दक्षिणगोवामण्डलम्
दक्षिणगोवामण्डलम् South Goa District | |
---|---|
दक्षिणगोवा जिल्ला | |
गल्गिबगसमुद्रतटः | |
देशः | India |
राज्यम् | गोवाराज्यम् |
उपमण्डलानि | मुरगांव, साल्सेट(मडगांव), क्यूपेम, कानकोना(चाउडी), सङ्गेम, धारबन्दोरा |
विस्तारः | १९६६ चतुरस्रकि.मी. |
जनसङ्ख्या(२०११) | ६,४०,५३७ |
Government | |
• मण्डलसङ्गाहकः (District Collector) | एन. डी. अग्रवाल |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
साक्षरता | ८९.५७% |
भाषाः | कोङ्कणी, हिन्दी, आङ्ग्लं, पुर्तगाली च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४९% |
Website | southgoa.nic.in |
दक्षिणगोवामण्डलं ( ( शृणु) /ˈdəkʃhɪnəɡoʊɑːməndələm/) (हिन्दी: दक्षिण गोवा जिला, आङ्ग्ल: North Goa) गोवाराज्यस्य अन्यतरं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति मडगांव इति महानगरम् । अस्य मण्डलस्य रचना १९८७ तमे वर्षे ‘मे’-मासस्य त्रिंशत्तमे दिनाङ्के अभूत् ।
भौगोलिकम्
[सम्पादयतु]दक्षिणगोवामण्डलस्य विस्तारः १९६६ च.कि.मी.-मितः अस्ति । गोवाराज्यस्य दक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि उत्तरगोवामण्डलं, दक्षिणदिशि, पश्चिमदिशि उत्तरकन्नडमण्डलम्, पूर्वदिशि अरबीसमुद्रश्चास्ति । अस्मिन् मण्डले ३२० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले पञ्च नद्यः प्रवहन्ति । ताः यथा- ओरी, तलपोना, गल्गिबग, चपोरा, साल ।
जनसङ्ख्या
[सम्पादयतु]दक्षिणगोवामण्डलस्य जनसङ्ख्या(२०११) ६,४०,५३७ अस्ति । अत्र ३,२२,४६३ पुरुषाः, ३,१८,०७४ स्त्रियः, ६६,९०६ बालकाः (३४,३७९ बालकाः, ३२,३७९ बालिकाः) सन्ति । अत्र पुं-स्त्री अनुपातः १०००-९८६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ७.८४% आसीत् । अत्र साक्षरता ८९.५७% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ९३.४०% स्त्री - ८७.५९% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- १ मुरगांव २ साल्सेट(मडगांव) ३ क्यूपेम ४ कानकोना(चाउडी) ५ सङ्गेम ६ धारबन्दोरा ।
कृषिः वाणिज्यं च
[सम्पादयतु]रागी(Finger millet), तण्डुलः, नारिकेलं, काजूतकं(Cashew), 'जवार्', ‘बाजरा’ च अस्य मण्डलस्य प्रमुखाणि कृष्युत्पादनानि सन्ति ।
वीक्षणीयस्थलानि
[सम्पादयतु]अस्मिन् मण्डले बहवः समुद्रतटाः सन्ति । तेषु कोल्वा-बेनोलिम्-बोगमलो-पेलोलिम्-वोर्के-कोवोलोसिम्-अगोन्डा-बेनावलीसमुद्रतटाः प्रख्याताः सन्ति । अत्र श्रीमल्लिकार्जुनमन्दिरम् अस्ति । तत् मन्दिरं मडगांवतः चत्वारिंशत् कि.मी. दूरे कानकोना(चाउडी)-उपमण्डलेऽस्ति । षोडशे शताब्दे तत् मन्दिरं क्षत्रियाः स्थापितवन्तः इति जनमान्यता । अस्य जीर्णोद्धारकार्यं १७७८ तमे वर्षे अभूत् इति उल्लिखितम् इतिहासे । मन्दिरं काष्ठकलायाः उत्तमोदाहरणमस्ति । मन्दिरं परितः षष्ठिः देवताः सन्ति । काष्ठेन निर्मिताः स्तम्भाः, आकृतयः, तोरणानि च आकर्षणं जनयन्ति । रथसप्तमी-सिंहोत्सवकाले तत्र सहस्राधिकाः भक्ताः गच्छन्ति । अतः तत् ऐतिहासिकं, धार्मिकं च स्थलमस्ति । अस्मिन् मण्डले श्रीगोकर्णमठः अस्ति । तस्य स्थापना १४७५ तमे वर्षे अभूत् । सः मठोऽपि वीक्षणीयः ।
उत्तरगोवामण्डलम् | ||||
अरबीसमुद्रः | उत्तरकन्नडमण्डलम् (कर्णाटकराज्यम्) | |||
दक्षिणगोवामण्डलम् | ||||
उत्तरकन्नडमण्डलम् (कर्णाटकराज्यम्) |
बाह्यानुबन्धः
[सम्पादयतु]http://southgoa.nic.in/profile.htm southgoa.nic.in