काफीचूर्णम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
काफीसस्यम्
विक्रयणार्थं सज्जीकृतं काफीचूर्णम्
काफीफलम्
काफीचूर्णस्य निर्माणम्
काफीबीजानि

एतत् काफीचूर्णं भारते अपि वर्धमानस्य कस्यचित् सस्यविशेषस्य वैशिष्ट्यम् । एतत् काफीचूर्णम् अपि सस्यजन्यः आहारपदार्थः । एतत् काफीचूर्णम् आङ्ग्लभाषायां Coffee Powder इति उच्यते । काफीसस्यस्य बीजानि भर्जयित्वा एतत् चूर्णं निर्मीयते । तेन कफीचूर्णेन "काफी" नामकं पेयं निर्मीयते । तत् पेयं सर्वदा उष्णं कदाचित् शीतलं चापि पीयते । अनेन काफीचूर्णेन निर्मीयमाणं काफीपेयं जगति एव अत्यन्तं जनप्रियं पेयम् अस्ति । अनेन काफीचूर्णेन २००३ तमे वर्षे निर्यातवस्तुषू विश्वे एव षष्ठं स्थानं प्राप्तम् अस्ति । आरम्भस्य पञ्चस्थानानि क्रमशः गोधूमेन, रागीधान्येन, सोयाधान्येन (निष्पावप्रभेदः), तालतैलेन, शर्करया च प्राप्तम् अस्ति ।

बह्वीषु संस्कृतिषु अनेन काफीपेयेन प्रमुखं स्थानं प्राप्तम् अस्ति । दक्षिणभारते तु गृहम् आगतेभ्यः अतिथिभ्यः काफीदानम् अतिथिसंस्कारस्य अङ्गभूतम् । कुत्रचित् काफीपेयं निषिद्धम् अपि आसीत् । १६ शतके मेक्का सदृशेषु देशेषु एतत् काफीपेयम् उत्तेजनकारकम् इति निषिद्धम् आसीत् । १७ शतके इङ्ग्लेण्ड्देशे काफीपेयं राजकीयविद्रोहिभिः केवलम् उपयुज्यते इति निषिद्धम् आसीत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=काफीचूर्णम्&oldid=345328" इत्यस्माद् प्रतिप्राप्तम्