्, चमोलीमण्डलम् | ||||
पौरीगढवालमण्डलम् | चम्पावतमण्डलम् | |||
अल्मोडामण्डलम् | ||||
नैनितालमण्डलम् |
बाह्यानुबन्धः
[सम्पादयतु]http://www.euttaranchal.com/uttaranchal/almora.php
http://dcalm.uk.gov.in/ Archived २०१४-०२-०८ at the Wayback Machine