कात्यायनशुल्वसूत्रम्
कात्यायनशुल्वसूत्रस्य प्रसिद्धं नाम कात्यायनशुल्वसूत्रपरिशिष्टम् अथवा कातीयशुल्वपरिशिष्टम् अस्ति। इदं भागद्वये विभक्तमस्ति । प्रथमो भागः सूत्रात्मकोऽस्ति । अस्मिन् भागे सप्त कण्डिकाः, ९० सूत्राणि च सन्ति । द्वितीयभागः श्लोकात्मकोऽस्ति । अस्मिन् खण्डे ४० अथवा ४८ श्लोकाः सन्ति । बौद्धायन-आपस्तम्बयोः शुल्वसूत्रयोः अपेक्षया अत्र कतिपयाः रोचकविशिष्टताः प्राप्यन्ते। अस्य द्वे टीके स्तः।
टीकाकाराः
[सम्पादयतु]रामः अथवा रामवाजपेयः
[सम्पादयतु]आधुनिकं लखनऊ-पार्श्ववर्ति नैमिषस्थानं तत्र जातेन रामेण कतिपया ग्रन्थाः अरच्यन्त । तेषु मुख्याः क्रमदीपिका-कुण्डलाकृतिशुल्ववार्त्तिक-स्वीयाख्यायनगृह्यपद्धतिसमरसार-समरसारसङ्ग्रह-शारदातिलकतन्त्रव्याख्या-कातीयशुल्वसूत्रव्याख्याप्रभृतयः सन्ति । कुण्डलाकृतेः रचनाकालः १४४९ ख्रीष्टाब्दोऽस्ति । फलतः रामस्य पञ्चदशशतकस्य मध्यवर्तित्वं सुप्रतीतम् ।
महीधरः
[सम्पादयतु]महीधरः काशीनिवासी प्रकाण्ड-वैदिकः आसीत् । वेदविषयकस्य तथा तन्त्रविषयकस्य च अनेके ग्रन्थरत्ना अद्याप्यस्य लभन्ते। अयं हि विद्वान् शैवदर्शनाचार्यः तन्त्ररहस्यज्ञो वेदपारङ्गमश्च आसीत् । 'मन्त्रमहोदधि’-नामकस्य तस्य तन्त्रग्रन्थस्य रचनाकालः १५८९ ख्रीष्टाब्दः तथा विष्णुभक्तिकल्पलताप्रकाशस्य रचना १५९७ ख्रीष्टाब्दी मन्यते । महीधरेण स्वकीयं कात्यायनशुल्वसूत्रस्य भाष्यभूमिकायाम् अनेकेषां ज्ञातव्यविषयाणां परिचयः प्रदत्तः। स्वगुरो रत्नेश्वरमिश्रस्य आज्ञया विद्वानयं भाष्यवृत्त्यानुसारिणीं विवृर्तिं निरमात् । भाष्यन्तु कर्काचार्यस्यैव मन्यते । रामवाजपेयिमहोदयस्य विवृत्यन्तरमेवास्य विवृतेः रचना अभवत् । कातीयशुल्वसूत्रस्य पुष्पिकायाम् अस्य परिचयः प्राप्यते -
'रसवेदाङ्गभूवर्षे भाष्यन्ते धवले दले।
त्रयोदश्यां रवेर्वारे वाराणस्यां महीघरः॥
श्रीरत्नेश्वरमिश्रस्य गुरोः केशवजन्मनः।
आज्ञया विवृतिं शौल्वीं भाष्यवृत्त्यनुसारिणीम्॥
विदुषां सुखबोधाय व्यघाद् बुद्ध्यनुसारतः।
भाष्यं रामकृतावृत्तिं सूत्राण्यालोच्य तत्त्वतः॥'[१]
महामहोपाध्यायः विद्याधरगौडः
[सम्पादयतु]महामहोपाध्यायविद्याधरगौडः अपि कात्यायनश्रौतसूत्रस्य कातीयशुल्वसूत्रस्य च स्वकीयां सरलां सुबाधां च व्याख्यां निर्माय। एतान् ग्रन्थान् जनसाधारणेभ्यः अपि बोधगम्यम् अकरोत्। ख्रीष्टस्य १८८६ ईशवीये विद्याधरमहोदयो जन्मपरिग्रहँ चकार । अस्य पितुः नाम महामहोपाध्याय-पण्डितप्रभुदत्त इत्यासीत् । प्रभुदत्तस्तु कर्मकाण्डस्य विद्वान् आसीत् । पितापुत्रावुभावपि महामहोपाध्यायावास्ताम् । अयं हि विद्याधरः काशीहिन्दूविश्वविद्यालये वेदविभागस्याध्यक्षपदम् अलङ्कृतवन्तौ। विद्याधररचितस्य कात्यायनश्रौतसूत्रस्य 'सरला'-नाम्नी व्याख्या कर्काचार्यस्य भाष्यस्य बहुशः अनुगमनं करोति। किञ्च भाष्यस्य काठिन्यस्थले अत्र सारल्यस्य च धारा प्रवाहिता भवति । सरलावृत्तेः च उपोदघाते श्रौतयागविषयकस्य समस्तानां प्रमेयाणामतीव सरलशैल्यां सविस्तरेण प्रतिपादनमस्ति । अस्मिन् प्रतिपादने ग्रन्थकारस्य वैदिकशास्त्राणाम् आलोडनमेवं मीमांसाशास्त्रस्य च गम्भीराध्ययनं परिस्फुरितं भवति। कातीयशुल्वसूत्रस्य टीकायाम् अप्येवंविधैव विशिष्टता वर्तते । विषयस्य प्रतिपादनं सुबोधरीत्या सोदाहरणं कृतमस्ति । निधनश्चास्य काश्यामेव १९४१ ईशवीयेऽभवत् ।
मानवशुल्वसूत्रम्
[सम्पादयतु]यद्यपि लघुकायिके ग्रन्थेऽस्मिन् गद्यपद्ययोः मिश्रणमुपलभ्यते, तथापि नासौ चम्पूप्रकारः । ग्रन्थेऽस्मिन् अभिनववेदीनां वर्णनं प्राप्यते। अत्र सुपर्णचितिनाम्ना तत्प्रसिद्धवेद्या वर्णनमस्ति या 'शयेनचितिः' इति नाम्नाऽन्यत्र प्रसिद्धाऽस्ति ।
सम्बद्धाः लेखाः
[सम्पादयतु]सन्दर्भाः
[सम्पादयतु]- ↑ डॉ. स्टडीज इण्डियन लिटरेरी हिस्ट्री, भा. २ पृ. १०७-१२१