चन्देरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Chanderi
Town
View of Chanderi town from Qila Kothi. The Chaubisi Jain temple with 24 shikharas, installed in 1836 by Bhattaraka Harichand of Sonagir, is in the center.
View of Chanderi town from Qila Kothi. The Chaubisi Jain temple with 24 shikharas, installed in 1836 by Bhattaraka Harichand of Sonagir, is in the center.
Country  India
State Madhya Pradesh
District Ashok Nagar
Elevation
४५६ m
Population
 (2001)
 • Total २८,३१३
Languages
 • Official Hindi
Time zone UTC+5:30 (IST)
Telephone code 7547
Vehicle registration MP 08
चन्देरी-पत्तनम्

चन्देरी-पत्तनं ( /ˈxəndɛr/) (हिन्दी: चन्देरी, आङ्ग्ल: Chanderi) मध्यप्रदेशराज्यस्य अशोकनगरमण्डले स्थितम् एकम् ऐतिहासिकं पत्तनम् अस्ति । एतत् पत्तनं मालवा, बुन्देलखण्ड इत्येतयोः प्रान्तयोः सीमायां स्थितमस्ति । इदं पत्तनं शिवपुरी-नगरात् १२७ कि. मी., ललितपुर-नगरात् ३७ कि. मी., ईसागढ-नगरात् ४५ कि. मी. दूरे अस्ति ।

इदं पत्तनं बेटवानद्याः समीपे स्थितम् अस्ति । लघुशैले स्थितम् इदं पत्तनं शान्तियुक्तम् अस्ति । इदं पत्तनं परितः वनानि, सरोवराः सन्ति । हृदयाह्लादाय जनाः तत्र गच्छन्ति । अस्मिन् पत्तने बहूनि भवनानि सन्ति । तेषां भवनानां निर्माणं बुन्देल सुल्तान, मालवा सुल्तान इत्येताभ्यां कृतम् अस्ति । महाभारते अपि अस्य पत्तनस्य उल्लेखः दृश्यते । एकादश्यां शताब्द्याम् इदं पत्तनं सैनिकानां महत्वपूर्णं केन्द्रम् आसीत् । बुन्देलखण्ड-शैल्यां हस्तनिर्मिताभ्यः शाटिकाभ्यः प्रसिद्धं पत्तनम् अस्ति चन्देरी ।

इतिहासः[सम्पादयतु]

महाभारतकाले शिशुपालः चेदि-देशस्य राजा आसीत् । तस्य राजधानी चेदिपुरी आसीत् । कालान्तरे अपभ्रंशकारणात् अस्य नाम चन्देरी अभवत् इति जनमान्यता । अपरा जनश्रुतिः अस्ति यत् अष्टम्यां शताब्द्यां चन्देरी-पत्तनस्य स्थापना चन्द्रवंशीयेन क्षत्रियेण चन्देल राजपूत इत्याख्येन कृता आसीत् । तेन अस्य पत्तनस्य नाम चन्द्रपुरी इति दत्तम्, कालान्तरे तदेव चन्देरी अभवत् इति । चित्तौड-नगरस्य राणा साङ्गा इत्याख्येन राज्ञा सुलतान खिलजी इत्यस्मात् चन्देरी-पत्तनं जितम् । १५२७ तमे वर्षे मेदिनीराय इत्याख्येन चन्देरी-पत्तनस्य शासनं कृतम् आसीत् । ततः परं पूरनमल जाट इत्यनेन चन्देरी-पत्तनस्य शासनं कृतम् । अन्ते शेर शाह इत्याख्येन चन्देरी-पत्तनस्य शासनं कृतम् ।

आकर्षणकेन्द्राणि[सम्पादयतु]

चन्देरी-दुर्गम्[सम्पादयतु]

इदं दुर्गं चन्देरी-पत्तनस्य प्रमुखम् आकर्षणकेन्द्रमस्ति । इदं दुर्गं चन्देरी-पत्तनात् ७१ मी. उपरि स्थितमस्ति । पुरा चन्देरी-पत्तनस्य केनचित् मुस्लिम-शासकेन अस्य दुर्गस्य निर्माणं कारितम् आसीत् । अस्य दुर्गस्य द्वारत्रयम् अस्ति । यद्यपि प्रथमं द्वारं मुख्यत्वेन गण्यते तथापि नाम्नः कारणात् अपरे द्वे द्वारे विशिष्टे गण्येते । तयोः नामनी स्तः – ‘हवा पौर’, ‘खूनी दरवाजा’ इति । इदं दुर्गं पत्तनात् बहुसुन्दरं दृश्यते ।

