कुलशेखरवर्मा
कुलशेखरवर्मा | |
---|---|
जननम् | मध्यकालः |
वृत्तिः | लेखकः |
राष्ट्रीयता | भारतीयः |
प्रकारः | नाट्यकारः |
विषयाः | पौराणिक-ऐतिहासिकनाटकानि |
प्रमुखकृतयः | सुभद्राधनञ्जयम्, तपसीसंवरणम् |
विषयैः प्रभावितः
भारतीयपुराणशास्त्रम्, भारतस्य इतिहासः
|
कुलशेखरवर्मा केरलानां महाराजो महोदयपुरमधिवसन् नवमशताब्दे विरराज। राजशेखरेण स्तुतास्य गद्यकाव्यकृतिराश्चर्यमञ्जरी नाद्ययावत् प्राप्ता। तपतीसंवरणं सुभद्राधनञ्जयं चेति नाटकद्वयमस्य यशोवितानं बिभ्रदवलोक्यते । नावं सम्प्रेष्य समाहूतः कोऽपि विपश्चित् प्रार्थितः कुलशेखरेण स्वकृतीर्व्याख्यातुं, व्याख्यानात् प्राक् सतर्कं समवेक्षितुं च । सप्रशंसमसौ पण्डितोऽमुं परमभागवतं निर्धारयामास । तपतीसंवरणस्य भरतवाक्यमपि तदेतत् पुष्णाति -
अन्योन्यं जगतामपाकविरसा मूर्च्छन्तु मैत्रीरसाः
संगृह्णन्तु गुणान् कवेः कृतधियां मात्सर्यवन्ध्या धियः।
विश्लिष्यद् विषयानुषङ्गकलुषोभावा घनश्यामले
भक्तिर्मे परिपच्यतामहरहः श्रेयस्करी श्रीधरे।।
कुलशेखरस्य कृतिस्तं नाट्यशास्त्राचार्यप्रकाण्डं सूचयति । कथानक-बन्धेषु यथा तथैव काव्यार्थनिर्वाहेष्वमुष्य शेमुषी हरति सहृदयानामन्यमनस्कतां निमज्जयन्ती रसस्रोतसि चित्तानि।
कविप्रशंसा
[सम्पादयतु]श्लिष्टं साङ्गरूपकं निर्वाहयन् योगशास्त्रीयां विच्छित्तिं पुष्णन् सुभद्रापदे वैदग्ध्य-भङ्गीमुद्भावयन् कस्य न सुमनसो मनो हरति कुलशेखरः -
यस्याः कृते यतिधुरामवलम्बमानो
योगं दधासि न चिरादपुनर्निवृत्तिम् ।
क्लेशं जहतु सहभुवं मधुरां मतिर्मे
प्राप्नोषि निर्वृतिमचिन्त्यरसां सुभद्राम्।।[१]
निसर्ग-चित्रेषु चित्र-वर्ण-योजना-कौशलं कविं कुलशेखरं यथार्थनामानं करोति -
विश्लिष्यद्दलमालया प्रविरलैः पृथ्वीरुहामासवै-
रन्तर्बद्धकलङ्कया कलिकया प्रस्तूयते मंजरी।
गायन्तो गलरागमङ्कररसैश्चूतस्य चञ्चुक्षतेः
श्च्योतद्भिः शिशिरोपरोधशिथिलं पुष्णन्ति पुंस्कोकिलाः।।[२]
लघुतरवाक्य-विन्यासे प्रवीणः कुलशेखरः -
अतिलघयसि लज्जां धैर्यबन्ध धुनासि
प्रथयसि परितापं प्रश्रयं प्रक्षिणोषि।।[३]
अपि च,
इमौ कर्णौ कर्णौ श्रुति-सुख-निविष्टेदृशगिरा-
वमू दृष्टी दृष्टी सपदि परिपीताकृतिसुधे।
अमून्यङ्गान्यवशमपतद् येषु गगना-
दिदं चित्तं चित्तं वहति यदि मां वामनयनाम्।।[४]
असतां तावत् कतिपयास्त्रुटयस्त्रुटय इव संवत्सरे कुलशेखर-कृतिसमुच्चये, कवित्वेन महीयसी प्रतिभा जाज्वलीति या नैव विवादमुत्साहयति प्रेक्षावताम्।
तपतीसंवरणम्
[सम्पादयतु]- तपतीसंवरणं कुलशेखरवर्मणः कृतिः अस्ति। अस्मिन् षट् अङ्काः सन्ति । महाभारतस्य आदिपर्वणः उद्धृतम् अस्ति इतिवृत्तम् । अनपत्यतया दुःखितः संवरणः तपतीं परिणीय पुत्रम् आप्नोति । एषः तस्य कथा सारांशः । श्रृङ्गारः एव अङ्गी रसः । अस्यनाटकस्य सम्पादनं टि. गणपतिशास्त्रि- महोदयेन ट्रिवेण्ड्रं संस्कृत-सीरीस्-तः १९११ तमे संवत्सरे कृतम् ।
सुभद्राधनञ्जयम्
[सम्पादयतु]सुभद्राधनञ्जयं नाम कुलशेखरप्रणीतं पञ्चाङ्कं नाटकं वर्तते। महाभारताद् गृहीतेऽस्य कथानके कुलशेखरः कांश्चिदभिनवरसोल्लासान् प्रस्तौति । अलम्बुषेण रक्षसा द्विः सुभद्राहरणं, गात्रिका-समावेशः, परमहंसवेषं धनञ्जयं सम्भावयितुं रामकृष्णयोर्गमनं, सुभद्रायाः कृते तादृशमुनि-सेवावसरः, सुभद्रायाः प्रेमालम्बनीभावः पुरुषत्रयस्य, पाशयोजना, इत्येवमादिकं तथा नियोजितं यथा सहृदयान् भूयिष्ठमावर्जयेत्।