उमापरिणयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
उमापरिणयम्  
12th-century Belur Vaishnavism Hindu temples complex, Kama and Rati.jpg
कामर्त्योः शिल्पस्थापत्यम्
लेखकः सुन्दरार्यः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

उमापरिणस्य तिरुचिरपल्ल्याः संस्कृतसाहित्यपरिषदो वार्षिकोत्सवे १९५२ ईसवीये द्विवारमभिनयः संवृत्तः। सुन्दरार्यः अस्य रचयिता अस्ति।

कथावस्तु[सम्पादयतु]

हिमालयः स्वकन्यायाः पार्वत्याः परिणयाय चिन्तितः समागताय नारदाय स्वां चिन्तां प्रकटयामास | नारदोऽब्रवीत् - पार्वती पूर्वजन्मनि सती इतिनाम्ना दक्षप्रजापतेः कन्यासीत् , या शिवस्य अपमानम् असहमाना योगाग्नावात्मानं ददाह । इयमस्मिन् जन्मन्यपि तस्यैव पत्नी भविता । शिवोऽपि सतीवियोगात्तपसि लग्नोऽस्ति । पार्वती तत्सेवायै तत्रैव प्रेषणीया |

तारकासुरो देवलोकम् अभ्यषेणयत् । तस्य भटो रम्भां कल्पतरुच्च हृतवान् | इन्द्रेण पृष्टो बृहस्पतिः उक्तवान् शिवकुमार एव तारकासुरं हन्तुं शक्नोतीति ब्रह्मणा निर्दिष्टम् । एतादृश्यां परिस्थितौ पार्वतीशिवयोः परिणयाय देवेन्द्रेण कामः समाज्ञप्तः । रतिः तज्ज्ञात्वा अभिहितवती -

शक्यः किन्नु घटाम्भसा शमयितुं घोरस्य दावानलो

वज्रं वारयितुं पतन्तमथवा छत्रेण किं शक्यते।।

यो वा कर्तुमपेक्षते च तपसो विघ्नं पुरारेपि

क्रोधाग्नौ पतितुं स्वयं शलभतां प्राप्तुं स वाञ्छत्यहो।।

रत्याः स्पष्टं मतमासीद् यच्छिवविरोधेन कल्याणं न भवति । सापि तेन समं गता ।

ब्रह्मचारिणः शङ्करस्य (शिवेतरोऽयं प्राकृतः कश्चित् ) जननी मीनाक्षी तस्य विवाहं कर्तुमिच्छति । शङ्करो निषेधति – “नूनं न फलिष्यति ते मनोरथः । दुःखकरो भवति संसारः । तपः कर्तुं यास्यामि।” अथ तत्रैव नटेशः सुन्दरीनाम्न्या कन्यया सार्धं समागतः । सुन्दर्यपि विवाहं न्यषेधत् । पुनरपि मीनाक्षी-नटेशौ तयोः मेलापक-दर्शनार्थं ज्योतिर्विदः समीपं गतौ ।

इतश्च सुन्दरी ब्रह्मचारिणे नातिदूरे विपरीतं दिशायां मुखं कृत्वा भूम्यामेव शयिता । तदानीमेव रति-कामदेवौ तत्र समागतौ । मन्मथो निलीनो ब्रह्मचारिणम् उपरि पुष्पबाणं चालयामास । शंकरो मन्मथ मदृष्ट्वा अचिन्तयत् सुन्दरीयं ममोपरि पुष्पाणि प्रक्षिप्य व्याजशयनं नाटयति । स तस्याः सविधं गत्वा ताम् उद्बोधयामास । यदा सा न जागर्ति तदा शङ्करस्तानि पुष्पाणि तस्या उपरि प्रक्षिपति | बोधमागता सुन्दरी प्रचण्डं क्रोधं दर्शयामास । शङ्करोऽब्रवीत् तर्हि कस्माद् भवती इमानि पुष्पाणि मयि क्षिप्तवती ? अथ पुष्पगन्धमाघ्राय सुन्दरी शङ्करं प्रति आकृष्टा | शङ्करस्तैरेव पुष्पैः सस्याः प्रसाधनं कृतवान् । तौ तथाचरन्तौ वीक्ष्य मीनाक्षीनटेशावूचतुः - अधुना ज्योतिर्विदः कतमावश्यकता ? मन्मथस्तमात्मनः प्रभावं रतये शनैर्वर्णयामास । एवमेव पार्वत्या सह शिवः परिणेतव्यः इत्यप्यूचिवान्।

अथ रत्या समं मन्मथः शिवस्य तपोभूमिमासाद । तत्र स दृष्टवान् -

न चलति तरुपर्णं मारुतो वाति नात्र

न चलति मृगयूथं श्रूयते नापि शब्दः ।

तपति च शितिकण्ठे तत्स्वरूपं समस्तं

भवति भुवनमेतन्निर्गुणं निर्विकारम् ॥

तथाविधं शिवं दृष्ट्वा मन्मथस्य हस्तपादं शिथिलं बभूव । तत्र पार्वती पङ्कजबीजमालां फलानि च गृहीत्वा समागत्य स्तुतिपूर्वं प्रणनाम | अद्वितीयं पतिमाप्नुही इति शिव आशीः प्रायुङ्क्त | मालार्पणकाले मन्मथः सम्मोहनास्त्रस्य प्रयोगं कृतवान् | तस्य चास्त्रस्य प्रभावेण शिवस्य मानसं सविकारं समजनि । तत्सर्वमाकलय्य मन्मथञ्च दृष्ट्वा शिवो हुमिति कृत्वा नेत्रवह्रिस्फुलिङ्गेन तं ददाह । तत् स्थानं च विहाय अन्यत्र गतवान् । हिमालयः पार्वतीं निनाय | रतिः भृशं विललाप | आकाशवाणी रतिं समाश्वासयत् - शिव-परिणयसमये त्वं पुनः पतिं प्राप्यसि । शिवस्तं पुनरुज्जीवयिष्यति इति।

एकस्मिन् दिवसे नारदः पुनर्हिमालयगृहं गतवान् । तत्र स पार्वत्याः तपोऽनुमोदयामास । ततः स शिवसमीपं गत्वा पार्वतीतपसश्चर्चां कृतवान् | तत्तपो भवदर्थमेवास्तीत्यपि निवेदयाम्बभूव । प्रथमं शिवोऽब्रवीत् एतद् देवानां षड्यन्त्रं भविष्यति । अनन्तरं नारदानुनयेन तस्याः पाणिग्रहणं स्वीकृतवान् । तत एकदा कश्चिद् ब्रह्मचारी पार्वतीतपोभूमौ तां द्रष्टुमागतवान् । स तस्यास्तपः प्रशशंस । ततो वार्तालापप्रसङ्गेन ब्रह्मचारी पार्वत्याः शिवम्प्रत्यासक्तिं ज्ञात्वा शिवमननुरूपं वरं समर्थयन् तं विनिनिन्द । पार्वती ब्रह्मचारिणे चुकोप । ततः शिवो ब्रह्मचारिणश्छद्मरूपं विहाय स्वकीयं वास्तविकं रूपं दर्शयामास । तयोर्विवाहं देवाः सम्पादयामासुः, शिवश्च कामं सप्राणं कृतवान्।

शिल्पम्[सम्पादयतु]

उमापरिणयस्य प्रस्तावना सूत्रधारविरचितास्ति । शिवस्य ब्रह्मचारिवेशं विधाय पार्वत्या सह वार्तालापश्छायातत्त्वात्मकं वर्तते।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उमापरिणयम्&oldid=435343" इत्यस्माद् पुनः प्राप्तिः