तक्षशिलाविश्वविद्यालयः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
तक्षशिलाविश्वविद्यालयः
विश्वपरम्परास्थानानि

Panorama at Jaulian – Ancient Buddhist Monastery, Taxila
राष्ट्रम् पाकिस्थान्
प्रकारः सांस्कृतिक
मानदण्डः iii, vi
अनुबन्धाः 139
क्षेत्रम् ऎसिया-पेसिफ़िक्
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः 1980  (4th सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

इदानीन्तनपश्चिमपाकिस्तानस्य राजधानी रावाल्पिण्डि नगरात् अष्टादश (१८) क्रोषपरिमितं (कि.मी) उत्तरभागे तक्षशिला विश्वविद्यालयः आसीत् । एषः विश्वविद्यालयः भारतदेशस्य प्राचीनतमः विश्वविद्यालयः इति वदन्ति । त्रेतायुगे अयोध्याधिपतेः श्रीरामस्यानुजस्य भरतस्य् पुत्रः तक्षः एतत नगरं निर्मितवान् । द्वापरयुगे अपि एतत् स्थानं विद्याकेन्द्ररुपेण एव प्रसिध्दमासीत् ।

आरम्भः[सम्पादयतु]

क्रि.पू. सप्तमे षष्टे च शतमाने तक्षशिला विश्वविद्यालयस्य कीर्तिः देशे विदेशे च प्रसृता आसीत् । भारतदेशस्य विभिन्नप्रदेशात् छात्राः उन्नतं शिक्षणं प्राप्तुम् अत्र आगच्छन्ति स्म । अत्रापि वेदः, वेदाङ्गानि, अष्टादश विद्याः, दर्शनानि, व्याकरणम्, अर्थशास्त्रम्, राजनीतिः युध्दविद्या, ज्योतिषम्, हस्तिविद्या, अश्वविद्या, मन्त्रविद्या इत्यादीनाम् अध्ययनार्थं व्यवस्था आसीत् । पाणिनिः, कौटिल्यः, चन्द्रगुप्तः जीवकः कोसलदेशस्य राजा प्रसेनजित् इत्यादयः महापुरुषाः अपि आस्मिन् विद्यालय एव अध्ययनं कृतवन्तः इति प्राचीनभारतीयसाहित्येन ज्ञायते ।

वैशिष्ट्यम्[सम्पादयतु]

एषः विद्यालयः विशिष्टरुपेण विकसितः आसीत् । अस्य विद्यालयस्य निश्चितं केन्द्रस्थानं नासीत्, विशालभूभागे विद्यालयस्य प्रभावः प्रसृतः आसीत् । अनेके विद्वांसः अत्रागत्य छात्रान् बोधयन्ति स्म । निर्दिष्टपाव्यक्रमः निर्धारितसमयव्यवस्था अप्यत्र नैव आसीत् । किमपि प्रमाणपत्रमपि अत्र न दीयते स्म । छात्राणाम् अध्ययनविषयं योग्यताम् आसक्तिं च परिशील्य आचार्याः एव अध्ययनस्य अवधेः निश्चयं कुर्वन्ति स्म । शिष्याः आचार्यैः सहैव स्थित्वा अध्ययनं कुर्वन्ति स्म । एकैकस्य आचार्यस्य समीपे सामान्यतः शताधिकाः छात्राः भवन्ति स्म । क्रियात्मके अध्ययने विशेषदृष्टिः निवेशिता आसीत् । एतादृशम् अनुभवं प्राप्तुमेव देशसञ्चारः अपि तैः कार्यते स्म । यदा शिष्यः सामर्थ्यसम्पन्नः जातः इति ज्ञायते तदा आचार्याः एव विभिन्नप्रकारेण शिष्याणाम् अवलोकनं कुर्वन्ति स्म ।

जीवकः नाम छात्रः अस्मिन्नेव विद्यालय अधीतवान् इति तु उक्तम् । सः आर्युर्वेदं पठितवान् । अध्ययनान्ते आचार्याः तस्यावलोकनं कृतवन्तः । ते जीवकम् आश्रमं परितः वर्तमाने (१० क्रोष् परिमितं दूरं) वने सञ्चारं कृत्वा तत्र विद्यमानम् अनुपयुक्तं सस्यविशेषम् अन्विष्य आनयतु इति आदिष्टवन्तः । शिष्यः सर्वत्र अरण्ये अटितवान् । सस्यमपि अन्विष्टवान् परन्तु तादृशम् अनुपयुक्तं सस्यविशेषं सः न प्राप्तवान् । गुरुसमीपमागत्य अवदच्च अनुपयुक्तसस्यविशेषः मया कुत्रापि न प्राप्तः इति । अस्याः परीक्षायाः समनन्तरमेव गुरुः जीवकम् उत्तीर्ण इति घोषितवान् । चिकित्सां कर्तुं अधिकरोऽपि तैः दत्तः । सः जीवकः राजा बिम्बसारस्य राजवैद्यरुपेण नियुक्तः । तक्षशिला विद्यालये स्नातकपदवीं प्राप्तवान् इत्येव अत्यन्तं गौरवाय कल्पते स्म ।

अन्त्यम्[सम्पादयतु]

क्रि.पू. चतुर्थे शतमाने भारतदेशस्योपरि विदेशीयाणाम् आक्रमणम् आरब्धम् । भारतस्य सैनिकशाक्तिः गुरुकुलस्य रक्षणं करोति स्म । यावत्पर्यन्तम् देशस्य सैनिकशक्तिः समर्था आसीत्, तावत् विद्यालयोऽपि स्वस्थः स्थितः । यदा सैनिकशक्तेः ह्रासता जाता, आक्रमणकारान् निगृगीतुम् अशक्तत्वात् विद्यालयः लयं गतः । षष्ठे शतमाने आक्रमणं कृतवतां हूणानां प्रभावादेव एषः विद्यालयः पूर्णरुपेण नाशताम् अगच्छत् । एवमेव विक्रमशिला, वल्लभी (गुजरात्) इति विश्वविद्यालयाः अपि तदा प्रसिध्दाः एव आसन् । काशी, काञ्ची, मथुरा, पुरी इत्यादितीर्थस्थानानि अपि प्रसिध्दविद्याकेन्द्राणि एव आसन् । एतानि विशेषतः शङ्कराचार्यैः स्थापितानि वैदिकाध्ययनकेन्द्राणि । ११ तमे शतमाने काश्मीरमपि प्रसिध्दं विद्याकेन्दमेव आसीत् । अत्रापि बहुभ्यः प्रदेशेभ्यः अध्ययनार्थं छात्राः आगमिष्यन्ति स्म । एते विश्वविद्यालयाः न केवलं विद्याकेन्द्राणि, अपि तु भारतीयसंस्कृतेः प्रसारेकेन्द्राणि अपि आसन् ।