काव्यभेदाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नेविगेशन पर जाएँ खोज पर जाएँ



स्वभाव- स्वरुप –वस्त्वर्थादीन् अनुसृत्य काव्यमनेकधा विभक्तम् । स्वभावरीत्या काव्यं श्रव्यदृश्यभेदेन दिवविधम् । केवलं श्रवणयोग्यं काव्यं श्रव्यमुच्यते । श्रोतुं द्रष्टुं च शक्यं काव्यं दृश्यमुच्यते । दृश्यकाव्यस्य रुपकमिति नामान्तरम् । अत्र रामरावणादि पात्राणि तद्वेषभाषाद्यभिनयकर्तृषु नटेष्वारोप्यन्त इति रुपकव्यवहारस्सञ्जातः ।

स्वरुपभेदमादाय पद्यं गद्यं उभयमिति काव्यं त्रिविधम् । केवलपद्यमयानि काव्यानि पद्यकाव्यानि, केवल गद्यमयानि काव्यानि गद्यकाव्यानि, गद्य पद्योभयमयानि च काव्यानि –उभयकाव्यानि । एषामेव चम्पूकाव्यानीत्यपि व्यवहारः । संस्कृतरुपकाणि गद्यपद्योभयमयानि दृश्यन्ते । अधुना सर्वासु भाषासु रुपकाणि गद्यपद्य-उभयात्मकतया लक्ष्यन्ते ।

वस्तुभेदमाधारीकृत्य प्रख्यात –उत्पाद्य –मिश्रभेदेन काव्यं त्रिविधं भवति । भारत-रामायण- पुराणादिप्रसिध्दमितिवृत्तं यत्र वर्ण्यते तत्काव्यं प्रख्यातमुच्यते । यत्र काव्ये सर्वं वस्तु कविकल्पितं भवति तदुत्पाद्यं काव्यम् । यत्र वस्तु प्रसिध्दं कल्पितं च भवति तन्मिश्रं काव्यम् । भट्टुमूर्ति नाम्ना प्रख्यातः आन्ध्रभाषा कविवरेण्यः स्वीये वसुचरित्रकाव्ये मिश्रं काव्यमुत्तमं भवतीति प्रशशंस । केवलकल्पनामयवस्तुकानि काव्यानि कृत्रिमरत्नानि, प्रख्यातवस्तुकानि काव्यानि असंस्कृतरत्नप्रायाणि, कविकल्पनासहितानि प्रख्यातेतिवृत्तानि काव्यानि सुसंस्कृतानि जातिरत्नानीति तस्याशयः ।

प्रतिपाद्यमर्थमाश्रित्य ध्वनि-गुणी भूतव्यङ्यचित्रभेदेनकाव्यं त्रिविधम् । यत्र रसालङ्कारवस्तुरुपस्य ध्वन्यात्मकस्यार्थस्य प्राधान्यं तत् ध्वनिकाव्यमुच्यते । अस्यैव उत्तमकाव्यमित्यपि नामान्तरम् । यत्र वाच्यार्थापेक्षया व्यङ्यार्थः , अनुत्कृष्टो भवति तत्काव्यं गुणीभूतव्यङ्यकाव्यमुच्यते । अस्यैव मध्यमकाव्यमित्यपि नामान्तरम् । यत्र व्यङ्यार्थोऽस्फुटो निगूढो वा भवति तत्काव्यं चित्रकाव्यमुच्यते । अस्यैव अधमकाव्यमित्यपि व्यवहारः । जगन्नाथपण्डितस्तु काव्यं उत्तमोत्तम्- उत्तम- मध्यम्- अधम भेदेन चतुर्विधं विभक्तवान् । अस्य मते ध्वनिकाव्यमुत्तमोत्तमं भवति । गुणीभूतव्यङ्यं तु उत्तम-मध्यम-भेदेन विभक्तम् । यत्र व्यङ्यार्थोऽप्रधानः एव सन् चमत्कारमातनोति तदुत्तमं काव्यम् । यत्र काव्ये व्यङ्यार्थः परिस्फुरन्नपि न चमत्कारमातनोति तन्मध्यमं काव्यम् । प्राचीनैश्चित्रकाव्यमित्युक्तमेव जगन्नाथस्य मतेऽधमकाव्यं भवति । तदपि शब्दचित्रमर्थचित्रमिति द्विविधम् । सरस्वतीकण्ठाभरणे भोजः काव्यं षोढा विभक्तवान् । काव्यम् शास्त्रं इतिहासः काव्यशास्रं काव्येतिहासः शास्त्रेतिहासः इतीमे काव्यभेदाः । काव्यशास्त्रं नाम काव्य- शास्त्रलक्षणलक्षितम् । एवं काव्येतिहासादिभेदानामपि स्वरुपानुगुणं लक्षणमूह्यम् । क्षेमेन्द्रः शास्रकाव्यं काव्यशास्त्रमिति काव्यस्य भेदद्वयमुक्त्वा क्रमात् भट्टिकाव्यं चतुर्वर्गसारसंग्रहं चोदाजहार । चतुर्वर्गनिरुपणं रसनिरुपणं च यत्र भवति तत् शास्त्रकाव्यम् । उभयत्रापि काव्यशास्त्रयोर्लक्षणानि भवन्ति । वामनः काव्यालङ्कारसूत्रवृत्तौ गद्यपद्यात्मकं काव्यं निबध्दाऽनिबध्दभेदेन द्विधा विभक्तवान् । यत्र काव्ये निबिडं सुन्दरं च वर्णनं पुष्पमालानुकारिपद्यगद्यसमाहाररुपं च भवति तत्काव्यं निबध्दम् । मालाकारो यथा पुष्पानन्तरं पुष्पान्तरं योजयति तथा कविरपि प्रथमं प्रत्येकं पद्यं गद्यं च निर्माय क्रमशः निबध्दं काव्यं रचयितुं समर्थो भवति । निबध्दकाव्यानां रधुवंशादीन्युदाहरणानि । केचित् स्वमात्रविश्रान्ते गद्यपद्ये विरचय्य निर्वृता भवन्ति । एतानि चानिबध्दानि काव्यानि भवन्ति । परमेकतेजः परमाणुवत् अनिबध्दं न प्रकाशत इति वामनस्य मतम् । दृश्

नन्नेचोडनामकः आन्ध्रभाषा कविः कुमारसम्भवनामके काव्येमार्गदेशीभेदाभ्यां कवितायाः द्वैविध्यं प्रत्यपादयत् । संप्रदायोऽयं संगीतशास्त्रे कर्णाटक्भाषायां च दृश्यते । केचित् संस्क्रुतभाषाकवितां मार्गकवितां, प्रान्तीयभाषालक्षणलक्षितां च कवितां देशीति च भावयन्ति । अपरे तु प्रान्तीयभाषाकवितायामपीदं भेदद्वयं भवतीत्यभिप्रयन्ति । तत्र संस्कृतभाषा –लक्षण – संप्रदायबहुला कविता मार्गकविता । प्रान्तीयेन छन्दसा प्रान्तीयभाषाबहुलतया विरचिता कविता देशीकविता ।

काव्यभेदाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=काव्यभेदाः&oldid=406442" इत्यस्माद् प्रतिप्राप्तम्