सुभद्राधनञ्जयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
सुभद्राधनञ्जयम्  
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति
लेखकः कुलशेखरवर्मा
देशः भारतम्
भाषा संस्कृतम्

सुभद्राधनञ्जयं नाम कुलशेखरप्रणीतं पञ्चाङ्कं नाटकं वर्तते। महाभारतस्य आदिपर्वणः गृहीतेऽस्य कथानके कुलशेखरः कांश्चिदभिनवरसोल्लासान् प्रस्तौति । अलम्बुषेण रक्षसा द्विः सुभद्राहरणं, गात्रिका-समावेशः, परमहंसवेषं धनञ्जयं सम्भावयितुं रामकृष्णयोर्गमनं, सुभद्रायाः कृते तादृशमुनि-सेवावसरः, सुभद्रायाः प्रेमालम्बनीभावः पुरुषत्रयस्य, पाशयोजना, इत्येवमादिकं तथा नियोजितं यथा सहृदयान् भूयिष्ठमावर्जयेत्। सुभद्रायाः गुणगानश्रवणेन आकृष्टः अर्जुनः संन्यासवेषं धृत्वा द्वारकायां वसति । उचिते सन्दर्भे प्राप्ते ताम् अपहरति च । एतदेव अस्य इतिवृत्तम्। ऐद्म्प्राथम्येन अस्य सम्पादनं टि. गणपतिशास्त्रिमहोदयेन १९१२ तमे संवत्सरे शिवरामकृतया विचारतिलकव्याख्यया सह कृतम् । अस्य आङ्गलेयविवर्तनम् अधुनापि उपलभ्यते । केरलस्य पारम्पर्यनाटकरङ्गे अस्य अतीवप्राधान्यमस्ति । धनञ्जयध्वनिः अथवा व्यङ्ग्यव्याख्या इति अज्ञातकर्तृकव्याख्यानान्तरम् एतत् अस्तित्वे आगतम् ।

कथावस्तु[सम्पादयतु]

अर्जुनो वर्षेण तीर्थाटन-नियमं समाप्य सुभद्राप्रणय-सुख-सम्मुखः पराङ्मुखश्च गृहाद् द्वारकाभिमुखः कृष्णं द्रष्टु गतः । उपप्रभासतीर्थं वटच्छाये विश्राम्यन्नसौ कमनीयां कामपि तरुणीमपहरतो राक्षसादाग्नेयास्त्रेणारक्षत् । युवानौ तौ मिथः प्रेमपराधीनावास्ताम् । अप्रत्यभिज्ञाय परस्परं तौ पश्चात्तापग्लान-मानसावभूताम् । सा कन्या सुभद्रा प्रागर्जुने निषक्तहृदया सम्प्रति अज्ञातकुलशीलमन्यं प्रति जातरागेति, अर्जुनश्च सुभद्राया ऋतेऽन्यामिमां स्निह्यामीति । अदृष्टपूर्वान्ये न्याकारौ तौ उभयतः पाशेन बद्धमिवात्मानमन्वभवताम् । प्रार्थितोऽपि विदूषकः कथं संगमयेत्तामिति द्वारकां गतः विदूषकेण शिष्यरूपेण सह तापसवेषः पार्थश्च । वेषविन्यासाय चीरादिकमाहर्तुं गतेन विदूषकेण स्वर्णमयी गात्रिकोत्कीर्णार्जुननामदशका पथि लब्धा । गात्रिकयार्जुनोऽनुममे मया गोपायित-प्राणा सा प्राणप्रियापि द्वारकामेवाधिवसतीति।

रैवतके गिरौ वसन्तं साधुवेषमर्जुनं द्रष्टुकामः छद्मकौशलं सर्वं परिजानन् कृष्णो रामेण सहगतः सुभद्रां कामयमानस्य पार्थस्य वृत्तं भ्रातरं नैव निवेदयाञ्चकार। ततोऽनु बलस्तं कन्यान्तःपुरमानाय्य माधवीलतागृहे कूटध्यानपरं सुभद्रा-परिचर्या-निवृतं कृतवान् । तत्र प्रमदवने सुभद्रामसौ प्रत्यभिज्ञातवान् राक्षसापह्रियमाणामिमामेवाहं रक्षितवानिति । सुभद्रा च पुरार्जुनविक्रमश्रवणरक्त-मानसापि रक्षसो रक्षितवन्तं युवानं प्रति विहितानुषङ्गा सतीदानीं तापसमिमं कामये इति त्रिषु संक्रान्तरागमात्मानं मत्वा कुलटास्मीति सन्तप्ता। अथ सा मर्तुकामा सहकारमण्डपे लतापाशं गलेऽबध्नात् । अर्जुनश्च तां पाशमुक्तकण्ठां कृत्वा साहसकारणं विज्ञाय त्रिधा स्थितोऽहमेवैकस्ते प्रिय इति दोषबुद्धिकालुष्यपरिहीणां विधाय स्मृतकृष्णमहेन्द्रः तयोर्दातृत्वे काश्यपस्य पौरोहित्ये पाणौ गृहीतवान् । बलमनिवेद्यैव कृष्णः पार्थाय सुभद्रामदादिति पश्चाद् विमतौ यदून् स्थापयामास ।

