काव्यवृत्तयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जगन्नाथः
जगन्नाथः
जगन्नाथः
वामनः
वामनः कवि
वामनः कवि

व्यवहारः एव वृत्तिरित्यभिनवगुप्तो वृत्तिं व्याचरव्यौ । व्यवहारो नाम नायिकानायकयोर्व्यापारः । रत्नेश्वरोऽपि सरस्वतीकण्ठाभरणस्य व्याख्यायां चित्तस्य विकासविक्षेपविस्तारादि जनको व्यापारः एव वृत्तिरिति निर्वचनमहरोत् । व्यापारोऽयं शब्दाश्रितोऽर्थाश्रितः इति द्विविधो भवति । शब्दाश्रितो व्यापारश्शब्दवृत्तिः । शब्दवृत्तयोऽपि अभिधादिवृत्तयः, उपनागरिकादिवृत्तयश्चेति द्विधद्वयं भवति । तत्राभिधादिवृत्तयो ध्वनिसोपाने व्याख्याताः । उपनागरिकादि वृत्तयस्त्वधुनाऽत्र व्याख्यास्यन्ते ।

उपनागरिका, परुषा, ग्राम्याऽथवा कोमला चेति तिस्त्रो वृत्तयः उद्भटेन प्रतिपादिताः । प्रथममेताः अनुप्रासाश्रयाः आसन् । अत्र वृत्तिशब्देन नियतवर्णाश्रितो रसविषयो व्यापारो विवक्षितः । रुद्रटस्य मते मधुरा, परुषा, प्रौढा, ललिता, भद्रा, चेति वृत्तयः पञ्चधा भवन्ति । मम्मटस्तूद्भटप्रोक्तमुपनागरिकादिवृत्तित्रयं, वामानादि प्रोक्ते वैदर्भ्यादिरीतित्रयेऽन्तरभावयत् । अभिनवगुप्तो रीतयोऽपि गुणेष्वेव पर्यवस्यन्तीत्यभ्युपगम्य वृत्तयो रीतयश्च माधुर्यौजः प्रसादगुणेभ्योऽनतिरिक्ता एव इति आनन्दवर्धनमतमनुससार । गुणाः रसोचितशब्दाश्रिताः भवन्ति । रीतयो गुणसमूहात्मिकाः एव । रीतयः इवोपनागरिकादिवृत्तयोऽपि शब्दाश्रिता भवन्तीति तयोरभेदाङ्गीकारे नास्ति दोषलेशः । जगन्नाथोऽपि पण्डितरीतिमेव वृत्तिशब्देनापि व्यवहरन्तीति, तासां निर्माणे कविभिस्सातिशया श्रध्दा स्वीकार्येति च प्रत्यपादयत् । ततश्च तत्तद्रसानुगुणतया निरुप्यमाणेषु माधुर्यौजः प्रसादाख्येषु गुणेष्वेव वैदर्भ्यादिरीतयः, उपनागरिकादिवृत्तयश्चान्तर्भवन्तीति कथयितुं शक्यते ।

वृत्तिभेधाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=काव्यवृत्तयः&oldid=391337" इत्यस्माद् प्रतिप्राप्तम्