अष्टाध्याय्याः वार्तिककाराः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

अष्टाध्याय्याः वार्तिककाराः स्वग्रन्थमाध्यमेन स्वविचारान् प्रतिपादयन्।

उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते ।

तं ग्रन्थं वार्तिकं प्राहुर्वार्तकज्ञा मनीषिणः ॥'

‘उक्तीनुरुक्तचिन्ता वार्तकम् ।

पाणिनीयाष्टकोपरि अनेकैर्विद्वद्भिरनेके वार्तिकग्रन्थाः प्रणीताः । तत्र बहवोऽज्ञाताश्च, ज्ञातेष्वपि बहवोऽनुपलभ्याश्च सम्प्रति । पूर्वग्रन्थेष्वपि महाभाष्यादिषु तेनैवः ‘अपरे' 'केचित्' इत्यादिगदैस्ते स्मृताः । भाष्यकारोऽपि पञ्चषानेव वार्तिककारान्नामतः स्मरति । ते चकात्यायन-भारद्वाज-सुनागक्रोष्ट्र-बीडव-व्याघ्रयुति-वैयाघ्रपद्या एव । ।

व्याख्या[सम्पादयतु]

वर्तकं नाम सूत्रमधिकृत्य प्रोक्तमुपसूत्रम् । तच्च उक्त विशदयति स्पष्टयति वा, अनुक्त' किन्तु ‘कथनीयं कथयति, दुरुक्त सूक्त करोति च । तेनैव कथितम् -

‘प्रयोजनं संशयनिर्णयौ च व्याख्याविशेषो गुरुलाघवञ्च ।

कृतव्युदासोऽकृतशासनञ्च स वातिको धर्मगुणोऽष्टकश्च ।' इति ।

वार्तिकं हि वाक्य-व्याख्यानसूत्र - भाष्यसूत्र - अनुतन्त्र - अनुस्मृतिप्रभृतिपरपिव्यवहृतं दृश्यते । वाक्यं नाम, एकतिङ् । सूत्रेषु क्रियापदाभावाद्वातिकेषु तभावाच्च तस्य वाक्यत्वम् । यथोक्त मंहाभाष्यप्रदीपे-‘सूत्रव्याख्यानार्थत्वाद्वाक्यानां',[१] 'तुल्यविचारत्वादभाष्ये त्रिसूत्रीं पठित्वा वाक्यं पठितम्-संपुकानामिति[२]। तथैव न्यासे—भाष्यं कात्यायनेन प्रणीतानां ।। वाक्यानां विवरणं पतञ्जलिप्रणीतम् ।' इति । बृत्तिकारा हि वाक्यकारत्वेन । तु शतशः स्मृता बहुत्र । भाष्यादिव्याख्यानग्रन्थाधारत्वाद् व्याख्यानसूत्रमपि वातिकम् । तेनैव. भाष्यसूत्रमपि । तन्त्रं हि शब्दानुशासनं तदनुवतित्वादनुतन्त्रमपि । अनुस्मृतिरपि एवमेव । यथा स्मृतिः सूत्ररूपा व्याकरणस्मृतिस्तदनुवर्तत्वादनुस्मृतिरपि । यथोक्तम्अर्थगत्यर्थःशब्दप्रयोग इति भाष्यसूत्रम् ।' ‘वातकं भाष्यसूत्राणि ।' 'अनुतन्त्रे खल्वपि’::सिद्ध शब्दार्थसम्बन्धे ।' अनुस्मृतौ कारशब्दस्य स्थाने करशब्दः पठ्यते । एषा, भाष्यकारस्य कल्पना न वाक्यकारस्य ।' इत्यादिः । सूत्रवाक्यपदकारास्त्रिमुनिरिति । तत्र सूत्रकारः पाणिनिः, वाक्यकार: कात्यायनः, पदकारः पतञ्जलिः ।। | पाणिनिः खलु सूत्रकारः । तेन हि सूत्रोपदेशकालेऽपि यदि सूत्रातिरिक्तमपि किञ्चित्प्रोक्त तदपि सूत्रेष्वेवान्तर्भावाद्यथा काशिकास्थित सूत्रेषु दृश्यते पाणिनेर्बातिककृत्वं तु नैव सिध्यति । काशिकायां हि कानिचित्सूत्राणि सवार्तकानि दृश्यन्ते । यथा-

टिट्ढाणञ्[३] इति सूत्रे ‘ख्युनाम्' इति पाठः, अध्यायन्यायोद्यावसंहाराधारावायाश्च, इत्यत्र ‘धारावायाः' इति पाठः, आसुयुवविरविलपित्रपिचमश्च' इत्यत्र ‘पिल' इति पाठः, 'लाक्षारोचनाशकलकर्दमाढक्’ इत्यत्र शकलकर्दमान्' इति पाठः, ‘सनीवन्तद्ध भ्रस्जदम्भुश्रिस्वृयूणु भरज्ञपिसनाम्[४] इत्यत्र 'सनितनिपतिदरिद्राणाम्' इति पाठस्वीकारः, इत्यादिः । केचिदिदमपि पाणिनीयमेव मन्यन्ते । केचित्तु तत्काशिकाकारप्रक्षिप्त मन्यन्ते । वस्तुतस्तु एतद्धि स्वयमेवाचार्येण सूत्रव्याख्यानकाले प्रोक्तमिति . मतमेव साधु दृश्यते । ज्ञातेषु च वार्तिककारेषु कात्यो वा कात्यायनी वररुचिः प्रथमः । अथात्र वातककृत्त्वेन प्रसिद्धानामाचार्याणां संक्षिप्त परिचयोऽत्र प्रस्तूयते ।

कात्यो वा कात्यायनो वररुचिः[सम्पादयतु]

