सामग्री पर जाएँ

ग्वालियर् दुर्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
दुर्गस्य प्रवेशद्वारम्, हाथिपोलदरवाजा
तेली का मन्दिर

एतद् दुर्गं भारतीयदुर्गेषु सुभद्रम् इति ख्यातम् अस्ति । कण्ठहारस्था मुक्तामणिः इति वर्णितवन्तः । आग्रानगरस्य समीपे एव ग्वालियर-नगरमस्ति । दुर्ग-देवालय-सरोवर-भवनानां कारणात् एतत् नगरं प्रसिद्धं जातम् अस्ति । दुर्गस्य सहस्रवर्षानां प्राचीनम् इतिहासः अस्ति । पूर्वं हूण-वंशीयाः अत्र शासनं कृतवन्तः । दुर्गस्य त्रयः पार्श्वभागाः पर्वतप्रदेशे सन्ति । मुस्लिम-राजा इल्तमिश् इत्याख्यः अत्र शासनं कृतवान् । ई. ११९८ तमे वर्षे एतद् दुर्गं तोमरराजपूतवंशीयानां वंशे आगतम् । इदं दुर्गं प्रशासनकेन्द्रमपि आसीत् ।

मानमन्दिरम्

[सम्पादयतु]

राजा मानसिंहः स्वप्रियायै मृगनयन्यै ई. १५ शतके भवनस्य निर्माणं कारितवान् । एतत् मानमन्दिरम् इति प्रसिद्धम् अस्ति । मानमन्दिरं चतुस्तरीयं, वर्णचित्राणां छदयुक्तं च अस्ति । छद्यां कपोतानां मयूराणां गजानां च चित्राणि सन्ति ।

दुर्गस्य महाद्वाराणि

[सम्पादयतु]

दुर्गं प्रवेष्टुम् उर्वाही-द्वारेण अथवा अलङ्गीर-द्वारेण आगन्तव्यं भवति । मानसिंहराजगृहमेव दुर्गस्य प्रवेशद्वारमिवास्ति । अलङ्गीरद्वारम् ई १६६० तमे वर्षे निर्मितम्। एतत् औरङ्गजेब इत्याख्यस्य द्वारमिति प्रसिद्धमस्ति । राजगृहे अनेकानि द्वाराणि सन्ति । द्वितीयं द्वारं मानसिंहस्य कनिष्ठपितृव्यस्य बादलसिंहस्य स्मरणार्थं बादलघर इत्यस्ति । चतुर्थं गणेशद्वारमस्ति ।

दुर्गे दर्शनीयानि इतरस्थानानि

[सम्पादयतु]

कीर्तिमन्दिरं जहाङ्गीरराजगृहं, शाह जहां राजगृहं, तेली का मन्दिर दुर्गे दर्शनीयानि सन्ति । दुर्गस्य पूर्वभागे सासबहूमन्दिरं ११ शतके निर्मितम् अस्ति । अत्र विष्णुः आराध्यः अस्ति । एतानि गुर्जरदेशस्य प्रतिहारैः निर्मितानि सन्ति । लष्कर-प्रदेशे विद्यमानं जयविलास-भवनम् अतीव सुन्दरम् अस्ति । अत्र स्फटिकशिलया सोपानानि अट्टाः च निर्मिताः सन्ति । विशालाः द्वात्रिंशत्(३२)प्रकोष्ठाः अत्र सन्ति । राजगृहस्य भोजनोत्पीठिकायां रजतस्य धूमशकटानि सन्ति । दुर्गतः प्राचीनग्रामः नवनगरं च दृश्यन्ते । दुर्गे जैनतीर्थङ्कराणाम् अदिनाथ-नेमिनाथादीनां विग्रहाः सन्ति । ग्वालियर् दुर्गं ३० पादमितोन्नतं २ कि.मी दीर्घं चास्ति । ई. १८०९ तमे वर्षे निर्मितं जलविलासराजगृहम् इदानीं वस्तुसङ्ग्रहालयः अस्ति । पूर्वं सिन्धियावंशीयानां राजगृहमासीत् । मोतिमहल-राजगृहस्य वस्तुसङ्ग्रहालयः दर्शनीयः अस्ति । एतेषु अपूर्वाणि सुन्दराणि वस्तूनि सन्ति । ग्वालियर नगरस्य इतिहासे ई. १८५७ तमे वर्षे १८,००० भारतीयाः सैनिकाः श्री तात्याटोपेइत्याख्यस्य नायकत्वे स्वातन्त्र्यादोलने भागं स्वीकृतवन्तः । भारते प्रथमस्वातन्त्र्यसङ्ग्रामः अत्रैव अभवत् । ग्वालियरनगरस्य धूमशकटनिस्थानस्य समीपे कश्चन वस्तुसङ्ग्रहालयः अस्ति । अत्र मुगल-राजपूत-मराठा-वंशीयानां कालीनानि वस्तूनि नाणकानि च सन्ति । अत्र मुगलगार्डन उद्यानमस्ति । तत्र महाराज्ञ्याः प्रतिमायाः प्रतिदिनं नूतनवस्त्रधारणं भवति । आहारमपि यच्छन्ति ।

चित्रशाला

[सम्पादयतु]

वाहनमार्गः

[सम्पादयतु]

आग्रामुम्बयीमार्गे ग्वालियरपत्तनमस्ति ।

धूमशकटमार्गः

[सम्पादयतु]

धौलपुरझान्सीधूमशकटमार्गे ग्वालियर् प्रमुखं निस्थानमस्ति ।

"https://sa.wikipedia.org/w/index.php?title=ग्वालियर्_दुर्गम्&oldid=390076" इत्यस्माद् प्रतिप्राप्तम्