एकदा स्यन्दनव्रतव्याजेन सांग्रामिकमधिरुह्य रथं सुभद्रां द्वारकायाः बहिरागतामर्जुनोऽपहृतवान् । यदुषु कलकलोऽजायत । बलस्याध्यक्षत्वे समवेतबलास्ते युद्धकामा अर्जुनेन पराकृताः । कृष्णोऽग्रजं सान्त्वयामास ।

अथ रामकृष्णयोः सोपहारेषु सपरिजनेषु बहिःस्थितेषु संविहित-स्वागतोल्लासेसम्भारे चेन्द्रप्रस्थे कालिकादर्शनाय गता सुभद्रा केनापि हृता । विदूषकदत्तोन्मेष-चेतनः पार्थः सुभद्रां राक्षसान्मोचयितुं प्राभवत् । अथ गोपालिकावेषा सुभद्रा द्रौपदी-समाकारा च काली पार्थमुपासेवेताम् । छद्मपाञ्चाल्या उपस्थित्या रूक्ष-रूक्ष-समुदाचारेण चासौ शङ्कापर्याकुलो जातः । अत्रान्तरे परमार्थद्रौपदी तं दिदृक्षुमायान्तीं दृष्ट्वान्ततोऽर्जुनो रहस्यमजानात् । काली तस्मै दुर्योधनकारितं सुभद्रापहरणवृत्तं स्वकृतं तस्या रक्षणं च सविस्तरं विज्ञाप्य गता। सर्वे सुखिनो बभूवुः।

कालिदासादारभ्य आ च भवभूतेः काव्यवस्तुनो वास्तुशिल्पं हृद्यं हृदि सम्भाव्यैव परवर्तिनः उपजीव्य जीवन्ति प्रायशः कवयः । नवा तु काप्यमिख्या सर्वेषां पृथक् सौभगं तन्वाना विविक्तामेव व्यक्तिं पुरस्करोति । एतयैव दृशा कुलशेखरं कुलशेखरिणमिवान्यतमं कविषु मन्महे। कथमसौ मेघदूतीयां मन्दाक्रान्तां छन्दोंगतिं निरूपयति -

लास्यारम्भ-प्रवितत-शिखान् नर्तयन्तं कलापान्

केका-पूर-प्रचित-कुहरां कन्धरां द्राधयन्तम्।

त्वं प्रेक्षस्व प्रणयविवशः प्रेमवन्तं मयूर

मा भूर्मेघ क्षणमपि रवेर्मण्डलस्योपरोधी।।[१]

इति अप्रस्तुतप्रशंसा कवेः प्रशंसां प्रस्तुतामेव तनोति । कथंकारं समासोक्तिनिबद्धा-वक्रोक्ति-प्रौढिमानमसमं विस्फारयति कवेः -

आपाटलं किसलयाधरमर्पयन्ती

व्यावृण्वती मधुपझङ्कृतिसीत्कृतानि।

अभ्याशचूतमरविन्दकुचोपपीड-

मत्यायतं समुपगूहति कल्पवल्ली।।[२]

व्योम-यान-वर्णना समुद्घाट्यत्युद्भावनापटिम्ना सनाथां स्वभावोक्तिसच्छायां कामपि प्रत्यग्रां प्रतिभामतिशयोक्ति-द्वारवतीम् -

कालः पातेष्वमीषां खुरपुटयुगयोर्मेधपृष्ठे हयाना-

मेकस्यैव क्षणस्य प्रथमचरमयोः पूर्वपाश्चात्त्यभागौ।

वेगस्तब्धा इवामूः कनकवलयवद् व्याप्तपर्यन्तरेखें

नेमीरावर्तमाना: पिशुनयति तडिच्चक्रमाक्रान्तिचक्रम्।।[३]

इति कालिदासमेव स्मारं स्मारमालोचयामः स्रग्धरां काव्यभारतीम्।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. तप० ५.११
  2. तप० २.४
  3. तप० ५.१६

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सुभद्राधनञ्जयम्&oldid=436566" इत्यस्माद् पुनः प्राप्तिः