संस्कृतसाहित्ये हि कात्यायनवररुचिशब्दौ हि बहुचचितौ। शुक्लयर्जेदस्य माध्यन्दिनीयशाखायाः सर्वानुक्रमसूत्रं प्रतिज्ञासूत्रं अनुवाकसूत्राध्यायः वेदपारायणविधिः, अनश्नपारायाणविधिः श्रौतसूत्रं, शुल्बसूत्रञ्च तिप्रभृतिवैदिकग्रन्थाः, कात्यायनस्मृतिः, पाणिनीयसत्रोपरि वातिकानि, व्यवहारशास्त्र, शालाक्यतन्त्रम् च कात्यायनप्रणीतत्वेन प्रसिद्धा ग्रन्थाः । एवमेव वातिक शास्त्रं, पाणिनीयाष्टकवृत्तिः तैत्तिरीयप्रातिशाख्यव्याख्या, निरुक्तसमुच्चयः, लिङ्गविशेषविधिः, प्रयोगविधिः, कातन्त्रोत्तरार्द्धम्, प्राकृतप्रकाशः, कोशः, उपसर्गसूत्रं, यन्त्रकौमुदी, स्वर्गारोहणकाव्यञ्चेति ग्रन्थाः वररुचिकृतत्वेन प्रसिद्धाः । तत्र केचित् कात्यायनंगोत्राभिधानं मन्यन्ते केचिद् व्यक्तिमपि । केचित्तु कात्यायनपदेन वररुचिपदेन च एकमेव निदष्टं मन्यन्ते । अपरे तु कात्यायना अनेकेऽनेके वररुचयश्चेत्यपि सूचयन्ति । युधिष्ठिरमीमांसकश्चतुर्णा कात्यायनानां द्वयोर्वररुच्योरवस्थिति निदशति । एकश्च कौशिकः कात्यायनः, अपरश्वाङ्गिरसस्तृतीयो हि भार्गवश्चतुर्थश्च द्वयायुष्यायण इति । तथैव वातककार एक वररुचिरपरंश्च निरुक्तसमुच्चयादिकृद् वररुचिः ।

पुरुषोत्तमदेवश्च त्रिकाण्डशेषे कात्यः कात्यायनः, पुनर्वसुः, मेधाजित, | इति वररुचेः पर्यायत्वेनोल्लिखति । कात्यो वा कात्यायनश्चास्य गोत्राभिधानम् । पुनर्वसुरस्य जन्मनक्षत्रम्, मेधाजिदस्य पण्डितसमाजे प्रचलितं नाम, वररुचि- . श्वास्य पितृकृतनाम । स एव श्रुतधर इत्यपि कथ्यते स्म सकृच्छतमात्रस्यधारकत्वात् । स्कन्दपुराणे नागरखण्डे कथितं यद् यज्ञवल्क्यस्य कात्यायनाभिधो वेदसूत्रकर्ता पुत्र आसीद् यस्य वररुचिर्नाम गुणसागरः पुत्र इति । यथा- कात्यायनसुतं प्राप्य वेदसूत्रस्य कारकम् ।[५] तथैव -

कात्यायनाभिधं चैव यज्ञविद्याविचक्षणम् ।

पुत्रो वररुचिर्यस्य बभूव गुणसागरः।।[६]

काथासरित्सागरे वररुचिविषये इत्यमुक्तम् -

वेतसाख्ये पुरे देवस्वामिकरभ्भको भ्रातरावास्ताम् ।।

तयोद्घकस्य इन्द्रदत्तो नामापरश्च व्याडिर्नाम सुतावभूताम् । तौ हि विद्याभिकाक्षिणौस्वामिनं स्कन्द सिषेवाते । प्रसन्नश्च कुमारस्तौ विद्याध्ययनाय पाटलिपुत्रे वर्षाचार्यसकाशाद् गन्तुमादिदेश स्वप्नेः। तौ च तत्र महता प्रयासेन प्राप्त । उपाध्यायेन सकृच्छतंधरं कञ्चिद्वटुमानयतमित्याज्ञप्तौ तौ तदन्वेषणायेतस्ततः भ्रमन्तौ कोशास्त्रीं प्रापतुः । तत्र च अग्निशिखापराभिधानस्य कात्यायनगोत्रस्य सोमदत्तस्य पुत्रं वररुचिमेकश्रुतिधरं लब्ध्वा तन्मातरमामन्त्र्य तेन सह पाटलि- पुत्र प्रतिनिवृत्तौ । ततश्च ते गुरुणाध्यापिताः। तेषु हि वररुचिः सकृच्छतं धारयति स्म, व्याडिश्च द्विः श्रुतमिन्द्रदत्तस्तु त्रिश्रुतमेव । पठत्सु तेषु तत्रैकः पाणिनिनम जडबुद्धिर्वटुरप्याजगाम तत्र । स हि विद्याग्रहणेऽसमर्थः शुश्रूषापरिक्लिष्टो गुरुपत्न्यादिष्टः संस्तपसे हिमालयमगात् । स हि तत्र भगवन्तमाशुतोष , शङ्करं प्रसाद्य तस्मात्सर्वं विद्यामुखं नवव्याकरणं लब्धवान् । प्राप्तविद्यश्च स पाटलिपुत्रं प्रत्यागत्य वादाय वररुचिमाह्वयत । प्रवृत्तेच तयोर्वादे प्रयाताः सप्तवासराः अथाष्टमेऽहनि यदा पाणिनिर्वररुचिना पराजितस्तत्समनन्तरमेव । गगनगतेन महेश्वरेण महाघोरो हुङ्कारः कृतो येन वरुचिः ज्ञातमैन्द्रं व्याकरणं प्रणष्टम् । ततो वररुचिः पराजयखिन्नस्तपसे हिमालयमेवगात् । तपसा तुष्टश्च शम्भुस्तदेव पाणिनीयं शास्त्रं तस्मै अंपि । प्रदश्यं तत्पूर्णीकरणाय तमादिदेश च । शङ्करेच्छानुग्रहाद्वररुचिनी सूत्रसमैर्वातकैः पाणिनीथं शास्त्रं पूर्णीकृतम् । इति । तत्र वररुचिः कात्यायन इत्यपि परिकीर्तितः । यथा -

