सामग्री पर जाएँ

औराद

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
औराद

Aurad ಔರಾದ್ (B)
नगरम्
देशः  भारतम्
राज्यम् कर्णाटकम्
मण्डलम् बीदर
Elevation
५४२ m
Population
 (2001)
 • Total १६,१८९
भाषाः
 • अधिकृताः कन्नड
Time zone UTC+5:30 (IST)

कर्णाटके किञ्चन प्रमुखं मण्डलम् अस्ति बीदरमण्डलम् । अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति औराद।

इतिहासः

[सम्पादयतु]

औरादनगरस्य मध्यभागे अमरेश्वरमन्दिरम् अस्ति । तत्र कतिचन शिलाशासनानि प्राप्तानि सन्ति । एतेषु कानिचन खण्डितानि सन्ति । एतानि सर्वाणि कन्नडेन सन्ति, दशमशतकीयानि इति विदूषां मतम् । एतैः शिलाशासनैः ज्ञायते यत् अवर्वाडी एव अवराद् इति । राजकुमारी नागाम्बिका अत्र जैनमन्दिरमेकं निर्मितवती आसीत् इति ज्ञायते । एतं विषयं पुरस्कर्तुं पार्श्वनाथतीर्थङ्करस्य कश्चन विग्रहः औरादनगरस्य जलागारस्य नवीकरणसन्दर्भे १९५७तमे वर्षे प्राप्तः अस्ति । नागाम्बिकया स्थापितस्य मन्दिरस्थः विग्रहः एव एषः इति ऊह्यते । मन्दिरस्य अवशेषाः न दृश्यन्ते ।

कल्याणीचालुक्यवंशीयः प्रसिद्धः राजा आसीत् विक्रमादित्यः-६ । सः त्रिभुवनमल्लदेवः इति बिरुदाङ्कितः आसीत् । तस्य कालीनानि पञ्चाषदधिकानि शिलाशासनानि बीदरमण्डले प्राप्तानि सन्ति । औरादनगरे तथा औरादनगरं परितः यानि शिलाशासनानि प्राप्तानि सन्ति तानि विक्रमादित्यस्य कालीनानि एव।

शिलाशासनैः ज्ञाताः केचन अंशाः

[सम्पादयतु]

एतस्य पुत्रः सोमेश्वरः-३ ११३०तमे वर्षे औरादभागं पालयति स्म । अस्य दण्डनायकः आसीत् एरयमरसः । एरयमरसः सोमेश्वरस्य अपि महामण्डलेश्वरः आसीत् । तस्य नियन्त्रणे आसीत् अयम् अवर्वाडी भागः। सः नागर्ताला ग्रामं रेवणेश्वरदेवाय समर्पितवान् आसीत् । हेम्मादियरसनामकः औरादभागस्य केषाञ्चन भागानां योगक्षेमं पश्यति स्म । प्रायः एषः करसङ्ग्रहणादिकं कुर्वन् आसीत् इति भाति ।

दण्डनायकः श्रीधरय्यः

[सम्पादयतु]

११३३तमे वर्षे तृतीयसोमेश्वरस्य दण्डनायकः आसीत् श्रीधरय्यः । सः अवर्वाड्याः शासनं करोति स्म । सः बोधानप्रदेशस्य प्रमुखः आसीत् । तस्य काले राजकुमार्या पट्टमहादेव्या भायीगवेनामकः ग्रामः सोमनाथदेवालयस्य अभिवृद्ध्यर्थं दानरूपेण दत्तः आसीत्। भायीगवेग्रामः अवर्वाड्याः भागः आसीत् । कर्डखेड इत्यत्र प्राप्तं शिलाशासनं ’श्रीधरय्यः अवर्वाडीबोधानभागयोः शासकः आसीत् ’ इति सूचयति । ततः जगदेकमल्लः, सोमेश्वरः-४(तृतीयसोमेश्वरस्य पुत्रः) च अवर्वाड्याः शासकौ आस्ताम् । तयोः अनन्तरं राजकुमारी माचलादेवी शासिका (११८४तमवर्षतः १२००तमवर्षपर्यन्तम्) आसीत् ।

स्वातन्त्र्यकाले औराद

[सम्पादयतु]

१९०५ तमवर्षात् पूर्वं बीदरमण्डले कोहिर्, औराद,जनवाडा, बीदर, उदगिर्, अह्मदपुर तथा निलङ्गा नामकानि उपमण्डलानि आसन् । जनवाडा तथा अहमदपुर हैदराबादनिझामस्य सर्फ्-ए-खासारूपेण आस्ताम् । १९०५तमे वर्षे यदा गुल्बर्गाविभागः घोषितः अभवत् तदा औराद तथा कोहिर उपमण्डले गुल्बर्गाविभागे अन्तर्भाविते औरादभागस्य केचन भागाः जनवाडाभागे योजिताः अभवन् । १९५० तमे वर्षे यदा हैदराबादसंस्थानं भारते विलीनम् अभवत् तदा पुनश्च औराद-उपमण्डलरूपेण पुनर्घटितम् अभवत् । औराद उपमण्डलस्य केन्द्रम् अभवत् । जनवाडाभागे योजिताः भागाः पुनश्च औरादभागे अन्तर्भावितानि ।

