शुल्वसूत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

शुल्वसूत्रं वेदाङ्गान्तर्गतकल्पसूत्रस्यान्यतम् अङ्गमस्ति। शुल्वसूत्र भारतवर्षे रेखागणितस्य पुरातनेतिहासस्य ज्ञानाय नितान्तमावश्यकमस्ति। वैदिककर्मकाण्डमेव शुल्वसूत्रस्य मुख्यविषयोऽस्ति। शुल्वशब्दस्यार्थों भवति ‘रज्जुः' । अतः ‘रज्वा मापितवेद्या रचना' शुल्वसूत्रस्य प्रतिपाद्यविषयोऽस्ति ।

सङ्ख्या[सम्पादयतु]

सैद्धान्तिकदृष्ट्या प्रत्येकस्याः वैदिकशाखायाः स्वं विशिष्टं शुल्वसूत्रं भवति, किञ्च व्यवहारत एवं न भवति । कर्मकाण्डेन सह मुख्यतः सम्बद्धत्वेन यजुर्वेदस्यैव शाखार्याः शुल्वसूत्राण्युपलब्धानि भवन्ति । यजुर्वेदस्यैवानेकशाखायां शुल्वसूत्राणामस्तित्वं प्रप्यते। शुक्लयजुर्वेदेन सम्बद्धमेकमेव कात्यायनशुल्वसूत्रमस्ति, किञ्च कृष्णयजुर्वेदेन सम्बद्धानि षट् शुल्वसूत्राणि लभन्ते। तद्यथा – बौधायन-आपस्तम्ब-मानव-मैत्रायणीय-वाराह-वावुलशुल्वसूत्राणि चेति । एतदतिरिक्तः आपस्तम्बशुल्वसूत्रस्य टीकायां[१] करविन्दस्वामिना मशकशुल्वसूत्रस्य, हिरण्यकेशीशुल्वसूत्रस्य चोल्लेखः कृतः । आपस्तम्बशुल्वसूत्रे[२] हिरण्यकेशीशुल्वसूत्रादेकमुद्धरणमप्युपलभ्यते ।

बौधायनशुल्वसूत्रम्[सम्पादयतु]

सप्तोपलब्धसूत्रेषु बौधायनशुल्वसूत्रमेव प्रायः सर्वाधिकं प्राचीनं मन्यते। अस्मिन् त्रयः परिच्छेदाः सन्ति । प्रथमपरिच्छेदे ११६ सूत्राणि सन्ति । द्वितीयपरिच्छेदे ८६ सूत्राणि सन्ति । तृतीयपरिच्छेदे ३२३ सूत्राणि सन्ति । यज्ञयागादिविषये एवास्य ग्रन्थस्य मुख्यवर्ण्यविषयोऽस्ति ।

टीकाकाराः[सम्पादयतु]

द्वारकानाथयज्वा[सम्पादयतु]

अयम् आर्यभटस्य पश्चाद्वर्ती मन्यते। स्वीयां टीकायाम् अनेनार्यभटः स्मृतः । अस्य टीकायाः नाम शुल्वदीपिका इति अस्ति । द्वारकानाथयज्वा स्वटीकायाः पुष्पिकायां ‘महात्मजः' इत्येवं लिखितवान् । एतावदेवास्य विषये ज्ञातो भवति। आङ्ग्लानुवादेन आलोचनात्मकटिप्पणीभिश्च सहिता इयं टीका डा० धीवो-महोदयेन प्रकाशिता । अस्य सुष्ठु संस्करणं पुनर्मुद्रणञ्च महालक्ष्मी-पब्लिशिग-हाउस, नई दिल्लीतः १९८० ख्रीष्टाब्देऽभवत्।

वेङ्कटेश्वरदीक्षितः[सम्पादयतु]

अस्य टीकायाः नाम शुल्व-मीमांसा इति अस्ति । यज्वनः अपेक्षया अर्वाचीनोऽयं ग्रन्थकारः मन्यते।

आपस्तम्बशुल्वसूत्रम्[सम्पादयतु]

अापस्तम्बस्य शुल्वसूत्रं षट् पटलेषु विभक्तमस्ति । अस्य ग्रन्थस्य आभ्यन्तरे अन्यावान्तरवर्गाः सन्ति । अनेन प्रकारेण अस्मिन्नेकविंशतिः अध्यायाः, २२३ सूत्राणि च सन्ति । अन्तिमाध्याये काम्येष्ट्यै आवश्यकविभिन्नवेद्या आकारप्रकारस्य विशदं विवेचनमस्ति ।

कात्यायनशुल्वसूत्रम्[सम्पादयतु]

कात्यायनशुल्वसूत्रस्य प्रसिद्धं नाम कात्यायनशुल्वसूत्रपरिशिष्टम् अथवा कातीयशुल्वपरिशिष्टम् अस्ति। इदं भागद्वये विभक्तमस्ति । प्रथमो भागः सूत्रात्मकोऽस्ति । अस्मिन् भागे सप्त कण्डिकाः, ९० सूत्राणि च सन्ति । द्वितीयभागः श्लोकात्मकोऽस्ति । अस्मिन् खण्डे ४० अथवा ४८ श्लोकाः सन्ति । बौद्धायन-आपस्तम्बयोः शुल्वसूत्रयोः अपेक्षया अत्र कतिपयाः रोचकविशिष्टताः प्राप्यन्ते। अस्य द्वे टीके स्तः।

मैत्रायणीयशुल्वसूत्रम्[सम्पादयतु]

मानवशुल्वस्यैव द्वितीयसंस्करणमिदमस्ति । उभयोः सूत्रयोर्मध्ये न केवलं विषयस्य समानत्वमस्ति, प्रत्युत श्लोकानामपि समरूपता अस्ति। किञ्चोभयोर्मध्ये कतिपयानि अन्तराण्यपि सन्ति, विशेषतः क्रमव्यवस्थायाञ्चेति ।

वाराहशुल्वसूत्रम्[सम्पादयतु]

शुल्वसूत्रमिदं मानवशुल्वसूत्रमिव एवाऽस्ति । मैत्रायणीयशुल्वसूत्रस्यापीदं छायामनुवहति । कृष्णयजुर्वेदेनैव सम्बद्धोऽयं ग्रन्थोऽस्ति ।

टीकाकारः[सम्पादयतु]

काशीनिवासी नारदस्य पुत्रः शिवदासनामको विद्वान् आसीत् । अस्य जन्म विद्यापीठतया प्रथिते काश्यामेवाभवत् । अत्रैव विद्यापीठे स्थित्वा मानवशुल्वसूत्रस्य टीकाग्रन्थं निबबन्ध । शिवदासस्यानुजः शङ्करभट्टी मैत्रायणीयशुल्वसूत्रोपरि स्वकीयां टीकां निरमात्। द्वाभ्यां भ्रातृभ्यां स्व-स्वटीकाग्रन्थे श्रीरामवाजपेयीमतानि स्मर्यन्ते स्म, यतः शिवदासः रामवाजपेयीमहोदयस्य मतमित्युदाजहार । अयं हि महोदयः सायणस्य मतमपि समुद्धृतवान् । तेनास्य चतुर्दश शतकात्परवर्त्तित्वं मन्यते। शुल्वसूत्रैः सह सम्बद्धस्य प्राचीनसाहित्ये इयमेव रूपरेखा वर्तते ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यपरिसन्धयः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. ( ११॥११ )
  2. ( ६॥१० )
"https://sa.wikipedia.org/w/index.php?title=शुल्वसूत्रम्&oldid=436303" इत्यस्माद् पुनः प्राप्तिः