ततः स मर्त्यवपुषा पुष्पदन्तः परिभ्रमन् ।

नाम्ना वररुचिः किञ्च कात्यायन इति श्रुतः ।।[७] इति। तथैवान्यत्रापि -

वाक्यकारं वररुचि भाष्यकार पतञ्जलिम् ।

पाणिनि सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्।। इति ।

एवञ्च-यः स्वर्गारोहणं कृत्वा स्वर्गमानीतवान् भुवि ।

काव्येन रुचिरेणैवं ख्यातो वररुचिः कविः ।

न केवलं व्याकणं पुपोष दाक्षीसुतस्येरितुवातकैर्यः ।।

काव्येऽपि भूयोऽनुचकारतं वै कात्यायनीऽसौ कविकर्मदक्षः । इत्थं हिं केचन वातिककृत्त्वेन कात्यायनम् परे तु वररुचिमुद्धरन्ति । यथा न्यासे -

भाष्यं कात्यायनेन प्रणीतानां वाक्यानां विवरणं पतञ्जलिप्रणीतम् इति । ऋग्वेदभाष्ये सायणस्तु। 'तस्यैतस्य व्याकरणस्य प्रयोजनविशेषो वररुचिनावातिककारेण दर्शितःरक्षोहागमलध्वसन्देहाः प्रयोजनम् । इति । तदित्थं वातिककाररूपेण कात्यायनस्य वररुचेश्वाचायँरविशेषेण नामग्रहणासमुद्रगुप्तस्य मुनिकविवर्णने -

न केवलं व्याकरणं पुपोष दाक्षीसुतस्येरितवार्तिकैर्येः ।

इत्यादिवचनाच्च कात्यायनो वररुचिरेक एवेति ज्ञायते । स्पष्टज्ञानाय हि क्यमत्र स्कन्दपुराणमेवाश्रयामः । तद्यथा -

याज्ञवल्क्यः -> कात्यायनः -> कात्यायनो वररुचिः -x> वररुचिः ।

याज्ञवल्क्यश्च भगवान् शुक्लयजुर्वेदस्य प्रवक्ता । तस्य पुत्रः कात्यायनो हि मैत्रेयीजः । स हि सर्बानुक्रमसूत्र-कात्यायनपरिशिष्ट-प्रतिज्ञासूत्र-अनुवाकसूत्रश्रौत-धर्म-शुल्वसूत्रादिग्रन्थानां प्रणेता । तस्य हि पुत्रो वररुचिः । कात्यायनः पाणिनिसूत्रोपरि वार्तिक़पाठस्य प्रवक्ता, धातुपाठादीनांप्रवक्ता च । सौत्राश्चुलुम्पादयश्व वाक्यकारीया घातव उदाहोर्याः ‘इति हेमचन्द्रवचनं वार्तिककारस्य धातुपाठप्रवक्तृत्व समर्थयति । तस्यैव स्वर्गारोहणकांव्यं, भ्राजकश्लोका भ्राजानाम कात्यायनप्रणीताः, श्लोकाः ‘इति नागेशवचनात्, छन्दःशास्त्रं, अभिनव माख्यां तथा स्मरणात्, स्मृतिः ‘स्मृतेश्च कर्ता श्लोकानां भ्राजनाम्ना च कारकः इति वचनात्, उभयसारिकाभाणश्च प्रसिद्धाः ग्रन्थाः ।

अपरो हि वररुचिः कात्यायनवररुच्यपेक्षयाऽर्वाचीनः । तस्य हि अष्टाध्यायीवृत्तिः, तैत्तिरीयप्रांतिशाख्यव्याख्या, निरुक्तसमुच्चयः, लिङ्गविशेषनिधिः, प्रयोगविधिः, कातन्त्रीयोत्तरार्द्धम्, प्राकृतप्रकाशः, कोशग्रन्थः, उपसर्गसूत्रम्, यन्त्रकौमुदी चेत्यादिग्रन्थाः प्रसिद्धाः । पूर्वी हि एकश्रुतिधरो वररुचिः कात्यायनः पश्चिमश्च वररुचिहविक्रमसभासद् । वयमत्र कात्यायनवररुचिना सह सम्बद्धाः ।

वररुचेर्हि वार्तिककारस्य कालविषये देशविषये च बहूनि मतान्युपस्थाप्यन्ते। केचित्तं पाणिनिसमकालिकं मन्यन्ते, अपरेतु पाणिनेः द्वित्रशतकपश्चाद्वर्तनम् । विद्वांसः कथासरित्सागरस्मृतकथायामश्रद्धायाः किमपि कारणं नैव पश्यन्ति। यद्यपि सा कथैव किन्तु सर्वा एव कथा कल्पनामूला एव भवन्ति न तु सत्याधृता इति न कोऽपि राजाज्ञा । काचन कथा अपि सत्या भवन्ति, इतिहासस्य कतिपयोऽपिभागः सम्भावनामूलको भवति । कथायां हि भूयानंशोऽर्थवादस्तु भवति किन्तु तत्रापि बीजं तु सत्योद्भूतमेव नितान्तकल्पनामूलाया अनादरा पत्तेः । अत्रापि वयं तथैव चिन्तयामः । अथ कालेन वर्षस्य शिष्यवर्गों महानभू दित्याचंशः सत्य एव, पाटलिपुत्रोत्पत्तिकथा त्वर्थवादः । तेन पाणिनिवररुच्योः । समकालिकत्वं भूम्ना सत्यतां स्पृशति । वररुचिना हि पाणिनीयव्याकरणोदयानन्तरमैन्द्रं व्याकरणं प्रणष्टमिति यत्कथितं तत्र कि नामोसत्यम् । किमेन्द्र हि व्याकरणमेव नासीदथवा पाणिनीयव्याकरणोदयानन्तरं तस्य कुत्र हि स्थितिदृश्यते ? वररुचिना हि शङ्कराज्ञया पाणिनीयं व्याकरणं पूर्णीकृतंमिति . कथने कोऽर्थवादः । वर्तकानि खलु तह किनिमित्तानि ? स्वयमेव महाभाष्यकारः कथयति-