कौशक महल[सम्पादयतु]

मालवा-प्रान्तस्य महमूद शाह खिलजी इत्यनेन चन्देरी-पत्तने सप्तभूमभवनं निर्मापितम् । किन्तु क्लेशकारणात् तस्य निर्माणकाले अवरोधः जातः इत्यतः बहूनि वर्षाणि यावत् अपूर्णावस्थायामासीत् । ततः परम् अष्टादशशताब्द्यां बुन्देल-प्रान्तस्य मुख्यजनैः अस्य भवनस्य निर्माणं पूर्णं कारितम् ।

परमेश्वर-तडागः[सम्पादयतु]

अस्य तडागस्य निर्माणं बुन्देल राजपूत राज्ञैः कारितम् । तडागस्य समीपे एकं मन्दिरं वर्तते । तत्र तेषां राजपूत-राज्ञां स्मारकत्रयम् अस्ति । अयं तडागः चन्देरी-पत्तनात् १ कि. मी. दूरे स्थितः अस्ति ।

ईसागढ[सम्पादयतु]

चन्देरी-पत्तनात् ४५ कि. मी. दूरे ईसागढ-उपमण्डलस्य कडवाया-ग्रामे अनेकानि सुन्दराणि मन्दिराणि निर्मितानि सन्ति । तेषु मन्दिरेषु एकं मन्दिरं दशमशताब्द्यां कच्चापगहटा-शैल्यां निर्मितमस्ति । गर्भगृहं, मण्डपः च मन्दिरस्य मुख्याकर्षणमस्ति । अत्रस्थः चन्देल-मठः अन्यत् लोकप्रियं प्राचीनं च मन्दिरमस्ति । अत्र एकः बौद्धमठः अपि विद्यते ।

बूढी चन्देरी[सम्पादयतु]

पुरातनं चन्देरी-पत्तनं बूढी चन्देरी इति नाम्ना प्रसिद्धमस्ति । अत्र बहूनि जैन-मन्दिराणि सन्ति । तेषां निर्माणं दशमशताब्द्याम् अभवत् । तानि मन्दिराणि अस्य आकर्षणकेन्द्राणि सन्ति । जैनमतस्य अनुयायिनः दर्शनार्थं तत्र गच्छन्ति ।

जामा मस्जिद्[सम्पादयतु]

जामा मस्जिद् चन्देरी-पत्तने अस्ति । इदं मध्यप्रदेशराज्यस्य बृहत्तमेषु मस्जिद् इत्येतेषु अन्यतमम् अस्ति ।

देवगढ-दुर्गम्[सम्पादयतु]

देवगढ-दुर्गं चन्देरी-पत्तनात् २५ कि. मी. दूरे स्थितमस्ति । दुर्गेऽस्मिन् जैन-मन्दिराणां समूहः अस्ति । तेषु प्राचीनकालस्य मूर्तयः अपि सन्ति । दुर्गस्य समीपे विष्णोः दशावतारस्य एकं मन्दिरम् अपि अस्ति यस्मिन् सुन्दराः मूर्तयः, स्तम्भाः च सन्ति ।

मार्गाः[सम्पादयतु]

वायुमार्गः[सम्पादयतु]

चन्देरी-पत्तनस्य निकटतमं विमानस्थानकं ग्वालियर-नगरे वर्तते । चन्देरी-पत्तनात् ग्वालियर-नगरं २२७ कि. मी. दूरे स्थितमस्ति ।

धूमशकटमार्गः[सम्पादयतु]

चन्देरी-पत्तनस्य निकटतमं रेल-स्थानकम् अशोकनगर अशोकनगरे, ललितपुरे च वर्तते ।

भूमार्गः[सम्पादयतु]

झान्सी, ग्वालियर, टीकमगढ इत्यादिभिः नगरैः चन्देरी-पत्तनाय बस्-यानानि प्राप्यन्ते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  • http:/ /www.chanderigi.com/index.htm
"https://sa.wikipedia.org/w/index.php?title=चन्देरी&oldid=390077" इत्यस्माद् प्रतिप्राप्तम्