चणकपिष्टम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चणकधान्यम्
मैसूरुपाक्

पिष्टं नाम आङ्ग्लभाषायां Powder अथवा Flour इति उच्यते । भारते वर्धमानः कश्चन धान्यविशेषः चणकः । आङ्ग्लभाषायां Chickpea अथवा Bengal Gram इति वदन्ति । अश्वानां परमप्रियः आहारः चणकः यद्यपि वातकारकः तथापि घृतस्य योजनेन वातदोषः निवारितः भवति । हिरिमन्थः, वाजिमन्थः सुगन्धः, सकलप्रियः, जीवनः इत्यादीनि नामानि सन्ति चणकस्य । सस्यशास्त्रज्ञाः Cicerone Haem इति वदन्ति । चणके अपि वर्णभेदानुसारं बहुविधाः चणकाः सन्ति । तत्र कृष्णचणकः, गौरचणकः, श्वेतचणकः च प्रसिद्धाः

अनेन चणकपिष्टेन बहुविधानि भर्ज्यानि निर्मीयन्ते । "दोक्ला" नामकः विशिष्टः खाद्यपदार्थः अपि अनेन चणकपिष्टेन निर्मीयते । कर्णाटके प्रसिद्धं “मैसूरुपाक्” इत्याख्यं मधुरभक्ष्यम् अपि निर्मीयते चणकस्य पिष्टेन एव । मुद्गपिष्टम् इव चणकपिष्टम् अपि शरीरस्य कान्तिं वर्धयति । अतः चणकपिष्टं फेनकम् इव अपि उपयुज्यते । नवग्रहेषु अन्यतमस्य गुरोः श्रेष्ठं धान्यं चणकः । यद्यपि चणके विद्यमानाः एव गुणाः पिष्टे अपि भवन्ति तथापि पिष्टम् अत्यन्तं सूक्ष्मरूपम् इति कारणतः शरीरस्य सूक्ष्मान् अपि भागान् प्रविशति इति वदति आयुर्वेदशास्त्रम् । तथैव चणकेन निर्मितैः पदार्थैः सह कटुयुक्तम्, आम्लयुक्तं, लवणयुक्तं च अन्यं कमपि आहारं सेवन्ते चेत् आरोग्यार्थं हितकरं भवति ।

दृश्यताम्[सम्पादयतु]

अधिकविवरणार्थं चणकः इति पृष्ठं द्रष्टव्यम् ।

चणकपिष्टेन निर्मितानि बहुविधानि खाद्यानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चणकपिष्टम्&oldid=345424" इत्यस्माद् प्रतिप्राप्तम्