‘इह किञ्चिदक्रियमाणं चोच्यते किञ्चिच्च क्रियमाणं प्रत्याख्यायते'।[८] तत्र कैयटाचार्यः - ‘अबुधबोधनार्थं तु किञ्चिद्ववचनेन प्रतिपाद्यते । न्यायव्युत्पादनार्थं चाचार्यः • किञ्चित्प्रत्याचष्टे । न हि अत्रैकः पन्थाः समाश्रीयते ।[९]

उक्तमेव -

यद्विस्मृतमदृष्टं वा सूत्रकारेण तत्स्फुटम् ।

वाक्यकारो ब्रवीत्येवं तेनादृष्टञ्च भाष्यकृत्।।

केचिद्धि पाणिन्यनन्तरप्रचलितशब्दानां साधनार्थं वॉतिकानि निर्मातानीति मन्यन्ते । तेषां विचारे तु पाणिनिकात्यायनयोः स्थितिकाले हि महदन्तरं विद्यते । पाणिनिना हि स्वकालप्रचलितानां शब्दानां सिद्धिः साधिता। पश्चाचानेके शब्दा भाषायां प्रचलिता बभूवुर्येषां सिद्धिः पाणिनीयसूत्रद्वारा नैव सम्भवति स्म । तेषां कृते हि वररुचिना वार्तिकानि निर्मातानि इति । ते हि स्वकथनसिद्धये ‘यवनाल्लिप्याम्' इति वातकमुदाहरन्ति । पाणिनिह यवनस्य सीति विग्रहे यवनानीति रूपं साध्नोति । वार्तिककारस्तु लिपिविशेषे यवनानी शब्दं साधयतीति । किन्तु कथनमिदं निराधारमेव । वस्तुतस्तु यवनानीपदं पाणिनिकालेऽपि लिप्यामपि प्रयुक्तमासीत् किन्तु पाणिनिना लाघवार्थं हि तदुपेक्षितम् । तथ्यमिदं भाष्यकारः समर्थयति कथनेनानेन -

नैकमुदाहरणं योगारम्भं प्रयोजयति ।[१०]

नैकं प्रयोजनं योगारम्भं प्रयोजयति ।[११]

अपरञ्च पाणिनिः ‘कुलटाया वा’[१२] इति सूत्रे कुलटापदं प्रयुनक्ति । किन्तु पाणिनिसूत्रेषु न तुत्र कुलटा शब्दसिद्धिः । शब्दोऽयं ‘शकन्ध्वादिषु पररूपं वाच्यम्' इति वातिकेन पररूपव्यवस्थया सिध्यति । एवमेव स्वैरीपदञ्च महाभारते एव प्रयुक्त दृश्यते' न मे स्तेनो जनपदे न कदर्यों न मद्यपः इत्यत्र ‘न स्वैरी स्वैरिणी कुतः' इति । किन्तु तस्यापि साधनं 'स्वादीरेरिणोः । इति वातकेन वृद्धिव्यवस्थेयैव भवति न, तु पाणिनीयसूत्रेण । सूत्रानुसारेण तु तंत्र गुणो भवति न तु वृद्धिः । तथैव प्रेषशब्दः शतपथब्राह्मणे प्रयुक्तः किन्तु तत्रवृद्धिस्तु प्रादूहोढोढयेषैष्येषु' इति वातकादेव न तु सूत्रव्यवस्थया । दशाएँशब्दोऽपि तथैव महाभारते प्रयुक्तः किन्तु वृद्धिव्यवस्था तु वातिकादेव ‘प्रवत्सतरकम्बलवसनार्णदशानासृणे' इत्यादिना । तेन वातकव्याख्यातमात्रेण कस्यापि शब्दस्य, पाणिन्यपेक्षया अर्वाक्कालिकत्वं नैव कथमपि सिध्यति । तेनानेके वैदिका लौकिकाश्च शब्दाः अल्पप्रयोगवशाद्वाऽनवधान घशात् पाणिनिनोपेक्षिताः लाघववशाञ्च । तेषामेव पूतिर्वररुचिना कृता न तु शब्देष्वपूर्वता । अनेन च पाणिनिप्रत्याख्यानाय वातिककारेण वातकानि-प्रणीतानीति कथनमपि निरस्तं भवति । केचित्तु कात्यायनं वात ककार पाणिनेः साक्षाच्छिष्यमपि मन्यन्ते । सम्भवति वादे पराजितेन वररुचिना पश्चात्तस्य शिष्यत्वमपि गृहीतं स्यात् । युधिष्ठिरमहाभागोऽपि मतमिदं समर्थ यति यत्कात्यायनः पाणिनेः साक्षाच्छिष्य इति ।

