क्षेमीश्वरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
क्षेमीश्वरः
जननम् मध्यकालः
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः चण्डकौशिकम्, नैषधानन्दम्

क्षेमीश्वरो दशमशताब्द्याः पूर्वभागे आर्यावर्ताधीश्वरं महीपालदेवमाश्रित्य काव्य-सरस्वतीं निषेवते स्म। एषः चण्डकौशिक-नाटकस्य प्रणेता अस्ति। अनेन नैषधानन्दं नाम सप्ताङ्कमन्यदपि नाटकं नलदमयन्तीकथानकमनुसृत्य विरचितम् । नाद्ययावत् नैषधानन्दं प्रकाशितम्।

चण्डकौशिकम्[सम्पादयतु]

मुख्यलेखः : चण्डकौशिकम्

चण्डकौशिके हरिश्चन्द्र-विश्वामित्रयोः कथानकं मार्कण्डेयपुराणाद् देवीभागवताच्चादाय दृश्यतामानीतं सर्वथा व्याख्याति विश्वामित्रस्य चण्डताम् । नाटकमिदं बहुकालसम्मतं राजकुमारकार्तिकेयेन प्रथमप्रयोगार्थमुद्दिष्टम् । श्रीधरदासेन सदुक्तिकर्णामृते विश्वनाथेनसाहित्यदर्पणेऽस्य पद्यानि संगृहीतानि । भारतेऽस्य कथानकं स्मृत्वा लोको हरिश्चन्द्रस्य सत्योत्कर्षं प्रशंसति।

नैषधानन्दम्[सम्पादयतु]

क्षेमीश्वरस्य नैषधानन्दे नलस्य पौराणिककथा विलसति । कीथ-महोदयेनास्य नाटकस्य पद्यद्वयं स्वकीये संस्कृतनाट्येतिहासे उद्धृतम्।

सम्बद्धाः लेखाः[सम्पादयतु]

नाट्यशास्त्रम्

महाभारतम्

हरिश्चन्द्रः

संस्कृतम्

उद्धरणम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=क्षेमीश्वरः&oldid=436307" इत्यस्माद् प्रतिप्राप्तम्