आनन्दबोधभट्टोपाध्यायः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

आनन्दबोधभट्टोपाध्यायेकाण्वसंहितायाः चतुर्थदशकस्य ऊपरि (एकत्रिंशदध्यायादारभ्य चत्वारिंशदध्यायपर्यन्तम् ) स्वभाष्यं रचितम्। वाराणसेयसंस्कृतविश्वविद्यालयतः प्रकाशितायां सारस्वतसुषमापत्रिकायां आनन्दबोधभट्टोपाध्यायस्य काण्वसंहितायाः चतुर्थदशकस्य अर्थात् एकत्रिंशदध्यायादारभ्य चत्वारिंशदध्यायपर्यन्तस्य भाष्यं क्रमशः ( स. २००९-२०११) प्रकाशितमस्ति । ग्रन्थान्तपुष्पिकानुसारेण वासुदेव-पुरी-निवासी चतुर्वेदीयः जातवेदभट्टोपाध्यायस्यायं विद्वान् पुत्रः अासीत् । अस्य विदुषः सम्बन्धे एतावदेव सूचनोपलब्धाऽस्ति ।

भाष्यम्[सम्पादयतु]

आनन्दबोधभट्टोपाध्यायेन स्वभाष्ये देवता-ऋषि-छन्दो-प्रभृतीनां निर्देशः कृतः, यज्ञपरकमन्त्राणां विनियोगोऽपि यथास्थाने निर्दिष्ट एवेति । अस्य भाष्यस्य भाषा बोधगम्या, शैल्यपि सरला स्वच्छा चेति । शैलीगुणेनैव ग्रन्थोऽयं लोकप्रियत्वं प्राप्तवान् । ब्राह्मणग्रन्थानामुद्धरणानि अनेन स्वीयग्रन्थे दत्तानि । अस्य भाष्योपरि उव्वटस्य प्रभावो विशेषरूपेण परिलक्षितो भवति। तथापि भाष्येऽस्मिन् भाष्यकारेण स्वीया मौलिकताऽपि यत्र तत्र प्रदर्शिता । यथा - निम्नलिखितमन्त्रोऽयं द्रष्टव्यः —

'केतु कृण्वन् न केतवे पेशोमर्या अपेशसे ।

समुषद्भिरजा यथाः ॥' ( माध्यन्दिनसंहिता २९/३६, काण्व सं० ३१/१२)

अत्रोव्टेन महीधरेण च ‘मर्या'-पदम् विभक्तिव्यत्ययेन मर्याय = मनुष्याय एवार्थः गृहीतः किञ्चानेन प्रथमान्तं ‘मर्या' एव पदं स्वीकृतम् । अत्रार्थद्वैविध्यं मर्यादयः शब्दाः नूतनतया सिद्धान्तिताः ।

सम्बद्धाः लेखाः[सम्पादयतु]