कात्यायनस्य देशविषयेऽपि तथैव पण्डिता नैकमत्यं भजन्ते । कथासरित्सागरे कौशाम्बी तस्य जन्मभूमित्वेन निश्चिता । कौशाम्बी साम्प्रतिकप्रयागमण्डले वर्तते । किन्तु पण्डिता हि कथासरित्सागरकथोपरि विश्वसनं हि आत्मनोऽपमानमिव मन्यन्ते । ते हि महाभाष्यगतं ‘प्रियतद्धिता दाक्षिणात्याः' इति कथनमवलम्व्य कात्यायनं दाक्षिणात्यं मन्यन्ते । वयं तु तथाचिन्तनेऽनेकाः विप्रतिपत्तीरनुभवामः । प्रथमं तु कथमेतत्कात्यायनमेव सङ्कतर्यतीति नैवे स्पष्टम् । सम्भवति एतत्सौनागानधिकृत्योक्तः स्यात् । सौमागा हि अतिविस्तरेण वार्तिकोनि पठेन्तीति प्रदीपकारोऽपि[१३] समर्थयति । मतेऽपि एतस्य कात्यायनसम्बद्धत्वे भाष्यकारमते कुत आरभ्य देक्षिर्णदेशो गण्यते 'स्मेति निश्चयाय न कोऽप्याधारः। काश्मीरस्य हिः भाष्यकारस्यं कृते सर्वोऽपिसध्यदेशो, दाक्षिणात्यः । अपरञ्चः कात्यायनशाखाः दक्षिणेष्वेव प्रसिद्धेति यदुक्त तदपि निर्मूलमेव यतः समस्तो ह्यौदीच्यो ब्रह्मणसमूहो विशेषेण जालन्धर-केदार कूर्माचल–नेपालादिदेशगतः कात्यायनमतमनुसरति । तत्रापि नेपालेषुः तु सर्वे एव विप्राः कातीयाः । यदि वातकपाठस्यः पाणिनीययाष्टकलधुपाठेनः सह सम्बन्धमात्राधारेण कात्यायनो दाक्षिणात्यो मन्यते तदा क्षीरस्वामी अपि तथैव किं मन्येत ? सोऽपि तस्य लघुप्ताठमेवानुसरतिः। यदि दाक्षिणात्यौक्त्यिलघुपाठयोः स्वल्पमप्यन्तरं मन्यते तत्तु कालुकृतमपि सम्भवतिन तु-प्रदेशकृत- ८ मात्रम् । तत्रापि तादृशमन्तरं . किमद्वयापि इत्यपि नैव सूचितमद्यापि । तेन हि । वयन्तु कात्यायनं मध्यदेशीयमेव मन्यामहे. कौशाम्वीभवम् ।

कात्यायनस्य वार्ताकपाठः पाणिनीयव्याकरणस्य. नितान्तमेव महत्त्वपूर्णमङ्गम् । एतद्विरहे हितस्य पूर्णत्वमेव हीयते । तेनैव कथासरित्सांगुरस्य ‘तदिच्छाऽनुग्रहादेव मया पूर्ण कृतृञ्चतत्' इति कथनं नितान्तमेवसत्यम् ।। कात्यायनस्य वातकपाठोऽपि . पृथग्ग्रन्थरूपेण संम्प्रति नैवोपलभ्यते । पातञ्जलं. हि,महाभाष्यं कात्यायनवातकान्येवादाय प्रवर्तते। तेनैव तानि 'भाष्यसूत्राणि इत्यपि कथितानि। किन्तु.महाभाष्ये हि अन्येषां गृहीतनाम्नामगृहीतनाम्नाचा । र्याणां वातकानां सद्भावात्तस्मादपि. एतावन्त्येव कात्यायनवातकानीति न शक्यते निश्चयेन गणयितुम् ।

तस्य वार्तिकपाठस्यः ‘रक्षोहागमलध्वसन्देहाः प्रयोजनम् इति प्रथम वार्तिकम् । यत्तु ‘सिद्ध सिद्धार्थसम्बन्धे' इति प्रथमवर्तकत्वेनः कथ्यते तत्तु ‘मागलिक आचार्यो महतः शास्त्रोन्नस्यू मङ्गलार्थं सिद्धशब्दमादितः प्रयुक्त

इति वाक्ये आदिपदप्रयोगाधारेण कल्पितमाम्। वस्तुतस्तु, पदमिदं लक्ष्यार्थे प्रयुक्तं सामीप्येन् । सायणाचार्योऽपि रक्षोहागमलध्वसन्देहाः प्रयोजनम्' इति । बॉक्यं वररुचिना वातिके दर्शितं मन्यते । यथोक्तम् -

‘तस्यैतस्य व्याकरणस्य प्रयोजनविशेषो वररुचिना वातके दर्शितःरक्षोहागमलध्वसन्देहाः प्रयोजनम्' इति । एतानि रक्षादीनि प्रयोजनानि अयोजनान्तराणि च महाभाष्ये पतञ्जलिना स्पष्टीकृतानि ।' इति ।

महाभाष्ये हि अनेकेषामाचार्याणां वर्तिकानि संगृहीतानि सन्ति इति तु । . स्पष्टमेव । तत्र कात्यायनकृतवातिकपरिचयायाचार्यैः कतिपये उपाय निर्दिष्टाः संन्ति । तानि च यथा -

तत्र हि सूत्रव्याख्यानावसरे सूत्रस्य आदिमध्यान्तशब्देष्वन्यतमस्य प्रतीकरूपेण ग्रहणं कृतमस्ति वा विशेषावसरे तु सम्पूर्णस्यैव सृत्रस्य आदिशब्दग्रहणं यथा 'इको गुणवृद्धी', इत्येतस्य ‘इग्ग्रहणमात्सन्ध्यक्षरव्यञ्जननिवृत्यर्थम्' . इत्यत्र । ह्रस्वो नपुंसके प्रातिपदिकस्य' इत्यस्य ‘नपुंसकह्रस्वत्वे प्रातिपेदिकग्रहणं तिबिनवृत्यर्थम्' इत्यत्र मध्यशब्दस्य ग्रहणम् । तथैव ‘हलोऽनन्तरा संयोगः' इत्यस्य 'संयोगसंज्ञायां सहवचनं यथाऽन्यत्र' इत्यत्र संयोगशब्दः ।

