जरत्कारुः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
जरत्कारुः
Sage Jaratkaru abandons his wife.jpg
पत्नीं शपन् जरत्कारुः
भार्या(ः) मानसा (जरत्कारुः)
अपत्यानि आस्तिकः

जरत्कारुः भारतस्य प्राचीनः ऋषिः। नागकन्यका जरत्कारुनाम्नी एव एतस्याः पत्नी। जरत्कार्वोः पुत्रः आस्तिकः। मानसा-आस्तिकयोः कथायाम् अपि जरत्कारोः उल्लेखः विद्यते[१]

जरत्कारुः प्रकृष्टेषु ऋषिषु अन्यतमः। सः अनेकानि तपांंसि आचरितवान्। सः ब्रह्मचारिरूपेण एव स्थातुम् ऐच्छत्। परन्तु पूर्वजान् मोक्षं प्रापयितुं मानसां परिणीतवान्। ते मोक्षम् अप्राप्नुवन्तः गर्ते लम्बमानाः आसन्। तेषां मोक्षप्रापणार्थम् एव जरत्कारुः विवाहार्थं सम्मतिं सूचितवान् ।

पूर्वपीठिका[सम्पादयतु]

महाभारते आस्तिकमानसयोः कथानिरूपणावसरे जरत्कारुः कथा उपलभ्यते। देवीभागवते, ब्रह्मवैवर्तपुराणे च जरत्कारोः उल्लेखः दृश्यते। आदिपर्वस्थे आस्तिकपर्वणि आस्तिकस्य कथा द्विः निरूपिता। तस्याः पत्न्याः नागकन्यकायाः पूजा अपि कुत्रचित् जानपदेषु क्रियते। तेष्वपि जरत्कारोः कथा प्रचलिता वर्तते।[२]

जरत्कारुः यायावरीयब्राह्मणकुले जातः इति उल्लेखः महाभारते दृश्यते। जरत्कारुः तस्य कुलस्य एकमात्रम् उत्तराधिकारी आसीत्। तस्य जरत्कारुरिति नाम कथम् आगतम् इति महाभारते इत्थं वर्णितम्।

जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम्।
शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैःशनैः।।
क्षपयामास तीव्रेण तपसेत्यत उच्यते।
जरत्कारुरिति[३]

जरत्कारुः प्रजापतिरिव तेजोवान्, ब्रह्मचर्यं पालयितुं बहुविधं तपः समाचरत् इति क्वचित् वर्णनं विद्यते[४][५] [२]। अपरत्र च जरत्कारुः बह्वीः कठिनताः सोढ्वा तपः आचर्य मन्त्रान् दृष्टवान् इत्यपि उल्लेखः विद्यते[२]

पूर्वजानां दर्शनम्[सम्पादयतु]

अयं महातपस्वी सर्वत्र विश्वे अटनम् अकरोत्। अटनावसरे अनेकेषां तीर्थक्षेत्राणां दर्शनं कृत्वा तीर्थक्षेत्रेषु पुण्यस्नानं च अकरोत्। आहारं निद्रां च त्यक्त्वा सः अटनं अकरोत्। केवलेन वायुना एव जीवति स्म। एवमेव सः वृद्धः अभवत्। कदाचित् एवं पर्यटनावसरे गर्ते अधःशिराः लम्बमाानाः पूर्वजाः दृष्टाः। तदा स्वकीयान् पूर्वजान् एतस्य कारणम् अपृच्छत्। भवता विवाहः न कृतः। भवतः सन्ततिः नास्ति इति कारणतः मोक्षम् अलभमानाः वयं लम्बमानाः स्मः। अस्मान् एतस्माद् कष्टाद् मोचयितुं भवतः विवाहः भवेत्। भवतः पुत्रप्राप्त्या वयं मुक्ताः भविष्यामः इत्यवोचन्। तदा जरत्कारुः अहं धनार्थं वा सुखार्थं वा विवाहितः न भविष्यामि। परन्तु भवतः कष्टाद् मोचयितुम् विवाहं करिष्यामि। मादृशाय वृद्धाय, निर्धनाय कोऽपि कन्यां न दद्यात्। यदि दानरूपेण यः कोऽपि कन्यां प्रयच्छति तर्हि तां परिणेष्यामि। पुनश्च तस्याः कन्यायाः नाम अपि मम नाम्ना समानं भवेत् इत्यवोचत्[६]


विवाहः[सम्पादयतु]

पूर्वजानां मेलनानन्तरं जरत्कारुः नागलोकम् अगमत्। तत्र वासुकेः सोदरीं जरत्कारुं परिणीतवान्[५][१]। अस्याः अपरं नाम मानसा इत्यपि आसीत्। जरत्कारोः मानसायाम् आस्तिकः इति पुत्रः अभवत्[७]। जनमेजयः सर्पयागे सर्वान् सर्पान् दहति इति सर्पमातुः कद्रोः शापः आसीत्। तस्माद् सर्पसन्ततिं रक्षितुं जरत्कारुमानसयोः पुत्रः आस्तिकः एव शक्नोति इति ब्रह्मा वासुकिं पूर्वम् उक्तवान्। अतः वासुकिः जरत्कारुणा सह मानसायाः विवाहं कृतवान्।.[५][२][५][८]


पत्नीत्यागः[सम्पादयतु]

आस्तिकम् अङ्के शाययन्ती मानसा

यदि क्वचित् अनुचितम् आचर्यते तर्हि अहं त्वाम् त्यक्ष्यामि इति विवाहसमये एव जरत्कारुः उक्तवान् आसीत्। कदाचित् जरत्कारुः सायङ्कालसमये मानसायाः अङ्के सुप्तः। तदा सायङ्कालीननित्यकर्माचरणस्य समयः समुपागतः। धर्मकार्यार्थं मानसा जरत्कारुम् उत्थापितवती। एतेन क्रुद्धः जरत्कारुः पत्नीं त्यक्तवा तपश्चरणार्थम् अरण्यं गतः। इयं कथा महाभारते उपवर्णिता[१][७]। ब्रह्मवैवर्तपुराणे मानसा जरत्कारुं प्रातः उत्थापितवती इति कथा दृश्यते[८].[९]

पुनस्तपश्चर्या[सम्पादयतु]

पत्नीं त्यक्त्वा पुनरपि तपश्चर्यार्थं जरत्कारुः अरण्यं गतः। जरत्कारोः पुत्रः आस्तिकः जनमेजयस्य सर्पयागे उपस्थाय सर्पाणां रक्षणम् अकरोत्[१०]। जरत्कारोः पुत्रप्राप्त्यनन्तरं तत्पूर्वजाः मोक्षं प्राप्तवन्तः। बहुकालं तपः तप्त्वा जरत्कारुः अपि मोक्षम् अवाप।

उल्लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जरत्कारुः&oldid=447993" इत्यस्माद् पुनः प्राप्तिः