बागेश्वरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बागेश्वरमण्डलम्
मण्डलम्
बागेश्वरस्य विहङ्गमदृश्यम्
बागेश्वरस्य विहङ्गमदृश्यम्
Nickname(s): 
Bageshwar District
देशः  भारतम्
राज्यम् उत्तराखण्डः
उपमण्डलानि बागेश्वर, कपकोट, गरूड, काण्डा
विस्तारः १,६९६ च. कि.मी.
जनसङ्ख्या(२०११) २,५९,८९८
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ८०.०१%
भाषाः कुमाँउनी, गढवाली, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://bageshwar.nic.in/

बागेश्वरमण्डलम् ( /ˈbɑːɡɛɪʃvərəməndələm/) (हिन्दी: बागेश्वर जिला, आङ्ग्ल: Bageshwar District) उत्तराखण्डराज्यस्य कुमाऊंविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति बागेश्वर इति नगरम् । बागेश्वरमण्डलम् ऐतिहासिकसंस्कृतेः, पौराणिकसंस्कृतेः च प्रतीकः अस्ति । अस्य मण्डलस्य उल्लेखः पुराणेषु प्राप्यते । अस्य मण्डलस्य रचना १५/९/१९९७ दिनाङ्के अभूत् ।

भौगोलिकम्[सम्पादयतु]

बागेश्वरमण्डलस्य विस्तारः १,६९६ च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य दक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि पिथौरागढमण्डलं, दक्षिणदिशि अल्मोडामण्डलं, पश्चिमदिशि चमोलीमण्डलं, पूर्वदिशि पिथौरागढमण्डलम् अस्ति । अस्मिन् मण्डले तिस्रः नद्यः प्रवहन्ति । ताः यथा - सरयू, गङ्गा, गोमती च ।

कृषिः वाणिज्यं च[सम्पादयतु]

अत्र तण्डुलाः, गोधूमः, यवः, ‘मक्का’, ‘मण्डुवा’, ‘सांवा’ इत्यादीनाम् अन्नानाम् उत्पादनं भवति । सूपेषु चणकम्, 'उडद', 'मसूर', 'मटर', 'कुत्थी', 'राजमा', 'सोयाबीन' इत्यादीनाम् उत्पादनं भवति । अत्र तिलः, इक्षुः, कलायः (Groundnuts, मुङ्गफली), पलाण्डुः इत्यादीनामपि उत्पादनं भवति ।

जनसङ्ख्या[सम्पादयतु]

बागेश्वरमण्डलस्य जनसङ्ख्या(२०११) २,५९,८९८ अस्ति । अत्र १,२४,३२६ पुरुषाः, १,३५,५७२ स्त्रियः, ३५,५६० बालकाः (१८,६७९ बालकाः, १६,८८१ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ११६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ११६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ४.१८% आसीत् । अत्र पुं-स्त्री अनुपातः १०९०-११०६ अस्ति । अत्र साक्षरता ८०.०१% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८९.२०% स्त्री - ६०.५६% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि यथा - १ बागेश्वर २ कपकोट ३ गरूड ४ काण्डा ।

वीक्षणीयस्थलानि[सम्पादयतु]

चण्डिकामन्दिर-श्रीहरुमन्दिर-काण्डा-विजयपुर-'सुन्दरधुङ्गा ग्लेसीयर्'-पाण्डिस्थल-नीलापर्वतित्यादीनि वीक्षणीयस्थलानि सन्ति ।

बागनाथमन्दिरम्[सम्पादयतु]

बागेश्वर-उपमण्डले स्थितमेतच्छिवमन्दिरं प्राकृतिकसौन्दर्येण परिपूर्णमस्ति । भक्ताः आस्थया तत्र दर्शनाय गच्छन्त्येव, पर्यटकाः अपि प्राकृतिकसौन्दर्यं द्रष्टुं गच्छन्ति तत्र । गोमती-सरयूनद्योः तीरे स्थितमेतन्मन्दिरं पौराणिकं मन्दिरमस्ति । बागनाथमन्दिरस्य संस्कृतभाषायां व्याघ्रेश्वर इति नाम मन्दिरस्यास्य । अस्य वागीश्वर इत्यपि नामान्तरमस्ति । स्कन्दपुराणे व्याघ्रेश्वरस्य उल्लेखः प्राप्यते । अत्र सरयूनामिका पवित्रा या नदी वहति, तस्याः नद्याः तीरे राम-भरद्वाज-मार्कण्डेयाः तपः आचरन्ति स्म । व्याघ्रेश्वरमन्दिरस्य स्थापनसल्लग्ना एका कथा वर्तते । स्कन्दपुराणानुसारं वसिष्ठर्षिः स्वपितुः (ब्रह्मणः) आज्ञया पतितपावनीं सरयूं नीत्वा हिमालयं गच्छन् आसीत् । तत्र मार्गे मार्कण्डेयर्षिः तपरतः आसीत् । अतः सरयूनद्याः प्रवाहः अवरूद्धः । मार्कण्डेयर्षेः तपभङ्गः यदि स्यात्, तर्हि विपदा उद्भविष्यतीति विचिन्त्य वसिष्ठर्षिः मार्गदर्शनार्थं शिवोपासनां प्रारभत । सरयूनद्याः मार्गप्रशस्तकरणाय मार्कण्डेयर्षेः तपभङ्गः आवश्यकः इति चिन्तयन्तौ पार्वतीशिवौ क्रमेण गोः, व्याघ्रस्य च रूपं अधरेताम् । व्याघ्रः गवोपरि आक्रमणम् अकरोत् । पीडावशात् गोः आर्तनादः न्यर्गच्छत्, तं नादं श्रुत्वा मार्कण्डेयर्षेः तपभङ्गोऽभूत् । मार्कण्डेयर्षेः मार्गः प्रशस्ते कृते सति सरयूनद्याः प्रवाहं वसिष्ठर्षिः अग्रे अनयत् ।

वैद्यनाथमन्दिरम्[सम्पादयतु]

गोमतीनद्याः तीरे स्थितमेतन्मन्दिरं बहु प्रख्यातमस्ति । एका ब्राह्मणस्त्रीः एतस्य मन्दिरस्य स्थापनां चकार । मन्दिरस्यास्य नाम्ना ग्रामस्य नामकरणमपि वैद्यनाथग्राम इति अभूत् । काले व्यतीते अपभ्रंशत्वात् अस्य नाम बैजनाथ इति अभूत् । बागनाथमन्दिरात् षड्विंशतिः (२६) कि.मी. दूरे स्थितमस्ति एतन्मन्दिरम् ।

चण्डिकामन्दिरम्[सम्पादयतु]

चण्डिकामातुः भव्यम् एवं सुन्दरमन्दिरं बागेश्वरमन्दिरात् अर्धं कि.मी. दूरेऽस्ति । नवरात्रकाले अत्र विशेषपूजायाः आयोजनं भवति ।

श्रीहरुमन्दिरम्[सम्पादयतु]

बागेश्वरमन्दिरात् पञ्च (५) कि.मी. दूरे स्थितमस्ति श्रीहरुमन्दिरम् । विजयादशम्याः दिने तत्र उत्सवस्यायोजनं भवति । विजयादशमीदिने लक्षशः जनाः तत्र दर्शनार्थं गच्छन्ति ।

बाह्यानुबन्धः[सम्पादयतु]

http://bageshwar.nic.in/

http://www.mapsofindia.com/maps/uttaranchal/districts/bageshwar.htm

"https://sa.wikipedia.org/w/index.php?title=बागेश्वरमण्डलम्&oldid=429853" इत्यस्माद् प्रतिप्राप्तम्