आधुनिकसंस्कृतसाहित्येतिहासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


लुआ त्रुटि पटलम्:Navbar में पंक्ति 62 पर: Invalid title फलकम्:आधुनिकसंस्कृतसाहित्येतिहासः



संस्कृतसाहित्यस्य इतिहासे आधुनिककालः व्यापकेऽर्थे वर्तमानसाहित्यसन्दर्भे एव न सीमितः । शब्दोऽयं कालखण्डविशेषस्य वाचकः । अनया दृष्ट्या आधुनिककालः वर्षाणां शतकत्रये प्रसृतः । अस्य कालस्य साहित्यमधिकृत्य न कश्चिदितिहासग्रन्थः संस्कृतभाषया अस्ति । आधुनिकयुगबोधव्यञ्ककस्य साहित्यस्य प्रवृत्तिभेदाद् विशालकायत्वाच्च पृथगितिहासलेखनम् आवश्यकम् अस्ति ।

कालविभाजनस्य आवश्यकता[सम्पादयतु]

आधुनिककालस्य साहित्यिकचेतना प्राचीनकालात् पृथग्वर्तते । परम्पराम् अनुसरद्भिः अपि अर्वाचीनकविभिः नूतनमेव साहित्यं विरचितं विरच्यते च । परिवर्तिता युगचेतनैवात्र व्यावर्त्तकधर्मः । वस्तुतः कस्यचित् युगस्य चेतनैव तत्रत्यस्य साहित्यस्य मूल्याङ्कनस्य वर्गीकरणस्य चाधारः ।
काव्येन सह युगचेतनायाः घनिष्ठः सम्बन्धः । युगाभिज्ञः साहित्यकारः लोकावेक्षणजन्याम् अनुभूतिं काव्यरूपेण व्यनक्ति । स समकालिकभावानां विचाराणां चाभिव्यञ्जनया युगस्य हृदयं मस्तिष्कं च प्रतिबिम्बयति । तस्य साहित्यचेतना युगधर्मानुसारं परिवर्तते । कवेः अनुभवस्य समाजेक्षणजन्यत्वात् काव्यसृष्टिः समाजसापेक्षैव । स स्वानुभूतस्य सामाजिकजीवनस्य शब्दचित्रं प्रस्तौति ।
पारम्परिकं संस्कृतसाहित्यं नियमबद्धम् । जातिबहिष्कारचिन्तया ग्रस्त इव संस्कृतसाहित्यकारः स्वकाव्ये विषये शैल्यां वा नवप्रयोगाय नोत्सहते सहसा । समीक्षकेभ्योऽपि युगानुसारं शास्त्रीयमानदण्दानां संशोधने न रोचते । किन्तु आधुनिकयुगे बहवो भवभूतयः सञ्जाताः । परम्पराभङ्गभयात् मुक्तानां तेषां काव्ये नूतनता दृश्यते । इयं नूतनता विषयगता शैलीगता च ।
आधुनिककविगणैः 'पुराणमित्येव न साधुसर्वम्' इत्यादि कालिदासरीतिमनुकुर्वद्भिः पुराणपरम्परामनपेक्ष्य - 'साहित्यं समाजस्य दर्पणं भवति' इति सिद्धान्तमनुसरद्भिः स्वकीयेषु काव्येषु आधुनिकाः विचाराः, वर्तमानसमस्याः, जनचेतना राष्ट्रियभावनाः, नारीजागरणं, सर्वहारासंस्कृतिः, देशभक्तिः, भावात्मकैकता प्रभृतयो विविधाः विषयाः समावेशिताः । अद्यतनयुगे जीवने विविधाः सामाजिक-आर्थिक-राष्ट्रियसमस्याः अहर्निशं समस्तमपि राष्ट्रं व्याप्य स्थिताः सन्तिष्ठन्ते । अत एव काव्यमपि तत्परं, कवयोऽपि तद्विचारका इति नास्त्यत्र आश्चर्यम् । (नवोन्मेषः, अद्यतनसंस्कृतकाव्ये आधुनिकता/प्रगतिगामिता पृ-४)
तथापि साहित्येतिहासकारैः तेषां काव्यस्य नूतनप्रवृत्तयः उपेक्षिताः । कवेः युगचेतनाम् उपेक्ष्य तदीयकाव्यस्य वास्तविकं मूल्याङ्कनं न सम्भवति । जीवनमेव काव्यस्य रचनायाः आधारः न तु शास्त्रम् ।