कुत्रचित्त सूत्राणामाद्याक्षराणां ग्रहणम् यथा ‘संपुकानां सो वक्तव्यः' इत्यत्र सिम सुटि', 'पूमः खय्यम्परे’, ‘कानाम्नडिते', इति सूत्राणां प्रथमाक्षरग्रहणम् ।। कानिचिद्वांतिकानि तु सूत्रपूरकाण्यपि सन्ति कानिचिच्च प्रतिषेधकान्यपि । यथा.. “संयोगान्तस्य लोपः' इत्यस्य 'यणः प्रतिषेधो वाच्यः' इति ।

कात्यायनो हि पाणिनेः समालोचकोऽप्यासीत् । स हि यत्रैव श्रुटि पश्यति । तत्र तत्सुधाराय सद्य एव प्रवर्तते । इदमप्यनुमीयते यत्कानिचित्कात्यायनवार्तिकानि स्वतन्त्रतयाऽपि प्रर्वार्ततानि वा पूर्ववर्तवृत्तिग्रन्थेन सह सम्बद्धान्यपि । . इदन्तु पूर्वमेवोक्त यद् व्याडिह पाणिनीयाष्टके वृत्तिग्रन्थं प्रणीतावानिति । स हि कात्यायनपूर्ववर्त। पाणिनिसमकालिकत्वादस्यापि स्थितिकालो विक्रमपूर्वद्वितीयसहस्राब्दीमभित आपतति ।

भारद्वाजः[सम्पादयतु]

भारद्वाजेनापि पाणिनीयसूत्रोपरि वर्तिकानि प्रणीतानीति महाभाष्यवचनाज्ज्ञायते । भारद्वाजीयानि वार्तकानि हि कात्यायनवातकापेक्षया विस्तृता :न्यासन् । तानि च यथा -

कात्यायनीयानि-घुसंज्ञायां प्रकृतिग्रहणं शिदर्थम् ।

भारद्वाजीयानि-घुसंज्ञायां प्रकृतिग्रहणं शिद्विकृतार्थम् ॥

भारद्वाजै तिह्यविषये वयं नितान्तमनभिज्ञाः स्मः । ते हि महाभाष्कारः १।१।२०, १।११५६, १।२।२२, १।३।६७, ३।१।३८, ३।१५४८, ३।१।८९, ४।१।७९, ६॥४॥४७, ६।४।१५५ सूत्रव्याख्यानप्रसङ्ग स्मरति । इदमपि नैव निश्चितं यद्भारद्वाजेन कतमद्व्याकरणमधिकृत्य वार्तिकानि प्रोक्तानीति । महाभाष्येऽपि ‘भारद्वाजीयाः' इत्येवोक्तं न तु स्पष्टमेव भारद्वाज इति । यथा भारद्वाजीयाः पठन्ति नित्यमकित्वमिडाद्योः क्त्त्वाग्रहणमुत्तरार्धम् ।[१४] भारद्वाजीयाः पठन्ति भ्रस्जोरोपधयोर्लोपः आगमो रम् विधीयते।[१५]

सूनागः[सम्पादयतु]

महाभाष्ये वातककृत्वेन सौनागा अपि स्मृताः सन्ति । सौनागैहि कात्यायनीभिप्रायमेव प्रदर्शयितुरतिविस्तरेण पठितमिति कैयटमतम् । यथा टिट्ढाणबु. इत्यत्र ख्युन इति कात्यायनवातकम् । नञ्स्नीकक्ख्युस्तरुणतर्जुनानामुपसङ्ख्यानम्' इति सौनागवतकम् । सौनागा हि माहावतका इति प्रसिद्धाः। तेन महावातिककारः सुनागः । ।

क्रोष्ट्रा[सम्पादयतु]

क्रोष्ट्राऽपि पाणिनीयाष्टके वार्तिकानि प्रणीतान्यासन्निति परिभाषान्तरमिति च कृत्वा क्रोष्ट्रीयाः पठन्ति-नियमादिको गुणवृद्धी भवतो विप्रतिषेधेन इति महाभाष्यकारवचनाज्ज्ञायते ।

वाडवः[सम्पादयतु]

वाडवाख्येन विपश्चिताऽपिः पाणिनीयाष्टकमधिकृत्य, वार्तिकानि प्रोक्ता । नीति ‘अनिष्टिज्ञो वाडव: पठति' इति महाभाष्यवचनात्[१६] ज्ञायते । नागेशानुसारेण ‘सिद्ध विदितोः' इति वाडवस्य वातकंम् । सम्भवति महाभाष्ये[१७] स्मृतः कुणरः वार्डवोऽपि स एव ‘पदेषु पदैकदेशाम्' इति नियमेन ।

व्याघ्रभूतिः[सम्पादयतु]

व्याघ्रभूतिनाऽपि पाणिनीयाष्टकोपरि व्याख्यानसूत्राणि प्रोक्तानीति ज्ञायते । महाभाष्ये तस्य साक्षादुल्लेखस्तु न विद्यते । किन्तु स २।४।३६ सूत्र। व्याख्याने स्मृतं -

