चमोलीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(चमोलीमण्डल इत्यस्मात् पुनर्निर्दिष्टम्)
चमोलीमण्डलम्

Chamoli District

land of forts
चमोली जिला
चमोलीमण्डलम्
चमोलीमण्डले स्थितं बदरीविशालमन्दिरम्
देशः  India
राज्यम् उत्तराखण्डः
उपमण्डलानि चमोली, पोखरी, कर्णप्रयाग, थराली, गैरसैंण
विस्तारः ७,६१३ च.कि.मी.
जनसङ्ख्या(२०११) ३,९१,६०५
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ८२.६५%
भाषाः गढवाली, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://chamoli.nic.in/

चमोलीमण्डलम् ( /ˈtʃəmlɪməndələm/) (हिन्दी: चमोली जिला, आङ्ग्ल: Chamoli District) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति गोपेश्वर इति नगरम् । चमोलीमण्डलं वन्यजीवन-स्थापत्यकला-प्राकृतिकदृश्यादिभ्यः प्रख्यातमस्ति । अस्य land of forts इति नामान्तरमस्ति ।

भौगोलिकम्[सम्पादयतु]

चमोलीमण्डलस्य विस्तारः ७,६१३ च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य मध्यभागे इदं मण्डलमस्ति । अस्योत्तरदिशि उत्तरकाशीमण्डलं, चीनदेशः च, दक्षिणदिशि बागेश्वरमण्डलम्, अल्मोडामण्डलं च, पूर्वदिशि पिथौरागढमण्डलं, पश्चिमदिशि रुद्रप्रयागमण्डलम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

चमोलीमण्डलस्य जनसङ्ख्या(२०११) ३,९१,६०५ अस्ति । अत्र १,९३,९९१ पुरुषाः, १,९७,६१४ स्त्रियः, ५२,१६१ बालकाः (२७,६०९ बालकाः, २४,५५२ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ५.७४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१९ अस्ति । अत्र साक्षरता ८२.६५% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८९.२०% स्त्री - ६०.५६% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- १ चमोली २ पोखरी ३ कर्णप्रयाग ४ थराली ५ गैरसैंण ।

वीक्षणीयस्थलानि[सम्पादयतु]

बदरीनाथः[सम्पादयतु]

भारतस्य प्रसिद्धेषु चतुर्धामसु अन्यतमः बदरीनाथः चमोलीमण्डले राराजते । नर-नारयणयोः सङ्गमस्थलमेतत् प्रतिवर्षं लक्षशः भक्तान् आकर्षयति । धर्मशास्त्रानुसारम् अस्य प्रदेशस्य नाम विशालपुरी इत्यपि अस्ति । अतः अस्य नामान्तरं बदरीविशालः इति । बदरीनाथमन्दिरं स्थापत्यकलायाः अद्भुतोदाहरणमस्ति । मन्दिरस्य मुख्यद्वारस्य नाम सिंहद्वारम् इति । पौराणिककथानुसारमस्य मन्दिरस्य स्थापना सत्ययुगे अभूत् । अत एव अस्य धाम्नः उल्लेखः बहुषु प्रमुखेषु धर्मग्रन्थेषु प्राप्यते । मन्दिरे चतुर्भुजस्य विष्णोः कृष्णवर्णीया लघ्वी मूर्तिरस्ति । भगवतः विष्णोः पूजा भवति अत्र । अत्र भगवान् बदरीविशालः पद्मासनस्थः अस्ति । भगवतः मूर्तेः सुवर्णमुकुटः वज्रेण शोशुभ्यते (be very splendid) । अत्र अन्यानां देवी-देवतानामपि मूर्तयः सन्ति । नारायणः, उद्धवः, कुबेरः, नारदः, लक्ष्मीः चात्र विराजन्ते ।

'हेमकुण्ड साहिब' गुरुद्वारम्[सम्पादयतु]

सिक्खसम्प्रदायस्य पवित्रं हेमकुण्डसाहिब-गुरुद्वारं हिमालयस्य उन्नते पर्वते स्थितमस्ति । दुष्प्राप्यं हेमकुण्डगुरुद्वारं १५,००० पादः उद्यते शिखरे स्थितमस्ति । ग्रीष्मकाले तत्र लक्षशः भक्ताः गच्छन्ति ।

भविष्यबदरी[सम्पादयतु]

सुबैन-पत्तनात् सप्तदश (१७) कि.मी. दूरे जोषीमठे स्थितमस्ति भविष्यबदरीमन्दिरम् । धौलीगङ्गानद्याः तीरे स्थितमस्त्येतन्मन्दिरम् । धौलीगङ्गा इति नाम तु गङ्गायाः शुभ्रजलत्वादस्ति । धौली अर्थात् श्वेतः, अत्र गङ्गां श्वेतगङ्गा इत्यपि कथयन्ति जनाः ।

गोपीनाथमन्दिरम्[सम्पादयतु]

गोपेश्वर-नगरात् दश (१०) कि.मी. दूरे स्थितमस्ति गोपीनाथमन्दिरम् । मन्दिरस्योपरि बृहत् स्तूपः (dome) अस्ति । मन्दिरस्य चतुर्विंशतिः (२४) द्वाराणि सन्ति । द्वादशेऽब्देऽस्य मन्दिरस्य स्थापनाभूदिति इतिहासे उल्लेखः प्राप्यते ।

रूद्रनाथ:[सम्पादयतु]

सर्वतः हिमाच्छादितानि गिरिशिखराणि सन्ति । गोपेश्वर-नगरात् एकविंशतिः (२१) कि.मी. दूरे स्थितमस्ति रूद्रनाथमन्दिरम् । भगवतः शिवः पूजा भवति अत्र । अत्र भगवान् रुद्रावताररूपेण पद्मासनस्थः अस्ति ।

अस्मिन् मण्डले अन्यानि वीक्षणीयानि स्थलानि सन्ति । यथा – औली, त्रिसुल गिरी, नंदा: देवी राष्ट्रियोद्यानम्, नीलकंठ:।


सम्बद्धाः लेखाः[सम्पादयतु]

चमोली गोपेश्वरम्

बाह्यानुबन्धः[सम्पादयतु]

http://chamoli.nic.in/

http://www.euttaranchal.com/uttaranchal/chamoli.php

http://www.euttaranchal.com/tourism/chamoli.php

http://www.okuttarakhand.com/chamoli-district/

http://timesofindia.indiatimes.com/topic/Chamoli-District

"https://sa.wikipedia.org/w/index.php?title=चमोलीमण्डलम्&oldid=460935" इत्यस्माद् प्रतिप्राप्तम्