कूर्दनक्रीडा
कूर्दनकला (Jumping Sport) विद्यमानक्रीडासु एकम् अङ्गं वर्तते ।
ऐतिहासिकी पृष्ठभूमिः
[सम्पादयतु]प्रत्येकं प्राणिनः स्वभावे धावनकूर्दने समानरुपेणैव तिष्ठतः । यो धावति स कूर्दते यश्च कूर्दते स धावति । यथा मानवः प्रारम्भे धावनं कृत्वाऽऽत्मानं रक्षतिस्म तथैव यथावसरं कूर्दनेनाप्यात्मनो रक्षां विधत्ते स्म । इदं कूर्दनं कदाचित् सामान्यं कदाचिच्चासामान्यमुच्चैः स्थानादधः पतनेन किं वा धावनस्य मध्ये समागतस्य गर्तस्य पाषाणखण्डस्यान्यस्य वा कस्यचनावरोधवस्तुन उल्लङ्घनायाद्रियत् । इदमुल्लङ्घनमुत्पलुत्याऽथवा लधुदीर्घकूर्दनेन कुर्वतां काऽपि व्यवस्था नासीद् । यदा कदा रक्षार्थं प्रयुज्यमानेयं क्रिया हस्तयोः पादयोः शरीरस्यान्येष्वङ्गेषु वाऽभिघातेन पीडामपि जनयति स्म । यदाऽस्यां क्रीडाचार्याणां दृष्टिर्गता तदा तैरस्या व्यवस्थापनाय प्रयतितम्, पद्धतीनां निर्धारणं कृतम्, प्रयोगाणां वैविध्येन च महत्त्वं वर्घितम् । प्रतियोगितापरम्परायां सर्वप्रथमं सन् १८७६ तमे वर्षेऽमेरिकन्-राष्ट्रियप्रतियोगितायां १७ फीट ४अ इंचमितं तथा १८८८ तमेशवीयवत्सरे २३ फीट ३ इंचमितं प्रलम्बकूर्दनं विधाय 'एम० डब्यू० फोर्डः’ विश्वकीर्तिमानं स्थापितवान् । ततः परं सन् १८६६ तमे वर्षे 'एलविन क्रेजिलिनः’ २४ फीटमितं, 'पीं श्रो० कोनरः’ २४ ३/४ फीटमितं तथा 'डीहर्ट हवई’श्च २६ फीटमितमुच्छलनं कृत्वा किर्तिमानं वर्धितवन्तः ।
कूर्दनकलायाः विकासः प्रकाराश्च
[सम्पादयतु]१. तीव्रा गतिः, २. शंसनीयमुच्छलनं तथा ३. समुचितं सन्तुलनं, कूर्दन कलाया मुख्यानि तत्त्वानि वर्तन्ते । एतेषु कश्चन तीव्रगतौ सिशिष्टतां बिभर्ति, अन्यः शंसनीयोच्छलने प्रावीण्यं भजते तृतीयश्च समुचित सन्तुलनेन वैशिष्ट्यं प्रदर्शयति । तरतमत्वाभ्यां विकासे साहाय्यं भवति । यत्र न्यूनता दृश्यते तस्य परिपूर्तये क्रमशः प्रयत्ना विधीयन्ते किञ्च यस्मिन् निरन्तरं प्रगतिमत्या प्रक्रियया साफल्यमवाप्यते तस्या विकासेन नियमा निर्धार्यन्ते । इत्थं कूर्दनेऽपि विभिन्नता समायाता प्रकाराश्च स्थिरतां प्राप्ताः ।
प्रमुखाः कूर्दनप्रकाराः
[सम्पादयतु]कूर्दनश्लोकः
[सम्पादयतु]- शरीरं स्थूलं स्यादतिकृशमथो मध्यमतमं
- प्रलम्बं वा निम्नं शिथिलमथवा वामनसमम् ।
- शरीरी स्वस्थश्चेत् परमिह तदाऽभ्यासनिपुणो
- जनः कीर्ति विन्ते प्रथयति च तं 'कूर्दनकला’ ॥
आधारः
[सम्पादयतु]अभिनवक्रीडातरङ्गिणी