एरासिस्ट्राटस्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रुग्णस्य चिकित्सां कुर्वन् एरासिस्ट्राटस् (जाकस्-लूयिस्-डेविडेन १७७४ तमे वर्षे लिखितं चित्रम्)

(कालः – क्रि. पू. ३०४ तः क्रि. पू. २५०)

अयम् एरासिस्ट्राटस् (Erasistratus) अङ्गानां रचनाविषयं, कार्यविषयं च विवृतवान् विज्ञानी । एषः ग्रीक् देशस्य 'एजियन्’ नामकेषु द्वीपेषु अन्यतमे 'चियोस्’ इति द्वीपे जन्म प्राप्नोत् । कालान्तरे अलेक्साण्ड्रियं गत्वा संशोधनकार्यम् अनुवर्तितवान् । अयम् एरासिस्ट्राटस् मस्तिष्कस्य विषये गभीरं संशोधनं कृतवान् । अयं मस्तिष्कं लघुभागः, महाभागः च इति द्विधा विभक्तवान् । महाभागं "सेरिब्रम्” इति, लघुभागं च "सेरिब्ल्लम्” इति च अवदत् । अयम् एरासिस्ट्राटस् मस्तिष्कस्य उपरि दृश्यमानायाः वक्रतायाः तथा च बुद्धिमत्तायाः च सम्बन्धः अस्ति इत्यपि संशोधितवान् । शुद्धरक्तनाड्याः, मलिनरक्तनाड्याः च नाडीभिः (Nurves) सह सम्बन्धः अस्ति । शरीरस्य सर्वम् अपि अङ्गम् शुद्धरक्तनाड्याः, मलिनरक्तनाड्याः तथा च अन्याभ्यः नाडीभ्यः अपेक्षितं जीवद्रव्यं प्रानोति इत्यपि संशोधितवान् । तदानीन्तने काले महान्तः अपि वैद्याः नाडीषु नाडीमूलद्रव्यं (Nurves Spirit), शुद्धरक्तनाडीषु प्राणिमूलद्रव्यं (Animal Spirit), अशुद्धरक्तनाडीषु रक्तं च प्रवहति इति चिन्तयन्ति स्म ।

"शुद्धरक्तनाडीषु रक्तं प्रवहति” इत्येतं हीरोफिलसस्य अभिप्रायम् अयम् एरासिस्ट्राटस् निराकरोत् । तस्य अभिप्रायात् भिन्नम् एव अंशं प्रतिपादितवान् च । श्वासकोषतः हृदयं प्रति वायोः गमनसमये सः वायुः प्राणिद्रव्यरूपेण परिवर्तते । तत् द्रव्यं शुद्धरक्तनाडीषु प्रवहति इति संशोधितवान् । अस्य एरासिस्ट्राटसस्य संशोधनानि वास्तविकानि आसन् । किन्तु तदानीन्तनः ईजिप्तसमाजः एतं विचारम् अङ्गीकर्तुं सिद्धः नासीत् । हीरोपिलिसस्य, अस्य एरासिस्ट्राटसस्य च अङ्गरचनायाः विषये आरब्धं संशोधनम् अपि सः समाजः नाङ्ग्यकरोत् । तस्य परिणामतः एतदेव संशोधनं १५ शतकस्य अनन्तरं पुनः आरब्धम् । एरासिस्ट्राटसेन आरब्धं रक्तपरिचलनस्य विवरणं शतकद्वयस्य अनन्तरं विलियं हार्वे समापयत् । अस्य एरासिस्ट्राटसस्य गुरुः थियोफ्रास्टस् । तस्य थियोफ्रास्टसस्य गुरुः अरिस्टाटल् । अस्य एरासिस्ट्राटसस्य मतानुसारं शरीरस्य सर्वम् अपि कार्यं यान्त्रिकरूपेण एव प्रचलति । जठरं प्रविष्टस्य आहारस्य पचनम् अपि यान्त्रिकम् एव इति । एतम् एव अभिप्रायं २००० वर्षाणाम् अनन्तरं बोरेल्ली इत्याख्यः पुनः प्राकटयत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=एरासिस्ट्राटस्&oldid=352939" इत्यस्माद् प्रतिप्राप्तम्