अमरेश्वरमन्दिरम्

[सम्पादयतु]

दशमे शतके एतस्य मन्दिरस्य निर्माणं जातं स्यात् । प्रवेशद्वारे द्वे गजलक्ष्म्यौ तथा चन्द्रशिलायाः वेदिका अस्ति । अस्माकं जानुनी कच्छपशिलायाः उपरि स्थापयित्वा अमरेश्वरं नन्तुं व्यवस्था कृता अस्ति । एवं गजलक्ष्म्योः, चन्द्रशिलायाः व्यवस्था दशमे शतके आसीत् ।

अमरेश्वरस्य विषयिकी लोककथा

[सम्पादयतु]

अमरेश्वरः स्वर्गलोकस्य दूतः। दशमशतकात् पूर्वं सः देवम् उद्दिश्य अरण्ये कठोरं तपः आचरन् आसीत् । तं परितः वल्मीकस्य वर्धनम् अभवत् । प्रतिदिनं काचित् धेनुः वल्मीकस्य उपरि स्वक्षीरं स्रावयति स्म । एतत् अपूर्वं दृश्यम् दृष्ट्वा समीपस्थाः जनाः चकिताः भवन्ति स्म । कुतूहलेन ते तत्र खननम् आरब्धवन्तः । तदा काचित् अशरीरवाणी श्रुता "अमरेश्वरः अत्र तपः आचरति । वल्मीकभागे खननं करोतु " इति। इदानीमपि अत्रत्याः जनाः श्रद्धया एतां कथां वदन्ति । अनन्तरकाले एतस्य मन्दिरस्य पुनर्निर्माणं जातम् अस्ति ।

भौगोलिकता

[सम्पादयतु]

औरादनगरं बेङ्गळूरुनगरतः ७१२ कि.मी.दूरे अस्ति । बीदरमण्डलस्य केन्द्रात् बीदरनगरात् ४२ कि.मी.दूरे अस्ति । अस्य नगरस्य निर्देशाङ्काः 18.25°N 77.43°E.[1] । समुद्रस्तरतः ५४२ मीटरोन्नते( १७७८ feet) स्थाने अस्ति । औराद-उपनण्डलस्य विस्तीर्णता १२२७.२० चतुरस्रकिलोमीटर् । अत्र षट् पञ्चायतकेन्द्राणि, १४९ ग्रामाः, १७७ जनाङ्गीयवासस्थानानि(ताण्डा) . समुद्रस्तरतः ५४२-६१० मीटर-उन्नते स्थाने अस्ति । अस्य उपमण्डलस्य उत्तरपश्चिमभागे महाराष्ट्रम्, दक्षिणे भाल्की, पूर्वभागे आन्ध्रप्रदेशः । अस्य मण्डलस्य पञ्चसु उपमण्डलेषु विशालम् उपमण्डलम् अस्ति ।

मृत्तिका

[सम्पादयतु]

सामान्यतः कृष्णवर्णमृत्तिका अस्ति । अत्र नैट्रेट् सल्फर् पोट्याष् अंशाः अत्यल्पप्रमाणेन सन्ति । ताम्रस्य तथा बोरानमूलधातोः न्यूनता अस्यां मृत्तिकायां नितरां दृश्यते । जलग्रहणसामर्थ्यं न्यूनम् ।

गोदावर्याः उपनदी माञ्जरा अत्र वहति ।

वातावरणम्

[सम्पादयतु]

अत्रत्यं वातावरणं हितकरं शुष्कम् । अस्मिन् उपमण्डले वर्षायाः वार्षिकप्रमाणं ८४०मिलिमीटर् । वर्षाकालः सामान्यतः ५१ दिनानि । ग्रीष्मकाले तापमानं ४०-४३डिग्री । न्यूनतमं तापमानं १५-१० डिग्री भवति ।

इतरविवरणानि

[सम्पादयतु]

२००१तमवर्षस्य जनगणनानुसारं औराद-उपमण्डलस्य जनसङ्ख्या २,४५,२९४ पुरुषाः ५२%(१,२५,७३९), महिलाः४८%(१,१९,५५५)। साक्षारताप्रमाणं ५६%(राष्ट्रियसाक्षरताप्रमाणस्य(५९.५%) अपेक्षया न्यूनम्) । एतेषु ६०% पुरुषाः, ४०% महिलाः60% साक्षराः सन्ति । १७% साक्षराः ऊनषड्वर्षियाः । जनसान्द्रता २००जनाः प्रतिचतुरस्रकिलोमीटर । लिङ्गानुपातः १०००:९५०.

The total population of Aurad taluka as per 2001 census are 2,45,294 consisting of 1,25,739 as males and 1,19,555 females. The density of population in the taluka is 200 persons per.km2; the sex ratio is 950.

"https://sa.wikipedia.org/w/index.php?title=औराद&oldid=364552" इत्यस्माद् प्रतिप्राप्तम्