कालीदासीयोपरूपकाणां समुच्चयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कालीदासीयोपरूपकाणां समुच्चयः  
Kalidas.jpg
उज्जैन्यां कालिदासचित्रम्
लेखकः नाटकसमुच्चयस्य एकाधिकलेखकाः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

कालिदासीयोपरूपकाणां समुच्चय इति कालिदास-स्मृतिसमारोहावसरेषु कालिदासीय-काव्य-पात्र-चरितादीनि समाश्रित्य विद्वभिः विरचितानां रूपकाणां संग्रहोऽयं प्रकाशितः । तत्रैकादशोपरूपकाणि संकलितानि ।

वीर-वदान्यम्[सम्पादयतु]

वीरवदान्यस्य रचयिता एम० ए०, डी० लिट् इत्युपाधिविभूषितो डा० चण्डिकाप्रसादशुक्लः प्रयागविश्वविद्यालय प्रवाचकः । अत्र रघुवंशस्य प्रथम-द्वितीय-तृतीय-पञ्चमसर्गाणां कथाः क्रमशः प्रथमद्वितीय-तृतीय-चतुर्थाङ्केषु विलसन्ति । भाषा भावस्तथा शैली कालिदासानुसारं प्रवर्तन्ते । डा० शुक्लस्य तापस-धनञ्जय-नामापरं नाटकं किरातार्जुनीयमुपजीवति । प्रयागविश्वविद्यालयस्य संस्कृत-विभागेनाभिनीतमिदमप्रकाशितमयावधि लेखकस्य सविधे वर्तते ।

पुनःसङ्गमम्[सम्पादयतु]

पञ्चाङ्केषु विभक्तस्य पुनःसङ्गमस्य प्रणेता न्यायाचार्य आनन्दझा लखनऊ-विश्वविद्यालयस्य व्याख्याता । उपरूपकमिदं दरभङ्गाविश्वविद्यालयस्य महेशठक्कुर-ग्रन्थमालातः १९६५ ख्रीष्टाब्दे प्रकाशितम् । अत्र कुमारसंभवस्य प्रथम-तृतीय-पञ्चमाङ्कानां कथानकं रूपकायितम् । गद्यात्मक-संवादा रुचिकराः सन्ति । नान्द्याः प्रस्तावनाया भारतवाक्यस्य चाभावो वर्तते ।

कालिदास-पाणिकरणम्[सम्पादयतु]

कालिदास-पाणिकरणस्य लेखक आरानगर्या बालगोविन्दविद्यालयस्याध्यापकः पं० रमानाथपाठको वर्तते। लोकोक्तिमधिकृत्य कालिदासस्य मौख्यं, राजकुमार्या सह मौनशास्त्रार्थः, विवाहः, पत्न्या गृहान्निस्सारणम् , देव्याराधनम् , वैदुष्यप्राप्तिः गृहागमनम्, पतिपत्न्योः संयोगश्चैते प्रसङ्गा भरतवाक्यरहिते पटाक्षेपेषु विभक्ते दृश्यत्रयात्मकेऽस्मिन्नाटके विराजन्ते ।

सीता-त्यागम्[सम्पादयतु]

सीतात्यागस्य रचयिता दक्षिणभारतस्य नान्देडे संस्कृतमहाविद्यालयस्य अध्यापकोऽच्युततात्यारावबोडवेऽस्ति। कृतावस्यां रघुवंशस्य चतुर्दशसर्गस्योत्तररामचरितं कथा वस्तु वर्तते ।

मदनदहनम्[सम्पादयतु]

मदनदहनस्य प्रणेता मुम्बई-वास्तव्यो रमेशखेरो विद्यते । प्रस्तावनानुसारमेतत्प्रवेशद्वयात्मकसंगीतप्रधाना एकाङ्कनाटिकैव । मदनदहनस्य प्रथमोऽभिनयो विल्सनमहाविद्यालयस्य संस्कृत-मण्डलेनायोजितः, पश्चान्मुम्बय्या नभोवाण्यास्य प्रसारणमभवत् । गद्यात्मकसंवादरहितेऽस्मिन्नुपरूपके कालिदासीयपद्यैः सह स्वरंचितपद्यान्यपि संवलितानि सन्ति।

कालिदासम्[सम्पादयतु]

कालिदासमित्येकांकनाटकस्य रचयिता पण्डितो वनेश्वर पाठकः राँचीनगर्यो सेन्टजेवियरमहाविद्यालयेऽध्यापकः। श्रीपाठकेन १९७५ खीष्टाब्दे कालिदासस्य मेघदूतमनुसृत्य प्लवङ्गदूतनामक सन्देशकाव्यं प्रकाशितम् । विहारस्य सीवानमण्डले समुप्पन्नोऽयं काशीतः साहित्याचार्यः एम० ए० उपाधिकश्चाभवत्। रूपकेऽस्मिन् पराजितपण्डितानां योजनया राजकन्यया सह मूर्खकालिदासस्य विवाहः, तस्य मौख्यप्रकटनम् , निर्वासनम्, दिङ्नागाचार्येण मिलनम् , तस्यादेशेन कालीपूजनम् कवित्व-प्राप्तिः। आचार्याश्रमे विक्रमादित्यस्य राजकुमार्यादीनाञ्चागमनम् राजकुमार्यै रघुवंशादिकाव्यसमर्पणमित्यादि रूपकायितम्।

मदनदहनम्[सम्पादयतु]

रा० श० महाराजेन मदनदहनमिति प्रवेशये विभक्तम् । एतस्मिझटके मदनदहनस्य कथावस्तु कुमारसंभवमुपजीवति।

गुरुदक्षिणा[सम्पादयतु]

दरभङ्गावास्तव्येन यदुवंशमिश्रेण व्याकरणाचयेण गुरुदक्षिणायाञ्चतुषु दृश्येषु रघुवंशस्थपञ्चमसर्गस्य पकरणं रूपकायितम् ।

इन्दुमती-परिणयम्[सम्पादयतु]

इन्दुमतीपरिणयस्य रचयिता श्रीनारायणमिश्रो मिथिला-संस्कृतविद्यापीठस्य गवेषक आसीत् । रूपकेऽस्मिन रघुवंशस्थसप्तमसर्गस्याजविवाहः कथावस्तु वर्तते । एतस्याभिनयो दरभङ्गा-संस्कृत विश्वविद्यालयस्य विद्वत्परिषदा प्रयुक्तः।

कालिदास-गौरवम्[सम्पादयतु]

कालिदासगौरवस्य प्रणेता दरभङ्गामण्डलान्तर्गते जयपुरनगरस्य संस्कृतमहाविद्यालयाचार्यो झापाह्नो जीवनाथशर्मा । रूपकेऽस्मिन् कालिदासस्य मौर्ख्यं, तदनन्तरं वरप्राप्तिः, महाकवित्वावाप्तिः, विक्रमादित्यात्सम्मानाप्तिश्च कथावस्तु विन्यस्तम् ।

शाकुन्तलम्[सम्पादयतु]

शाकुन्तलस्य प्रणेता रामावतारमिश्रोऽध्यापको वर्तते । नाटकेऽस्मिन् शकुन्तलादुष्यन्तयोर्गान्धर्व विवाहानन्तरं कथा प्रारभ्यते । दुष्यन्तः स्ववचो विस्मृत्य शकुन्तला कण्वस्याश्रमात् न स्वगृहं नानयति । पश्चात् काश्यपस्याश्रमेऽनयोः समागमेन निर्वहणे कथावस्तु प्रवर्तते।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]