जग्धिविधिय॑पि यत्तदकस्मात्सिद्धमदन्ति कितीति विधानात् ।

हिप्रभृतींस्तु सदा बहिरङ्गोल्यब्भरतीति कृतं तदुविद्धि ।।

इति श्लोकवार्तिकं अयमेवार्थो व्याघ्रभूतिनाप्युक्त इत्याह-इति कैयट- वचनाद् व्याघ्रभूतिप्रोक्त मन्यते । एवमेव -

सम्बोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाऽप्यदन्तम् ।

माध्यन्दिनिर्वष्टि गुणंत्विगन्ते नपुंसकेव्याघ्रपदां वरिष्ठः ॥

इति यत्पद्य काशिकायां[१८] स्मृतं श्लोकवार्तकमपि व्याघ्रभूति* प्रोक्त मन्यते त्रिलोचनदासवचनात् । त्रिलोचनस्तु कातन्त्रवृत्तिपञ्जिकायां स्पष्टमेव कथयति -

‘तथा च व्याघ्रभूतिः सम्बोधने तूशनस'' इति । सुपद्ममकरन्दकारोऽपि ।।, व्याघ्रभूतिवचनमेवेदं मन्यते । न्यासकारस्तु इदमागमवचनत्वेन गृह्णाति । केचिदमुं हि पाणिनेः साक्षाच्छिष्यं मन्यन्ते । काशिकायमुद्धताः थभिनमन्ते. ष्वनिडेक इष्यते' इत्याद्यनिट्कारिका अपि ब्याघ्रभूतिप्रणीता इति मन्यन्ते ।

वैयाघ्रपद्यः[सम्पादयतु]

वैयाघ्रपद्यस्यापि पाणिनीयाष्टकस्य व्याख्यानसूत्रकृत्वं महाभाष्यादौ समुद्धृततद्वचनोज्ज्ञायते । काशिकायां[१९] समुद्धतः ‘शुष्किका शुष्कजङ्घा च' | इत्यादिश्लोकोऽपि वैयाघ्रपद्यस्येति शब्दकौस्तुभे[२०] प्रमाणितम्। एतदपि सम्भवति यद्वैयाघ्रपदीयव्याकरणगतोऽयं श्लोकः प्राकरणिकत्वाद् व्याख्यातृभिरत्रोद्धृतः ।

एतदतिरिक्तमपि गोनर्दीयः, गोणिकापुत्रः सौर्यभगवान् भवन्तः इति च महाभाष्ये वैयाकरणत्वेन' स्मृताः । तेषां वातककृत्वं, वृत्तिकृत्वं वा तु न ज्ञायते । महाभाष्ये गोनर्दीयवचनं बहुशः स्मृतमस्ति । यथा- 'गोनर्दीयस्त्वाहसत्यमेतत्-‘सतित्वन्यस्मिन्' इति ।[२१] ‘गोनर्दीयस्त्वाह अकस्वरौ तु कर्तव्यौ प्रत्यङ्ग मुक्तसंशयौ ।

त्वकल्पितृको मकत्पितृक इत्येव भवितव्यमिति[२२] 'न, तह इदानीमिदं भवति-इच्छाम्यहं काशकटीकारमितिः । इष्टमेवैतद्गोनयस्य । (३॥१॥९२) गोनर्दीयस्त्वाह-इष्टमेवैतत्सङ्ग्रहीतं भवति ।. अतिजरमतिजरैरिति । भवितव्यम् । (७।२।१०२) ।

गोनयशब्दस्तु देशनिमित्तकः । तेन गोनर्दीयो हि गोनेर्दस्य । काशिकाकारस्तु “एङ् प्राचां देशे[२३] इति सूत्रस्य प्राग्वतनि देशे इति व्याख्यानेन गीनदं प्राच्यदेशं मन्यते । एवमेव युधिष्ठिरमहाभागोऽपि गोनर्दीये । गोनसन्देशसम्बद्ध मन्यते । वयन्तु न तथा मन्यामः । अस्माकं मते तु देशसम्बद्धत्वेऽपि नैव गोनर्दाऽनिवार्यरूपेण प्राच्य एव । तत्र विप्रतिपत्तिस्तु ‘एङ् प्राचां देशे' इत्येतस्य व्याख्यानान्तरेण समुद्भूता । काशिकाकारः सूत्रमिदं प्राचां देशे इत्येतस्य प्राग्देशाभिधाने इतीत्थं व्याख्या गृह्णाति प्रस्तौति च शरावत प्राच्योदीच्यदेशविभाजकत्वेन । अन्येऽपि प्राञ्चोऽर्वाचीनाश्च काशिकामुपजीवन्ति । “पुरुषोत्तमदेवोऽपि 'प्रादेशे' इति व्याख्याति किन्तु कैयटस्त्वाह-कुणिना प्राग्ग्रहणमाचार्यनिर्देशार्थं व्यवस्थितविभाषार्थञ्चेति व्याख्यातम् । अन्येनं तु प्राग्ग्रहणं देशविशेषणं व्याख्यातम् । भाष्यकारस्तु कुणिदर्शनमशिश्रयत्' इति । वस्तुतस्तु प्रसङ्गेऽस्मिन् कुणिमतमेव साधु दृश्यते । रूपान्तराणि तु व्यवस्थित विभाषयैव । यदि हि सूत्रकारस्य तथा मतं तदा 'प्राचांदेशे इत्यस्य स्थान “प्राग्देशे' इत्येव पठेदेव । अन्यत्रसूत्रेष्वपि प्राचां तद्धितः' इत्यादौ प्राचामिति आचार्यनिर्देशार्थं व्यवस्थितविभाषार्थञ्चैव । तेन ‘प्राचां मते एङ् यस्याः ', चामादिस्तद् वृद्धसंज्ञं भवति देशे इत्यत्रं वृत्तिः । तेनैव गोनर्दीयो गौनद वा व्यस्थितविभाषया ।

