मुद्गपिष्टम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मुद्गधान्यम्

पिष्टं नाम आङ्ग्लभाषायां Powder अथवा Flour इति उच्यते । भारते वर्धमानः कश्चन धान्यविशेषः मुद्गः । इदं मुद्गपिष्टम् अपि सस्यजन्यः आहारपदार्थः । मुद्गः आङ्ग्लभाषायां Mung bean अथवा Green Gram इति उच्यते । आहारपदार्थेषु सदापथ्याः भवन्ति केचन आहारपदार्थाः । तन्नाम सर्वदा सेवनार्थं योग्याः इति । तादृशेषु आहारपदार्थेषु “मुद्गः” अपि अन्यतमः । यद्यपि धान्यानि दालाः च वातवर्धकाः, शीतगुणयुक्ताः, मलप्रतिबन्धकाः, वातकराः च तथापि मुद्गः न तावान् वातवर्धकः, मलप्रतिबन्धकः वा ।

सूपश्रेष्ठः, रसोत्तमः, भुक्तिप्रदः, हयानन्दः, सुफलं, वाजिभोजनम् इत्यादीनि नामानि सन्ति मुद्गस्य । वर्णभेदम् अनुसृत्य मुद्गः पञ्चधा विभक्तः अस्ति । कृष्णमुद्गः, हरितमुद्गः, पीतमुद्गः, श्वेतमुद्गः, रक्तमुद्गः च इति । यद्यपि मुद्गे विद्यमानाः एव गुणाः पिष्टे अपि भवन्ति तथापि पिष्टम् अत्यन्तं सूक्ष्मरूपम् इति कारणतः शरीरस्य सूक्ष्मान् अपि भागान् प्रविशति इति वदति आयुर्वेदशास्त्रम् । मुद्गपिष्टं फेनकवत् अपि उपयुज्यते । चणकपिष्टम् इव मुद्गपिष्टम् अपि शरीरस्य कान्तिं वर्धयति ।

दृश्यताम्[सम्पादयतु]

अधिकविवरणार्थं मुद्गः इति पृष्ठं द्रष्टव्यम् ।

"https://sa.wikipedia.org/w/index.php?title=मुद्गपिष्टम्&oldid=361482" इत्यस्माद् प्रतिप्राप्तम्