जयपुरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(जयपुर मंडल इत्यस्मात् पुनर्निर्दिष्टम्)
जयपुरमण्डलम्
मण्डलम्
राजस्थानराज्ये जयपुरमण्डलम्
राजस्थानराज्ये जयपुरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ११,१५२ km
Population
 (२००१)
 • Total ६६,६३,९७१
Website http://jaipur.nic.in

जयपुरमण्डलं (हिन्दी: जयपुर जिला, आङ्ग्ल: Jaipur district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति जयपुरम् इत्येतत् नगरम् ।

भौगोलिकम्[सम्पादयतु]

जयपुरमण्डलस्य विस्तारः ११,१५२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे अलवरमण्डलं, दौसामण्डलं च , पश्चिमे अजमेरमण्डलम्, उत्तरे सीकरमण्डलं, दक्षिणे टोङ्कमण्डलम् अस्ति । अस्मिन् मण्डले ४५९.८ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं जयपुरमण्डलस्य जनसङ्ख्या ६६,६३,९७१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५९८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५९८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २६.९१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०९ अस्ति । अत्र साक्षरता ७६.४४ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले त्रयोदश उपमण्डलानि सन्ति । तानि-

  • जयपुर
  • आमेर
  • बस्सी
  • चक्षु
  • चोमू
  • मोजमबाद
  • जमवा रामगढ
  • फागी
  • फुलेरा
  • कोतपुतली
  • सङ्गनेर
  • शाहपुर
  • विराटनगर

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • हवा महल
  • जन्तर मन्तर
  • गोविन्द देवजी मन्दिरम्
  • सरगासूली
  • रामनिवास उद्यानवनम्
  • भद्रकालीमन्दिरम्
  • आमेर किला
  • जयगढ किला
  • सिटी पैलेस
  • रामबाग विशिप

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जयपुरमण्डलम्&oldid=464749" इत्यस्माद् प्रतिप्राप्तम्