असति हि तथा सैपुरिकी सैपुरिका, स्कौनगरिकी स्कौनगरिका' इति की सिद्धयति । यत्त्वत्र वा नामधेयस्य बृद्धसंज्ञा वाच्या 'इति वृद्धसंज्ञा काशिकाकार निर्दिष्टी तद् द्रविडप्राणायाम एवं भाष्यकारेणा तथा निर्देशात् । एवमेव 'प्राचां ग्रामनगराणां, ‘प्राचां नगरान्ते' इत्यत्रापि ।

किन्त्वत्रयो गोनयशब्दस्तुं शिवपर्यायवाचनः गोनर्दशब्दस्य ‘वा नामश्रेयस्य बृद्धसंज्ञा वाच्या' इति वातकव्यवस्थया वृद्धसंज्ञात्वेन सिध्यति । यथा महाभारते -

अधर्महा महापाश्र्वचण्डधारो गणाधिपः ।

गोन गोप्रवारश्न गोवृषेश्वरवाहनः ।।[२४]

तंत्र गौरिवनर्दति शब्दं करोतीति नीलकण्ठः ।।

काश्मीरेषु हि गोनर्दसंज्ञकास्त्रयो राजानोऽभूवनिति राजतरडिणीत ज्ञायते । तेनापि गोनर्दस्य प्रागुदेशसम्बन्धो दुर्वल एव । आचार्या हि बहवो गोनयपदेन भाष्यकारमेव सूचितं मन्यन्ते । यथाऽऽह भर्तृहरिः -

गोनदीयस्त्वाह-तस्मादेतद्भाष्यकारो व्याचक्षति सूत्रमिति ।[२५]

कैयटोऽप्याह-गोनर्दोपपदं व्याचष्टे-भाष्यकार इति ।।[२६]

तथा च वैजयन्तीकारः - गोनदी यः पतञ्जलिः ।[२७]

सर्वातिशायित्वेन महाभाष्ये प्रयुक्तं ‘न हि इदानीमिदं भवति इच्छाम्यहं काशकंटीकारमिति । इष्टमेवैतद् गोनयस्य' इति, वचनमेव गोनयस्य पतञ्जलित्वे प्रमाणम् । पूर्वञ्च पूर्वपक्षमुल्लिख्य पश्चाच्च सिद्धान्तिन, उल्लेखः संस्कृतसाहित्ये परम्परैव । 'नेतिकौटिल्यः', नेतिवात्स्यायनः इत्यादिवत् । तेनात्र सिद्धान्तित्वेनोपस्थापितो गोनर्दीयशब्दः । सिद्धान्ती चात्र पतञ्जलिरेव ।

एवमेव महाभाष्ये गोणिकापुत्रस्यापि मतानि स्मृतानि सन्ति । यथा। उमयथा गोणिका पुत्र इति ।'[२८] केचिद्गोणिकापुत्रपदेनापि भाष्यकार एव सूचित इत्यपि मन्यन्ते । यथाऽऽह नागेशभट्टः-‘गोणिकापुत्रो भाष्यकार इत्याहुः । इति । किन्तु मतमिदं न तथा पुष्टं दृश्यते । वात्स्यायनोऽपि कामसूत्रे एकं गोणिकापुत्रं पारदारिकाचार्यत्वेन स्मरति।[२९] संतजलिहिं भगवान् तत्प्रोक्तवानिति नान्यत्ततः सिद्धिः । तथैव भाष्ये[३०] तत्र सौर्यभगवतोक्तम् अनिष्टिज्ञो वाडवः पठति 'इति । ‘सौर्यं नाम नगरं तत्रत्येनाचार्येणेदमुक्तमिति । कैयटो। व्याख्याति।[३१] काशिकायां ‘सौर्यञ्च नगरं कैतवतञ्च ग्रामः इत्युक्तम्।[३२] स हि वाडवपश्चाद्वर्तीति तु महाभाष्याज्ज्ञायते ।

एवञ्च कुणरवाडवस्यापि महाभाष्ये[३३] उल्लेखों दृश्यते । कुडवस्तु शंकराइत्यस्य शङ्करा, वहिनर इत्यस्य विहिनर इति पठतीति तत्रोक्तम् । तथैव महाभाष्ये ‘इह' भवन्तस्त्वाहुः न भवितव्यम्। इति[३४] उक्तम् । सम्भवति अत्र भाष्यकारः स्वगुरु स्मरति बहुवचनान्तेने भवच्छब्देन । वातकोपरि अनेकैविपश्चिभिर्भाष्याणि प्रणीतानि येषां प्रकाशो महांभाष्ये दृश्यते । आगामिप्रकरणे वयं महाभाष्यतत्प्रणेतृविषये किञ्चिद्रूमः ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. ६।३।३४
  2. ८।३।५
  3. ४।१।१५
  4. ७।२।४९
  5. १३०।७१
  6. १३१/४८,९
  7. २/१
  8. ३।१।१२
  9. ७।३।९६
  10. ७॥१॥९६
  11. १।१।१२
  12. ४।१।१२७
  13. २।२।२८
  14. १/२/२
  15. ६।४।४७
  16. ८।२।१०६
  17. ३।२।१४, ७।३१
  18. ७॥१॥९४
  19. ८।२।१
  20. १॥१॥५६
  21. १॥१॥२१
  22. १।१।२९
  23. १।१।५७
  24. १२।२८४/१५५
  25. भाष्यदीपिका १॥१॥२१
  26. उद्द्योते १।१।२१
  27. १५७
  28. १।४।५१
  29. (१।१।१६)
  30. ८।२।१०६
  31. ८।२।१०६
  32. २।४।७
  33. (३।४।१४) (७।३।१)
  34. ३॥१८