आधुनिकयुगस्य पूर्वसीमा[सम्पादयतु]

यद्यपि युगचेतना युगभेदे व्यावर्त्तकधर्मः तथापि साहित्ये कालस्य पूर्णरूपेण खण्डशः विभाजनं तु दुष्करमेव । कश्चिद् युगविशेषः युगान्तरात् कदा कथं च पार्थक्यम् अभजत् इति तथ्यं स्पष्टतया निर्णेतुं न शक्यते । मन्दं मन्दं सम्पाद्यमाना परिवर्तनप्रक्रिया न संलक्ष्यते प्रायेण । प्राचीनयुगस्य प्रवृत्तयः नवयुगस्य प्रवृत्तिभिः सह बहुकालपर्यन्तं समानान्तरगत्या प्रचलन्ति । प्राचीनकालः स्वप्रवृत्तिभिः सह कदा अस्तङ्गतः कदा च नवजागरणस्य चेतना उदभवदिति तथ्यस्य निर्धारणे न कोऽपि शक्तः । अतः परम्परायाः सांस्कृतिकमूल्यानां समन्वयेन सह वर्तमानयुगबोधस्य स्वीकरणम् आधुनिकतायाः युक्तियुक्तं लक्षणम् ।
आधुनिकसंस्कृतसाहित्यस्य प्रारम्भकालविषये विद्वत्सु वैमत्यं वर्तते । वस्तुतः संस्कृतसाहित्यस्य आधुनिककालस्य प्रारम्भः अष्टादशशतकस्य प्रारम्भादेव स्वीकरणीयः । यतः -
१. अष्टादशशतकस्य प्रथमचरणात् भारतीयेतिहासस्य नवयुगं प्रारब्धम् । २७०७ तमे वर्षे औरङ्गजेबः मृत्युं गतः । तदुत्तरवर्ती कालः भारतीयेतिहासस्य सङ्क्रान्तिककालः । एवं देशस्य परिवर्तिताः राजनीतिकसामाजिकपरिस्थितयः एव आधुनिकतायाः नियामिकाः ।
२. विद्वद्भिः अष्टादशशताब्दपूर्वस्य संस्कृतसाहित्य्स्य गणना प्राचीनसाहित्ये क्रियते । तैः अष्टादशशतकीयस्य तदुत्तरवर्तिनश्च साहित्यस्य अर्वाचीनसाहित्ये गणना क्रियते ।
३. अष्टादशशतकस्य आदौ संस्कृतसाहित्ये अभिनवप्रवृत्तीनां श्रीगणेशः सञ्जातः । तथाहि -

संस्कृतकाव्ये शैलीगतपरिवर्तनं प्रारब्धम् । मिश्रितभाषाप्रयोगः नवविधानामुद्भवश्च अष्टादशशतकस्य प्रारम्भादेव संलक्ष्येते ।

आधुनिकयुगस्य परिस्थितयः[सम्पादयतु]

आधुनिकसंस्कृतसाहित्यस्य प्रवृत्तयः[सम्पादयतु]

ग्रन्थरचयितारः[सम्पादयतु]

  1. आधुनिक-महाकाव्यरचयितारः
  2. आधुनिक-खण्डकाव्य-मुक्तकाव्यरचयितारः
  3. आधुनिक-उपन्यासरचयितारः
  4. आधुनिक-कथारचयितारः
  5. आधुनिक-चम्पूकाव्यरचयितारः
  6. आधुनिक-ललितनिबन्धरचयितारः
  7. आधुनिक-दृश्यकाव्यरचयितारः
  8. आधुनिक-व्याकरणशास्त्रज्ञाः
  9. आधुनिक-अलङ्कारशास्त्रज्ञाः
  10. आधुनिक-ज्योतिषशास्त्रज्ञाः
  11. आधुनिक-दर्शनशास्त्रज्ञाः